अध्यायः 016

धृतराष्ट्रेण कुन्तीस्कन्धावसक्तहस्ताया गान्धार्या अंसावलम्बनेन सशोकैः पौरैर्युधिष्ठिरादिभिश्चानुगम्यमानेन सता वनं प्रति प्रस्थानम् ॥ 1 ॥

वैशम्पायन उवाच । 001
ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः । 001a
आनाय्य पाण्डवान्वीरान्वनवासे कृतक्षणः ॥ 001c
गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि । 002a
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥ 002c
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः । 003a
वधूजनवृतो राजा निर्ययौ भवनात्ततः ॥ 003c
ततः स्त्रियः कौरवपाण्डवानां याञ्चापराः कौरवराजवंश्याः । 004a
तासां नादः प्रादुरासीत्तदानीं वैचित्रिवीर्ये नृपतौ प्रयाते ॥ 004c
ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा । 005a
संयोज्याश्वैर्भृत्यवर्गं च सर्वं ततः समुत्सृज्य ययौ नरेन्द्रः ॥ 005c
ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वरं बाष्पकण्ठः । 006a
विनद्योच्चैर्गां महाराज साधो क्व यास्यसीत्यपतत्तात भूमौ ॥ 006c
तथाऽर्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निःश्वसन्भारताग्र्यः । 007a
युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथो दीनतरो बभूव ॥ 007c
वृकोदरः फल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः सञ्जयश्च । 008a
वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥ 008c
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं स्कन्धासक्तं हस्तमथोद्वहन्ती । 009a
राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥ 009c
तथा कृष्णा द्रौपदी यादवी च बालापत्या चोत्तरा कौरवी च । 010a
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥ 010c
तासां नादो रुदतीनां तदाऽऽसीद्राजन्दुःखात्कुररीणामिवोच्चैः । 011a
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव भार्याः समन्तात् ॥ 011c
तन्निर्याणे दुःखितः पौरवर्गो गजाह्वये चैव बभूव राजन् । 012a
यथापूर्वं गच्छतां पाण्डवानां द्यूते राजन्कौरवाणां सभायाम् ॥ 012c
या नापश्यच्चन्द्रमा नैव सूर्यो रामाः काश्चित्ताः स्म तस्मिन्नरेन्द्रे । 013a
महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः ॥ ॥ 013c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षोडशोऽध्यायः ॥ 16 ॥

15-16-2 इष्टिम् उदवसनीयाख्याम् ॥ 15-16-9 कुन्ती गान्धारीं अनयदिति शेषः । किम्भूता । अर्थाद्गान्धार्या हस्तं स्कन्धासक्तं उद्वहन्ती । कुन्ती गान्धारीमनुभर्तृ व्रजन्तीमिति क.थ.पाठः ॥