अध्यायः 008
धृतराष्ट्रेण युधिष्ठरं प्रति राजनीतिकथनम् ॥ 1 ॥
धृतराष्ट्र उवाच । 001
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम । 001a
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर ॥ 001c
कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः । 002a
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत् ॥ 002c
पर्युपासनकाले तु विपरीतं विधीयते । 003a
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः ॥ 003c
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः । 004a
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम् ॥ 004c
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् । 005a
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥ 005c
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत । 006a
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत् ॥ 006c
आददीत बलं राजा मौलं मित्रबलं तथा । 007a
अटवीबलं भृतं चैव तथा श्रेणीबलं प्रभो ॥ 007c
'मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः ।' 008a
तत्र मित्रबलं राजन्मौलं चैव विशिष्यते । 008c
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः ॥ 008e
तथाऽऽचारबलं चैव परस्परसमं नृप । 009a
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥ 009c
आपदश्चापि बोद्धव्या बहुरूपा नराधिप । 010a
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु ॥ 010c
विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन । 011a
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा ॥ 011c
यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परन्तप । 012a
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा ॥ 012c
हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः । 013a
अकृशश्चाप्यथो यायादनृतावपि पाण्डव ॥ 013c
तूणाश्मानं वाजिरथप्रवाहां ध्वजद्रुमैः संवृतकूलरोधसम् । 014a
पदातिनागैर्बहुकर्दमां नदीं सपत्ननाशे नृपतिः प्रयोजयेत् ॥ 014c
अथोपपत्त्या शकटं पद्मवज्रं च भारत । 015a
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥ 015c
चारयित्वा परबलं कृत्वा स्वबलदर्शनम् । 016a
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥ 016c
बलं प्रसादयेद्राजा निक्षिपेद्बलिनो नरान् । 017a
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत् ॥ 017c
सर्वथैव महाराज शरीरं धारयेदिह । 018a
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम् ॥ 018c
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप । 019a
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेण पालयन् ॥ 019c
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै । 020a
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि ॥ 020c
भीष्मेण सर्वमुक्तोऽसि कृष्णेन विदुरेण च । 021a
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥ 021c
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण । 022a
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥ 022c
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः । 023a
पालयेद्वाऽपि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥ ॥ 023c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
15-8-1 प्रबलप्रतियोगिकौ दुर्बलप्रतियोगिकौ चेति द्वियोनी सन्धिविग्रहौ ॥ 15-8-2 स्थित्वा स्थिरो भूत्वा । द्वैविध्यं बलाबलं ज्ञात्वा शत्रुं पर्युपास्स्वेति भावः । स्मरेज्जयोपायं विचारयेन्न त्वकस्मात्प्रयायात् । जित्वा द्विविधमात्मनेति क.पाठः ॥ 15-8-3 विपरीतमतुष्टपुष्टबलं प्रयायादित्यर्थः ॥ 15-8-4 गमनं वेदनं चैवेति थ.पाठः ॥ 15-8-7 मौलं धनबलम् ॥ 15-8-13 अनृतौ अकालेऽपि शिशिरादौ ॥ 15-8-15 शकटादयो व्यूहविशेषाः ॥ 15-8-16 साधयित्वा परबलं कृत्वा च बलमर्षणम् इति क.थ.पाठः ॥