अध्यायः 023

युधिष्ठिरादिभिः कुन्तीधृतराष्ट्रादीनां प्रव्रजनशोकेनाभिमन्युप्रभृतिबन्धुजनानुस्मरणजशोकेन स्वस्वव्यापारेष्वप्यनादरणम् ॥ 1 ॥

वैशम्पायन उवाच । 001
वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः । 001a
बभूवुः पाण्डवा राजन्मातृशोकेन चान्विताः ॥ 001c
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् । 002a
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥ 002c
कथं न राजा वृद्धः स वने वसति निर्जने । 003a
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥ 003c
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत् । 004a
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः ॥ 004c
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा । 005a
राज्यश्रियं परित्यज्य वनं सा समरोचयत् ॥ 005c
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान् । 006a
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥ 006c
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः । 007a
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम् ॥ 007c
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः । 008a
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥ 008c
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम् । 009a
गान्धारीं च महाभागां विदुरं च महामतिम् ॥ 009c
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा । 010a
न राज्ये न च नारीषु न वेदाध्ययनेषु च ॥ 010c
परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् । 011a
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः ॥ 011c
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि । 012a
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ॥ 012c
तथैव द्रौपदेयानामन्येषां सुहृदामपि । 013a
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥ 013c
हतप्रवीरां पृथिवीं हृतरत्नां च भारत । 014a
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे ॥ 014c
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी । 015a
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥ 015c
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम् । 016a
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ ॥ 016c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥