अध्यायः 007

धृतराष्ट्रेण युधिष्ठिरं प्रति राजनीतिकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच । 001
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा । 001a
उदासीनगुणानां च मध्यस्थानां च भारत ॥ 001c
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् । 002a
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ 002c
अथ नानाजनपदा दुर्गाणि विविधानि च । 003a
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम् ॥ 003c
ते च द्वादश कौन्तेय राजानो विविधात्मकाः । 004a
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥ 004c
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः । 005a
अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् ॥ 005c
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम । 006a
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः ॥ 006c
यथा स्वपक्षो बलवान्परपक्षस्तथा बलः । 007a
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ॥ 007c
यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः । 008a
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं समाश्रयेत् ॥ 008c
द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा । 009a
यदा समर्थो यानाय न चिरेणैव भारत ॥ 009c
तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत् । 010a
भूमिरल्पफला देया विपरीतस्य भारत ॥ 010c
हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत् । 011a
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः ॥ 011c
सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ । 012a
विपरीतं न तच्छ्रेयः पुत्र कस्याञ्चिदापदि ॥ 012c
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् । 013a
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत् ॥ 013c
क्रमेण युगपद्बुध्वा व्यसनानां बलाबलम् । 014a
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च ॥ 014c
कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम् । 015a
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता ॥ 015c
कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः । 016a
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः ॥ 016c
साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा । 017a
आत्मसात्करणे नित्यं पालनानि गृहे तथा । 017c
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा ॥ 017e
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः । 018a
यद्येनमभियायाच्च बलवान्दुर्बलं नृपः । 018c
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेः । 019a
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः ॥ 019c
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः । 020a
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत् । 020c
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम् ॥ ॥ 020e

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

15-7-1 मण्डलानि अरिर्मित्रमित्यादीनि ॥ 15-7-3 यथेच्छकं परैर्भेद्यत्वमभेद्यत्वं च भवति तस्मादवहितस्तिष्ठेत् । तथामात्या जनपदा इति झ.पाठः । भवत्येषां स्वकं परमिति थ.पाठः ॥ 15-7-4 द्वादश चत्वारः शत्रुजाताः । षट् आततायिनः । मित्रं अमित्रमित्रं चेति षष्टिर्गुणाः । कृष्यादीन्यष्टौ सन्धानकर्माणि । बालादयो विंशतिरसन्धेयाः । नास्तिक्यादयश्चतुर्दश दोषाः । मन्त्रादीन्यष्टादश तीर्थानीति । एतेषु केचित् हानार्थं ज्ञातव्याः केचिदुपादानार्थम् ॥ 15-7-5 अत्र प्राङ्मुख्यमायत्तम् इति थ.पाठः॥ 15-7-6 ततः षाङ्गुण्यचारिण इति क.थ.पाठः ॥ 15-7-9 द्रव्याणां सञ्चये चैव यत्नः कार्यः सदा भवेत् इति क.पाठः ॥ 15-7-13 दीनान् अन्धबधिरादीन् विभावयेत्पूजयेत् ॥ 15-7-18 एनं त्वाम् ॥