अध्यायः 003
भीमसेनपरुषभाषणश्रवणान्निर्वेदमुपगतवता धृतराष्ट्रेण सहगान्धार्या वनगमनाध्यवसायः ॥ 1 ॥ तथा सकलपौरानयनेन तेषु स्वाध्यवसायनिवेदनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा । 001a
नान्तरं ददृशू राज्ये पुरुषाः प्रणयं प्रति ॥ 001c
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् । 002a
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ॥ 002c
कौरवश्चैव भीमश्च हृदाऽन्योन्यमवर्तताम् । 003a
ध्यायन्तौ श्लक्ष्णया वाचा त्वन्योन्यमभितिष्ठताम् || 003c
अप्रकाशं व्यलीकानि चकारास्य वृकोदरः । 004a
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥ 004c
स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित् । 005a
'असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः ॥' 005c
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाऽकरोत् । 006a
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥ 006c
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि । 007a
प्रोवाचेदं सुसंरब्धो भीमः सपरुषं वचः ॥ 007c
अन्धस्य नृपतेः पुत्रा मया परिघबाहुना । 008a
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः ॥ 008c
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ । 009a
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥ 009c
ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ । 010a
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥ 010c
एताश्चान्याश्च विविधाः शल्यभूता नराधिपः । 011a
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥ 011c
सा च बुद्धिमती देवी कालपर्यायवेदिनी । 012a
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे । 012c
'कुन्तीं वर्यां तु संवीक्ष्य शापे नास्याकरोन्मतिम्'॥ 012e
ततः पञ्चदशे वर्षे समतीते नराधिपः । 013a
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥ 013c
'सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम् । 014a
तपोयोगात्तपस्तप्तुं मनश्चक्रे महामतिः ॥' 014c
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः । 015a
श्वेताश्वो वाऽथ कुन्ती वा द्रौपदी वा यशस्विनी ॥ 015c
माद्रीपुत्रौ च भीमस्य मतं तावन्ववर्तताम् । 016a
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः स्वयमप्रियम् ॥ 016c
ततः समानयामास धृतराष्ट्रः सुहृज्जनम् । 017a
बाष्पसन्दिग्धमत्यर्थमिदमाह च तान्भृशम् ॥ 017c
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः । 018a
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥ 018c
योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम् । 019a
दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् । 019c
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत् ॥ 019e
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः । 020a
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः ॥ 020c
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च । 021a
पदेपदे भगवता व्यासेन च महात्मना । 021c
सञ्जयेनाथ गान्धार्या तदिदं तप्यते मया ॥ 021e
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु । 022a
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥ 022c
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः । 023a
एतच्छ्रेयस्तु परमममन्यत जनार्दनः ॥ 023c
सोहमेतान्यलीकानि दुर्वृत्तान्यात्मनस्तदा । 024a
हृदये शल्यभूतानि धारयामि सहस्रशः ॥ 024c
विशेषतस्तु दह्यामि वर्षे पञ्चदशेऽद्य वै । 025a
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ॥ 025c
चतुर्थे नियते काले कदाचिदपि चाष्टमे । 026a
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥ 026c
करोत्याहारमिति मां सर्वः परिजनः सदा । 027a
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः ॥ 027c
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः। 028a
नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ 028c
अहं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम् । 029a
नानुतप्ये हतं तत्र क्षत्रधर्मं हि तं विदुः ॥ 029c
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः । 030a
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे ॥ 030c
सुखमध्युषितः पुत्र त्वया सुपरिपालितः । 031a
मया दानानि दत्तानि श्राद्धानि च पुनःपुनः ॥ 031c
प्रकृष्टं च मया पुत्र पुण्यं चीर्णं यथाबलम् । 032a
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥ 032c
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः । 033a
समतीता नृशंसास्ते स्वधर्मेण हता युधि ॥ 033c
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन । 034a
सर्वे शस्त्रजिताल्ँलोकान्गतास्तेऽभिमुखं हताः ॥ 034c
आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य ते । 035a
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥ 035c
त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः । 036a
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥ 036c
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् । 037a
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ॥ 037c
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः । 038a
उचितं नः कुले तात सर्वेषां भरतर्षभ । 038c
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥ 038e
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् । 039a
पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥ 039c
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि । 040a
फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥ ॥ 040c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
15-3-3 तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् । नामर्षयत राजेन्द्र सदैव दुष्टवद्धृदेति झ.पाठः ॥ 15-3-24 सोऽहमेतान्यतीतानीति क.पाठः ॥ 15-3-26 तृष्णाविनयनं तृषामात्रापहं मण्डादि न तु क्षुद्व्याधिहरम् ॥