अध्यायः 018

कुन्त्या स्वस्य वनगमनाध्यवसायेन विषीदतो युधिष्ठिरादीन्प्रति सहेतूपन्यासं समाश्वासनम् ॥ 1 ॥

कुन्त्युवाच । 001
एवमेतन्महाबाहो यथा वदसि पाण्डव । 001a
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः ॥ 001c
द्यूतापहृतराज्यानां पतितानां सुखादपि । 002a
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया ॥ 002c
कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः । 003a
यशश्च वो न नश्येत इति चोद्धरणं कृतम् ॥ 003c
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः । 004a
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥ 004c
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः । 005a
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम् ॥ 005c
नागायुतसमप्राणः ख्यातविक्रमपौरुषः । 006a
नायं भीमोऽत्ययं गच्छेदिति चोद्धरणं कृतम् ॥ 006c
भीमसेनादवरजस्तथाऽयं वासवोपमः । 007a
विजयो नावसीदेत इति चोद्धरणं कृतम् ॥ 007c
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ । 008a
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम् ॥ 008c
इयं च बृहती श्यामा तथाऽत्यायतलोचना । 009a
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं ॥ 009c
प्रेक्षतामेव वो भीम वेपन्तीं कदलीमिव । 010a
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम् ॥ 010c
दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत । 011a
तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥ 011c
निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः । 012a
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा ॥ 012c
केशपक्षे परामृष्टा पापेन हतबुद्धिना । 013a
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः ॥ 013c
युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धरणं कृतम् । 014a
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः ॥ 014c
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम । 015a
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम् ॥ 015c
न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव । 016a
लभन्ते सुकृताल्ँलोकान्यस्माद्वंशः प्रणश्यति ॥ 016c
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा । 017a
महादानानि दत्तानि पीतः सोमो यथाविधि ॥ 017c
नाहमात्मफलार्थं वै वासुदेवमचूचुदम् । 018a
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम् ॥ 018c
नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम् । 019a
पतिलोकानहं पुण्यान्कामये तपसा विभो ॥ 019c
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः । 020a
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥ 020c
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह । 021a
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च ॥ ॥ 021c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥

15-18-10 पश्यन्त्या मे तथा भीतां वेपन्तीमिति क.थ.पाठः ॥