अध्यायः 011

पौरजनैर्ब्राह्मणमुखेन धृतराष्ट्रं प्रति समाश्वासनपूर्वकं कृच्छ्रेण वनगमनाभ्यनुज्ञानम् ॥ 1 ॥

वैशम्पायन उवाच । 001
एवमुक्तास्तु ते तेन पौरजानपदा जनाः । 001a
वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन् ॥ 001c
तूष्णीं भूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः । 002a
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥ 002c
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया । 003a
विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ 003c
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै । 004a
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह ॥ 004c
सोऽहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः । 005a
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥ 005c
वैशम्पायन उवाच । 006
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते । 006a
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः ॥ 006c
उत्तरीयैः करैश्चापि सञ्छाद्य वदनानि ते । 007a
रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत् ॥ 007c
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् । 008a
दुःखं सन्धारयन्तो हि नष्टसञ्ज्ञा इवाभवन् ॥ 008c
ते विनीय तमायासं धृतराष्ट्रवियोगजम् । 009a
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत ॥ 009c
ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः । 010a
एकस्मिन्ब्राह्मणे कार्यमावेश्योचुर्नराधिपम् ॥ 010c
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः । 011a
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥ 011c
अनुमान्य महाराजं सदः समनुभाष्य च । 012a
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥ 012c
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् । 013a
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥ 013c
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो । 014a
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् ॥ 014c
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन । 015a
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत् ॥ 015c
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः । 016a
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः ॥ 016c
'प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः ।' 017a
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः । 017c
तथा कुरु महाराज स हि नः परमो गुरुः ॥ 017e
त्यक्ता वयं तु भवता दुःखशोकपरायणाः । 018a
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥ 018c
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च । 019a
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव । 019c
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता ॥ 019e
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः । 020a
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप ॥ 020c
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे । 021a
वयसा स्म यथा सम्यग्भवतो विदितं तथा ॥ 021c
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता । 022a
पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥ 022c
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम् । 023a
कुरुसंवरणादीनां भरतस्य च धीमतः ॥ 023c
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः । 024a
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥ 024c
उषिताः स्म सुखं नित्यं भवता परिपालिताः । 025a
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥ 025c
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति । 026a
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥ 026c
न तद्दुर्योधनकृतं न च तद्भवता कृतम् । 027a
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥ 027c
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् । 028a
दैवं पुरुषकारेण न शक्यमपि बाधितुम् ॥ 028c
अक्षौहिण्यो महाराज दशाष्टौ च समागताः । 029a
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः ॥ 029c
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना । 030a
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे ॥ 030c
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा । 031a
न च क्षयोऽयं नृपते ऋते दैवबलादभूत् ॥ 031c
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः । 032a
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना ॥ 032c
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः । 033a
पृथिवी निहता सर्वा सहया सरथद्विपा ॥ 033c
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम् । 034a
न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥ 034c
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः । 035a
सर्वं दैवकृतं विद्धि कोऽत्र किं वक्तुमर्हति ॥ 035c
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः । 036a
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥ 036c
लभतां वीरलोकं स ससहायो नराधिपः । 037a
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम् ॥ 037c
प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः । 038a
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च ॥ 038c
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः । 039a
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥ 039c
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च । 040a
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥ 040c
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः । 041a
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥ 041c
दीर्घदर्शी मृदुर्दान्तः सदा वैश्रवणो यथा । 042a
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥ 042c
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः । 043a
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥ 043c
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै । 044a
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ 044c
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः । 045a
वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥ 045c
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती । 046a
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥ 046c
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् । 047a
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः ॥ 047c
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः । 048a
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥ 048c
स राजन्मानसं दुःखमपनीय युधिष्ठिरात् । 049a
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ ॥ 049c
वैशम्पायन उवाच । 050
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम् । 050a
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान् ॥ 050c
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनःपुनः । 051a
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः ॥ 051c
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा । 052a
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥ 052c
ततो विवेश भवनं गान्धार्या सहितो निजम् । 053a
आगतायां च शर्वर्यां सुखं शेते नराधिपः ॥ ॥ 053c

इति श्रीमन्महाभारते आमश्रवासिकपर्वणि आश्रमवासपर्वणि एकादशोऽध्यायः ॥ 11 ॥

15-11-11 साम्बाख्यो बह्वृच इति झ.पाठः । शाम्भव्य इति क.पाठः ॥ 15-11-31 जनक्षयोऽथ नृपते कृतो दैवबलात्कृतैरिति थ.पाठः ॥ 15-11-34 नच राजापराध्नोति पुत्रस्तव महामना इति क.थ.पाठः ॥