अध्यायः 005
व्यासेन युधिष्ठिरं प्रति सहेतूपन्यासं धृतराष्ट्रस्य वनगमनाभ्यनुज्ञानचोदनापूर्वकं स्वाश्रमगमनम् ॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रं प्रति कृच्छ्रेण तदभ्यनुज्ञानाङ्गीकरणम् ॥ 2 ॥
व्यास उवाच । 001
युधिष्ठिर महाबाहो यथाऽऽह कुरुनन्दनः । 001a
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन् ॥ 001c
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः । 002a
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥ 002c
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी । 003a
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥ 003c
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः । 004a
अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ॥ 004c
'स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु ।' 005a
राजर्षीणां पुराणानामनुयातु गतिं नृपः । 005c
राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥ 005e
वैशम्पायन उवाच । 006
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा । 006a
प्रत्युवाच महातेजा धर्मराजो महामुनिम् ॥ 006c
भगवानेव नो मान्यो भगवानेव नो गुरुः । 007a
भगवानस्य राज्यस्य कुलस्य च परायणम् ॥ 007c
अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे । 008a
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ॥ 008c
वैशम्पायन उवाच । 009
इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः । 009a
युधिष्ठिरं महातेजाः पुनरेव महाकविः ॥ 009c
एवमेतन्महाभाग यथा वदसि भारत । 010a
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥ 010c
सोऽयं मयाऽभ्यनुज्ञातस्त्वया च पृथिवीपतिः । 011a
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव ॥ 011c
एष एव परो धर्मो राजर्षीणां युधिष्ठिर । 012a
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥ 012c
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता । 013a
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः ॥ 013c
क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः । 014a
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः ॥ 014c
पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि । 015a
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥ 015c
त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ । 016a
आराधितः स भृत्येन गान्धारी च यशस्विनी ॥ 016c
अनुजानीहि पितरं समयोऽस्य तपोविधौ । 017a
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥ 017c
वैशम्पायन उवाच । 018
एतावदुक्त्वा वचनमनुमान्य च पार्थिवम् । 018a
तथाऽस्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ॥ 018c
गते भगवति व्यासे राजा पाण्डुसुतस्तदा । 019a
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ॥ 019c
यदाह भगवान्व्यासो यच्चापि भवतो मतम् । 020a
यथाऽऽह च महेष्वासः कृपो विदुर एव च ॥ 020c
युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा । 021a
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः ॥ 021c
इदं तु याचे नृपते त्वामहं शिरसा नतः । 022a
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ ॥ 022c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
15-5-17 तपोविधौ तपःकरणे ॥