अध्यायः 009
धृतराष्टेण युधिष्ठिरात्सकलपौरजनानयनेन स्वस्य वनजिगमिषानिवेदनपूर्वकं तान्प्रति तदभ्यनुज्ञानप्रार्थना ॥ 1 ॥
युधिष्ठिर उवाच । 001
एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते । 001a
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥ 001c
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने । 002a
विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति ॥ 002c
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः । 003a
कर्ताऽस्मि तन्महीपाल निर्वृतो भव पार्थिव ॥ 003c
वैशम्पायन उवाच । 004
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता । 004a
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥ 004c
पुत्र विश्राम्यतां तावन्ममापि बलवाञ्श्रमः । 005a
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥ 005c
तमासनगतं देवी गान्धारी धर्मचारिणी । 006a
उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥ 006c
अनुज्ञातः स्वयं तेन व्यासेन त्वं महर्षिणा । 007a
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि ॥ 007c
धृतराष्ट्र उवाच । 008
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना । 008a
युधिष्ठिरस्यानुमते गन्ताऽस्मि नचिराद्वनम् ॥ 008c
अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम् । 009a
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु । 009c
सर्वप्रकृतिसान्निध्यं कारयित्वा स्ववेश्मनि ॥ 009e
वैशम्पायन उवाच । 010
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा । 010a
स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥ 010c
ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः । 011a
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः ॥ 011c
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा । 012a
ददृशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा ॥ 012c
समवेतांश्च तान्सर्वान्पौराञ्जानपदांस्तथा । 013a
तानागतानभिप्रेक्ष्य समस्तं च सुहृज्जनम् ॥ 013c
ब्राह्मणांश्च महीपाल नानादेशसमागतान् । 014a
उवाच मतिमान्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 014c
भवन्तः कुरुवश्चैव चिरकालं सहोषिताः । 015a
परस्परस्य सुहृदः परस्परहिते रताः ॥ 015c
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते । 016a
तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥ 016c
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे । 017a
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे ॥ 017c
भवन्तोऽप्यनुजानन्तु मान्या वोऽभूद्विचारणा ॥ 018ac
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती । 019a
न च साऽन्येषु देशेषु राज्ञामिति मतिर्मम ॥ 019c
शान्तोऽस्मि वयसाऽनेन तथा पुत्रविनाकृतः । 020a
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥ 020c
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् । 021a
मन्ये दुर्योधनैश्वर्याद्विशिष्टं बहुभिर्गुणैः ॥ 021c
मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः । 022a
ऋते वनं महाभागास्तन्माऽनुज्ञातुमर्हथ ॥ 022c
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः । 023a
बाष्पसन्दिग्धया वाचा रुरुदुर्भरतर्षभ ॥ 023c
तानविब्रुवतः किञ्चित्सर्वाञ्शोकपरायणान् । 024a
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥ ॥ 024c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि नवमोऽध्यायः ॥ 9 ॥