अध्यायः 021
नारदपर्वतादिभिर्धृतराष्ट्रादिदिदृक्षया शतयूपाश्रमं प्रत्यागमनम् ॥ 1 ॥ नारदेन धृताराष्ट्रं प्रति तत्तपोवनस्य सहस्रचित्यादिराजर्षीणां स्वर्गप्रापकत्वमहिमोक्तिपूर्वकं विदुरादिभिः सह तस्यापि भविष्यत्सिद्धिप्रदत्वकथनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः । 00a
नारदः पर्वतश्चैव देवलश्च महातपाः ॥ 001c
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः । 002a
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥ 002c
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि । 003a
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥ 003c
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः । 004a
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥ 004c
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः । 005a
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥ 005c
नारद उवाच । 006
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः । 006a
सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥ 006c
स पुत्रे राज्यमासज्ज्य ज्येष्ठे परमधार्मिके । 007a
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥ 007c
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः । 008a
पुरन्दरस्य संस्थानं प्रतिपेदे महाद्युतिः ॥ 008c
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया । 009a
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥ 009c
तथा शैलालयो राजा भगदत्तपितामहः । 010a
तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥ 010c
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः । 011a
स चापि तपसा लेभे नाकपृष्ठमितो गतः ॥ 011c
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः । 012a
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥ 012c
भार्या समभवद्यस्य नर्मदा सरितां वरा । 013a
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥ 013c
शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः । 014a
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान् ॥ 014c
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् । 015a
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥ 015c
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः । 016a
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥ 016c
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः । 017a
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति ॥ 017c
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी । 018a
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥ 018c
युधिष्ठिरस्य जननी स हि धर्मः सनातनः । 019a
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥ 019c
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् । 020a
सञ्जयस्तदनुध्यानादितः स्वर्गमवाप्स्यति ॥ 020c
वैशम्पायन उवाच । 021
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सार्धं पत्न्या प्रीतिमान्सम्बभूव । 021a
विद्वान्वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय ॥ 021c
ततः सर्वे नारदं विप्रसङ्घाः सम्पूजयामासुरतीव राजन् । 022a
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनःपुनः सम्प्रहृष्टास्तदानीम् ॥ ॥ 022c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकविंशोऽध्यायः ॥ 21 ॥
15-21-11 तदा प्रवृद्धो राजाऽऽसीदिति क.थ.पाठः ॥