अध्यायः 006

वनं यियासुना धृतराष्ट्रेण युधिष्ठिराय राजनीत्युपदेशः ॥ 1 ॥

वैशम्पायन उवाच । 001
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः । 001a
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा ॥ 001c
मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्वहन् । 002a
पदानि स महीपालो जीर्णो गजपतिर्यथा ॥ 002c
तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जयः । 003a
स चापि परमेष्वासः कृपः शारद्वतस्तथा ॥ 003c
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः । 004a
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥ 004c
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी । 005a
वधूभिरुपचारेण पूजिताऽभुङ्क्त भारत ॥ 005c
कृताहारं कृताहाराः सर्वे ते विदुरादयः । 006a
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥ 006c
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे । 007a
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ॥ 007c
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन । 008a
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥ 008c
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन । 009a
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत् ॥ 009c
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर । 010a
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥ 010c
प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि । 011a
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥ 011c
ते तु सम्मानिता राजंस्त्वया लोकहितार्थिना । 012a
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत ॥ 012c
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय । 013a
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा ॥ 013c
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । 014a
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ 014c
चारयेथाश्च सततं चारैरविदितः परैः । 015a
परीक्षितैर्बहुविधैः स्वराष्ट्रेषु परेषु च ॥ 015c
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् । 016a
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम् ॥ 016c
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च । 017a
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ॥ 017c
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः । 018a
आत्मा च रक्ष्यः सततं भोजनादिषु भारत । 018c
विहाराहारकालेषु माल्यशय्यासनेषु च ॥ 018e
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः । 019a
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ 019c
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् । 020a
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥ 020c
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह । 021a
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥ 021c
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः । 022a
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥ 022c
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः । 023a
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः ॥ 023c
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् । 024a
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ॥ 024c
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले । 025a
अभेदे च गुणा राजन्पुनःपुनररिन्दम ॥ 025c
पौरजानपदानां च शौचशौचे युधिष्ठिर । 026a
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह ॥ 026c
व्यवहारश्च ते राजन्नित्यमाप्तैरधिष्ठितः । 027a
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः ॥ 027c
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत । 028a
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥ 028c
आदानरुचयश्चैव परदाराभिमर्शिनः । 029a
उग्रदण्डप्रधानाश्च मिथ्याव्याहारिणस्तथा ॥ 029c
आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः । 030a
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः । 030c
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥ 030e
'अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत् । 031a
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते ॥ 031c
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः । 032a
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते ॥ 032c
अतिपानेन राजाऽपि सर्वं कोशं विनाशयेत् । 033a
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम् ॥ 033c
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया । 034a
युक्त्या प्रकाशमयति सुवीर्यस्य विवृद्धये ॥' 034c
प्रातरेव हि पश्येथा ये कुर्युः प्रियकर्म ते । 035a
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥ 035c
पश्येथाश्च ततो योधान्सदा त्वं प्रतिहर्षयन् । 036a
दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥ 036c
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः । 037a
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ॥ 037c
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ । 038a
तथैवालङ्कृतः काले तिष्ठेथा भूरिदक्षिणः ॥ 038c
'न विद्राव्य च तिष्ठेत परिहार्य विभूषणम् । 039a
प्रयोज्यं सर्वदैवेह मङ्गल्यं पापनाशनम् ॥' 039c
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा । 040a
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा । 040c
विविधस्य महाराज विपरीतं विवर्जयेः ॥ 040e
चारैर्विदित्वा शत्रूंश्च ये राज्ञामन्तरैषिणः । 041a
तानाप्तैः पुरुषैर्दूराद्घातयेथा नराधिप ॥ 041c
कर्म दृष्ट्वाऽथ भृत्यांस्त्वं वरयेथाः कुरूद्वह । 042a
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥ 042c
सेनाप्रणेता च भवेत्तव तात दृढव्रतः । 043a
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः ॥ 043c
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव । 044a
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः ॥ 044c
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च । 045a
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥ 045c
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु । 046a
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥ 046c
गुणार्थिनां गुणः कार्यो विदुषा वै जनाधिप । 047a
अविचार्याश्च ते ते स्युरचला इव नित्यशः ॥ ॥ 047c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

15-6-5 अभुङ्क्त भुक्तवती ॥ 15-6-8 अष्टाङ्गे स्वाम्यमात्यादियुते ॥ 15-6-13 राज्यवत्परिपालयेति क.थ.पाठः ॥ 15-6-16 अट्टा दुर्गोपरिभागे सञ्चारस्थानानि । षट्पदं षड्भिः पदैः पदनीयैः स्थानैर्युक्तम् । तेन सप्तप्राकारमिति गम्यते । तत्र सप्तमस्यान्तःपुरत्वात् षडेवान्येषां पदनीयानि स्थानानि ॥ 15-6-22 निःशलाके अतृणे । सतृणे ह्यासन्नः परचारो ज्ञातुमशक्य इति ॥ 15-6-29 आदानरुचयः उत्कोचोपजीविनः ॥ 15-6-36 प्रदोषो रजनीमुखं दूतादीनां दर्शनकालः । प्रदेयस्ते सदा भवेदिति क.थ.पाठः ॥ 15-6-44 गवादिवत् आहारमात्रवेतनाः । व्यवहारिणः कारुशिल्पिप्रभृतयः ॥