अध्यायः 010
धृतराष्ट्रेण पौरान्प्रति दुर्योधनपक्षपातेन स्वकृतापनयक्षमापनम् ॥ 1 ॥ तथा युधिष्ठिरस्य तेषु न्यासतया समर्पणपूर्वकं स्वस्य वनगमनाभ्यनुज्ञानप्रार्थना ॥ 2 ॥
धृतराष्ट्र उवाच । 001
शान्तनुः पालयामास यथावद्वसुधामिमाम् । 001a
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः । 001c
पालयामास नस्तातो विदितं वो न संशयः ॥ 001e
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् । 002a
स चापि पालयामास यथावत्तच्च वेत्थ ह ॥ 002c
'अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः । 003a
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम ॥' 003c
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः । 004a
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥ 004c
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम् । 005a
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥ 005c
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् । 006a
विमर्दः सुमहानासीदनयात्स्वकृतादथ । 006c
'घातिताः कौरवेयाश्च पृथिवी च विनाशिता ॥' 006e
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम् । 007a
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः ॥ 007c
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः । 008a
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ ॥ 008c
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी । 009a
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥ 009c
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा । 010a
अनुजानीत भद्रं वो व्रजाव शरणं च वः ॥ 010c
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः । 011a
सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च । 011c
न जातु विषमं चैव गमिष्यति कदाचन ॥ 011e
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः । 012a
लोकपालसमा ह्येते सर्वधर्मार्थदर्शिनः ॥ 012c
'चतुर्णां लोकपालानां मध्ये विपरिवर्तते ।’ 013a
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः ॥ 013c
'एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः ।' 014a
युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥ 014c
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः । 015a
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः । 015c
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया ॥ 015e
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम । 016a
यदन्येन मदीयेन तदनुज्ञातुमर्हथ ॥ 016c
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन । 017a
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥ 017c
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् । 018a
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः ॥ 018c
इत्युक्तास्तेन ते सर्वे पौरजानपदा जनाः । 019a
नोचुर्बाष्पकलाः किञ्चिद्वीक्षाञ्चक्रुः परस्परम् ॥ ॥ 019c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि दशमोऽध्यायः ॥ 10 ॥
15-10-7 न कर्तव्यमनुज्ञातुमिहार्हथेति क.ट.थ. पाठः ॥ 15-10-16 अन्येन भृत्येन । अनुज्ञातुं क्षन्तुम् ॥