अध्यायः 012

धृतराष्ट्रेण भीष्मदुर्योधनादीनां श्राद्धदानाय विदुरमुखाद्युधिष्ठिरं प्रति द्रव्ययाचनम् ॥ 1 ॥ तच्छ्रवणेन विमनायमाने भीमे तद्भावज्ञेनार्जुनेन तं प्रति द्रव्ययाचने भीमेन धृतराष्ट्रापनयानुस्मारणपूर्वकं तदनङ्गीकरणम् ॥ 2 ॥

वैशम्पायन उवाच । 001
ततो रजन्यां व्युष्टायां धृतराष्ट्रोऽम्बिकासुतः । 001a
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥ 001c
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् । 002a
युधिष्ठिरं महातेजाः सर्वबुद्धिमतांवरः ॥ 002c
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः । 003a
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम् ॥ 003c
स त्वां कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति । 004a
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥ 004c
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । 005a
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः । 005c
यदि चाप्यनुजानीषे सैन्धवापशदस्य च ॥ 005e
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः । 006a
हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः ॥ 006c
न च भीमो दृढक्रोधस्तद्वचो जगृहे तदा । 007a
विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥ 007c
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः । 008a
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम् ॥ 008c
भीम राजा पिता वृद्धो वनवासाय दीक्षितः । 009a
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥ 009c
भवता निर्जितं वित्तं दातुमिच्छति कौरवः । 010a
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥ 010c
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते । 011a
याचितो यः पुराऽस्माभिः पश्य कालस्य पर्ययम् ॥ 011c
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः । 012a
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति ॥ 012c
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् । 013a
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुज ॥ 013c
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् । 014a
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ॥ 014c
एवं ब्रुवाणं बीभत्सुं धर्मराजोऽप्यपूजयत् । 015a
भीमसेनस्तु सक्रोधमुवाच विजयं तदा ॥ 015c
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फल्गुन । 016a
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च ॥ 016c
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः । 017a
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति ॥ 017c
श्राद्धानि पुरुषव्याघ्र मा प्रदात्कौरवो नृपः । 018a
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः ॥ 018c
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः । 019a
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः ॥ 019c
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् । 020a
अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ॥ 020c
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मद्गोचरो गतः । 021a
कृष्णाजिनोपसंवीतो हृताभरणभूषणः । 021c
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ॥ 021e
क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाऽभवत् । 022a
यत्र द्वादश वर्षाणि वने वन्येन जीवथ । 022c
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥ 022e
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः । 023a
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत ॥ 023c
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः । 024a
उवाच वचनं धीमाञ्जोषमास्स्वेति भर्त्सयन् ॥ ॥ 024c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

15-12-4 किञ्चिदर्थं किञ्चित्कार्यं कर्तुं त्वामभीप्सति द्रष्टुमिति शेषः ॥ 15-12-8 किञ्चिदागम्य भीमं वचनमब्रवीदिति क.थ.पाठः ॥