अध्यायः 013
भीमे दुर्योधनादिभ्यः श्राद्धदानाय धनदानमरोचयति सति युधिष्ठिरेण विदुरं प्रति धृतराष्ट्रे निजगृहकोशाद्धनदाननिवेदनकथनम् ॥ 1 ॥
अर्जुन उवाच । 001
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वमुक्तुमुत्सहे । 001a
धृतराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति ॥ 001c
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि । 002a
असम्भिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ॥ 002c
इति तस्य वचः श्रुत्वा फल्गुनस्य महात्मनः । 003a
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ 003c
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् । 004a
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ॥ 004c
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् । 005a
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ॥ 005c
वैशम्पायन उवाच । 006
इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत् । 006a
भीमसेनः कटाक्षेण वीक्षाञ्चक्रे धनञ्जयम् ॥ 006c
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः । 007a
न भीमसेने कोपं स नृपतिः कर्तुमर्हति ॥ 007c
परिक्लिष्टो हि भीमस्तु हिमवृष्ट्यातपादिभिः । 008a
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ॥ 008c
किन्तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् । 009a
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ॥ 009c
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः । 010a
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ॥ 010c
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि । 011a
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ॥ 011c
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः । 012a
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ॥ 012c
इदं चापि शरीरं मे तवायत्तं जनाधिप । 013a
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ॥ ॥ 013c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोदशोऽध्यायः ॥ । 13 ॥