अध्यायः 017

धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसञ्जयाभ्यामपि वनवासाय तेन सह प्रस्थानम् ॥ 1 ॥ तथा कुन्त्याऽपि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधेनेऽपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनं प्रति प्रस्थानम् ॥ 2 ॥

वैशम्पायन उवाच । 001
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव । 001a
नारीणां च नराणां च निःस्वनः सुमहानभूत् ॥ 001c
स राजा राजमार्गेण नृनारीसङ्कुलेन च । 002a
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥ 002c
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् । 003a
विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥ 003c
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः । 004a
सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा ॥ 004c
कृपं निवर्तयामास युयुत्सुं च महारथम् । 005a
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे ॥ 005c
निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा । 006a
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह ॥ 006c
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ॥ 007a
अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥ 007c
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि । 008a
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः ॥ 008c
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना । 009a
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह ॥ 009c
कुन्त्युवाच । 010
सहदेवे महाराज माऽप्रसादं कृथाः क्वचित् । 010a
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा ॥ 010c
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् । 011a
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥ 011c
आयसं हृदयं नूनं मन्दाया मम पुत्रक । 012a
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥ 012c
एवं गते तु किं शक्यं मया कर्तुमरिन्दम । 013a
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ॥ 013c
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् । 014a
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन ॥ 014c
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन । 015a
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह ॥ 015c
समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता । 016a
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् । 016c
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥ 016e
वैशम्पायन उवाच । 017
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी । 017a
विषादमगमद्धीमान्न च किञ्चिदुवाच ह ॥ 017c
मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः । 018a
उवाच मातरं दीनश्चिन्ताशोकपरायणः ॥ 018c
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि । 019a
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥ 019c
व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने । 020a
विदुलाया वचोभिस्त्वं नास्मान्सन्त्यक्तुमर्हसि ॥ 020c
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया । 021a
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥ 021c
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया । 022a
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि ॥ 022c
अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि । 023a
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे ॥ 023c
इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती । 024a
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥ 024c
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् । 025a
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥ 025c
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् । 026a
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥ 026c
वनाच्चापि किमानीता भवत्या बालका वयम् । 027a
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥ 027c
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि । 028a
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम् ॥ 028c
इति सा निश्चितैवाशु वनवासकृतक्षणा । 029a
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥ 029c
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा । 030a
वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ 030c
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती । 031a
जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ 031c
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा । 032a
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत् ॥ ॥ 032c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

15-17-10 मा प्रमादं कृथा इति क.थ.पाठः ॥ 15-17-16 श्वश्रूश्वशुरयोः । ज्येष्ठत्वाद्धृतराष्ट्रः पाण्डोः पितृसमस्तेन कुन्त्याः स श्वशुर इति ॥ 15-17-22 क्षत्रधर्मे स्थितिं ह्युक्त्वा न प्रत्याख्यातुमर्हसि इति थ.पाठः । स्थितिं चोक्त्वा तस्याश्च्यवितुमिच्छसि इति झ.पाठः ॥ 15-17-30 भद्रया सुभद्रया ॥