अध्यायः 019

कुन्त्या कृच्छ्रेण प्रतिनिवर्तितैर्युधिष्ठिरादिभिः कृच्छ्रात्पुनर्नगरं प्रत्यागमनम् ॥ 1 ॥ धृतराष्ट्रेण विदुरादिभिः सह वनमेत्य गङ्गातीरे सन्ध्योपास्त्यादिना रात्रियापनम् ॥ 2 ॥

वैशम्पायन उवाच । 001
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम । 001a
व्रीडिताः सन्न्यवर्तन्त पाञ्चाल्या सह भारत ॥ 001c
ततः शब्दो महानेव सर्वेषामभवत्तदा । 002a
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम् ॥ 002c
प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा । 003a
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥ 003c
ततोऽब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः । 004a
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च ॥ 004c
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् । 005a
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥ 005c
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् । 006a
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥ 006c
राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत् । 007a
अनया शक्यमेवाद्य श्रूयतां च वचो मम ॥ 007c
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै । 008a
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥ 008c
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह । 009a
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥ 009c
न च सा वनवासाय देवी कृतमतिं तदा । 010a
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥ 010c
तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः । 011a
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥ 011c
उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च । 012a
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥ 012c
पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः । 013a
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥ 013c
तदहृष्टमनानन्दं गतोत्सवमिवाभवत् । 014a
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥ 014c
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः । 015a
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥ 015c
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् । 016a
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥ 016c
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः । 017a
व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने । 017c
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥ 017e
स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा । 019a
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥ 019c
विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः । 019a
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥ 019c
गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम् । 020a
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥ 020c
तेषां संश्रवणे चापि निषेदुर्विदुरादयः । 021a
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥ 021c
प्राधीतद्विजमुख्या सा सम्प्रज्वलितपावका । 022a
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी ॥ 022c
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः । 023a
हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् । 023c
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥ 023e
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि । 024a
शोचतां वदतां चापि पौरजानपदैर्जनैः ॥ ॥ 024c

इति श्रीमन्महाभारते आश्रमवासिकर्वणि आश्रमवासपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥