अध्यायः 015
धृतराष्ट्रेण भीष्मदुर्योधनाद्युद्देश्यकश्राद्धे धनवस्त्रान्नादिना ब्राह्मणादिसन्तर्पणम् ॥ 1 ॥
वैशम्पायन उवाच । 001
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः । 001a
प्रीतिमानभवद्राजन्राज्ञो जिष्णोश्च कर्मणा ॥ 001c
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् । 002a
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥ 002c
कारयित्वाऽन्नपानानि यानान्याच्छादनानि च । 003a
सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥ 003c
कम्बलानि च रत्नानि ग्रामान्क्षेत्रं तथा धनम् । 004a
सालङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ॥ 004c
आदिश्यादिश्य सर्वेभ्यो ददौ स नृपसत्तमः । 005a
द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् ॥ 005c
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् । 006a
जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः ॥ 006c
स श्राद्धयज्ञो ववृते बहुगोधनदक्षिणः । 007a
अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥ 007c
अनिशं यत्र पुरुषा गणका लेखकास्तदा । 008a
युधिष्ठिरस्य वचनादपृच्छन्त स्म तं नृपम् ॥ 008c
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति । 009a
तदुपस्थितमेवात्र वचनान्ते ददुस्तदा ॥ 009c
शते देये दशशतं सहस्रं चायुतं तथा । 010a
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥ 010c
एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः । 011a
तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ॥ 011c
ततोऽनन्तरमेवात्र सर्ववर्णान्महामते । 012a
अन्नपानरसौघेण प्लावयामास पार्थिवः ॥ 012c
सवस्त्रधनरत्नौघो मृदङ्गनिनदस्वनः । 013a
गवाश्वमकरावर्तो नानारत्नमहाकरः ॥ 013c
ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः । 015a
जगत्सम्प्लावयामास धृतराष्ट्रोडुपोद्धतः ॥ 015c
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा । 015a
गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम् ॥ 015c
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः । 016a
निवर्तयामास तदा दानयज्ञं नराधिपः ॥ 016c
एवं स राजा कौरव्यश्चक्रे दानमहाक्रतुम् । 017a
नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥ 017c
दशाहमेवं दानानि दत्त्वा राजाऽम्बिकासुतः । 018a
बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ ॥ 018c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥
15-15-13 सवस्त्रफेनरत्नौघ इति क.थ.पाठः ॥