अध्यायः 002
युधिष्ठिरेण नागराणां धृतराष्ट्रानुशासनपूर्वकं सहभ्रातृभिरप्रमादेन तत्परितोषणम् ॥ 1 ॥
वैशम्पायन उवाच । 001
एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः । 001a
विजहार यथापूर्वमृषिभिः पर्युपस्थितः ॥ 001c
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः । 002a
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥ 002c
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः । 003a
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः । 003c
मया चैव भवद्भिश्च मान्य एष नराधिपः ॥ 003e
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत् । 004a
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः ॥ 004c
परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि । 005a
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम् ॥ 005c
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः । 006a
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः ॥ 006c
धर्मराजश्च भीमश्च सव्यसाची यमावपि । 007a
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥ 007c
कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः । 008a
शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्य ते ॥ 008c
यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम् । 009a
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान् ॥ 009c
ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः । 010a
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥ 010c
धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान् । 011a
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत ॥ 011c
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः । 012a
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा ॥ 012c
एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः । 013a
भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ॥ 013c
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः । 014a
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने ॥ 014c
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु । 015a
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतिः ॥ 015c
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् । 016a
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥ 016c
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः । 017a
वैचित्र्यवीर्ये नृपतौ समाचरत सर्वदा ॥ 017c
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः । 018a
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी ॥ 018c
तं स राजा महाराज पाण्डवानां धुरन्धरः । 019a
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥ 019c
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः । 020a
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम् ॥ 020c
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः । 021a
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥ 021c
ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम् । 022a
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः ॥ 022c
न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा । 023a
यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः । 023c
ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः । 024a
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा ॥ 024c
यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम् । 025a
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत ॥ 025c
यः कश्चिदपि यत्किञ्चित्प्रमादादम्बिकासुते । 026a
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥ 026c
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै । 027a
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः ॥ 027c
धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा । 028a
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः ॥ 028c
अन्ववर्तत भीमोऽपि निश्चितो धर्मजं नृपम् । 029a
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ॥ 029c
राजानमनुवर्तन्त धर्मपुत्रममित्रहा । 030a
अन्ववर्तत सङ्क्रुद्धो हृदयेन पराङ्मुखः ॥ ॥ 030c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वितीयोऽध्यायः ॥ । 2 ॥
15-2-4 निरस्यश्च भवेन्नर इति क.थ.पाठः ॥