अध्यायः 014
विदुरेण धृतराष्ट्रं प्रति युधिष्ठिरेण भीष्मादीनां श्राद्धदानाय धनदानाङ्गीकरणनिवेदनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः । 001a
धृतराष्ट्रमुपेत्यैवं वाक्यमाह महार्थवत् ॥ 001c
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः । 002a
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥ 002c
बीभत्सुश्च महातेजा निवेदयति ते गृहान् । 003a
वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥ 003c
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च । 004a
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ॥ 004c
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत । 005a
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन् ॥ 005c
स राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा । 006a
अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च ॥ 006c
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् । 007a
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत् ॥ 007c
एवम्प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप । 008a
शुद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ॥ 008c
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः । 009a
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत् ॥ 009c
तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिव । 010a
त्वमीश्वरो नो राज्यस्य प्राणानामपि भारत ॥ 010c
ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम् । 011a
इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥ 011c
अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु । 012a
दीनान्धकृपणेभ्यश्च तत्रतत्र नृपाज्ञया ॥ 012c
बह्वन्नरसपानाढ्याः सभा विदुर कारय । 013a
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु ॥ 013c
इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः । 014a
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ 014c
इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान् । 015a
मनश्चक्रे महादाने कार्तिक्यां जनमेजय ॥ 015c
॥ इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥