अध्यायः 004
धुतराष्ट्रेण युधिष्ठिरं प्रति स्वस्य वनगमनाभ्यनुज्ञानप्रार्थना ॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रानुशोचनपूर्वकं तत्प्रतिषेधने व्यासेन युधिष्ठिरचोदनाय तत्रागमनम् ॥ 2 ॥
युधिष्ठिर उवाच । 001
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप । 001a
धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥ 001c
गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम् । 002a
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह ॥ 002c
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना । 003a
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ॥ 003c
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा । 004a
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान् ॥ 004c
पीडितं चापि जानामि राज्यमात्मानमेव च । 005a
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वर ॥ 005c
भवान्पिता भवान्माता भवान्नः परमो गुरुः । 006a
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम् ॥ 006c
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम । 007a
अस्तु राजा महाराज यमन्यं मन्यते भवान् ॥ 007c
अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम् । 008a
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥ 008c
नाहं राजा भवान्राजा भवता परवानहम् । 009a
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥ 009c
न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ । 010a
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः ॥ 010c
वयं पुत्रा हि भवतो यथा दुर्योधनादयः । 011a
गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥ 011c
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि । 012a
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे ॥ 012c
इयं हि वसुसम्पूर्णा मही सागरमेखला । 013a
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥ 013c
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये । 014a
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥ 014c
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप । 015a
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं ॥ 015c
धृतराष्ट्र उवाच । 016
तापस्ये मे मनस्तात वर्तते कुरुनन्दन । 016a
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो ॥ 016c
चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया । 017a
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप ॥ 017c
वैशम्पायन उवाच । 018
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम् । 018a
उवाच विदुरं राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 018c
सञ्जयं च महात्मानं कृपं चापि महारथम् । 019a
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम् ॥ 019c
म्लायते मे मनो हीदं मुखं च परिशुष्यति । 020a
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह ॥ 020c
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः । 021a
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥ 021c
तं तु दृष्ट्वा समासीनं विसञ्ज्ञमिव कौरवम् । 022a
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा ॥ 022c
युधिष्ठिर उवाच । 023
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम् । 023a
सोऽयं नारीं व्यपाश्रित्य शेते राजा गतासुवत् ॥ 023c
आयसी प्रतिमा येन भीमसेनस्य सा पुरा । 024a
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम् ॥ 024c
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् । 025a
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥ 025c
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम । 026a
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥ 026c
वैशम्पायन उवाच । 027
ततोऽस्य पाणिना राजञ्जलशीतेन पाण्डवः । 027a
उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥ 027c
तेन रत्नौषधिमता पुण्येन च सुगन्धिना । 028a
पाणिस्पर्शेन राज्ञः स राजा सञ्ज्ञामवाप ह ॥ 028c
स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम् । 029a
'उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः ॥' 029c
जीवामीवातिसंस्पर्शात्तव राजीवलोचन । 030a
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप । 030c
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि ॥ 030e
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे । 031a
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम् ॥ 031c
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता । 032a
ततो ग्लानमनास्तात नष्टसञ्ज्ञ इवाभवम् ॥ 032c
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो । 033a
लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह ॥ 033c
वैशम्पायन उवाच । 034
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत । 034a
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा ॥ 034c
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः । 035a
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ॥ 035c
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् । 036a
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम् ॥ 036c
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् । 037a
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत् ॥ 037c
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः । 038a
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन् ॥ 038c
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् । 039a
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ॥ 039c
ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः । 040a
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥ 040c
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् । 041a
सर्वेषामवरोधानामार्तनादो महानभूत् ॥ 041c
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् ॥ 042a
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥ 042c
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम् । 043a
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ॥ 043c
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा । 044a
यथा तव प्रियं राजंश्चिकीर्षामि परन्तप ॥ 044c
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा । 045a
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम् ॥ 045c
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम् । 046a
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥ 046c
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् । 047a
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ॥ ॥ 047c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥