अध्यायः 022
शतयूपपृष्टेन नारदेन तं प्रति धृतराष्ट्रस्य वर्षत्रयादूर्ध्वं गान्धार्या सह कुबेरलोकप्राप्तिकथनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः । 001a
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥ 001c
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता । 002a
सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥ 002c
अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु । 003a
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥ 003c
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा । 004a
युक्तः पश्यसि विप्रर्षे गतयो विविधा नृणाम् ॥ 004c
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् । 005a
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥ 005c
स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो । 006a
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः ॥ 006c
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् । 007a
व्याजहार सभामध्ये दिव्यदर्शी महातपाः ॥ 007c
नारद उवाच । 008
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् । 008a
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥ 008c
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप । 009a
तपसो दुष्करस्यास्य यदयं तपते नृपः ॥ 009c
तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम् । 010a
वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः ॥ 010c
ततः कुबेरभवनं गान्धारीसहितो नृपः । 011a
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः ॥ 011c
कामगेन विमानेन दिव्याभरणभूषितः । 012a
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥ 012c
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् । 013a
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात् ॥ 013c
देवगुह्यमिदं प्रीत्या मया वः कथितं महत् । 014a
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥ 014c
वैशम्पायन उवाच । 015
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः । 015a
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥ 015c
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः । 016a
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥ ॥ 016c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥
15-22-12 ऋषिपुत्रो व्यासपुत्रः ॥