अध्यायः 001
युधिष्ठिरेण राज्यपरिपालनम् ॥ 1 ॥ कुन्तीद्रौपद्यादिभिर्गान्धार्यां श्वश्रूवद्वर्तनम् ॥ 2 ॥ भीमवर्जमर्जुनादिभिर्युधिष्ठिरशासनेन विशेषतो धृतराष्ट्रानुवर्तनम् ॥ 3 ॥
श्रीवेदव्यासाय नमः । 000
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001c
जनमेजय उवाच । 001
प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः । 001a
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥ 001c
स तु राजा हतामात्यो हतपुत्रो निराश्रयः । 002a
कथमासीद्धतैश्वर्यो गान्धारी च तपस्विनी ॥ 002c
कियन्तं चैव कालं ते मम पूर्वपितामहाः । 003a
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥ 003c
वैशम्पायन उवाच । 004
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः । 004a
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥ 004c
धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा । 005a
वैश्यापुत्रश्च मेधावी युयुत्सुः कुरुसत्तम ॥ 005c
पाण्डवाः सर्वकार्येषु पर्यपृच्छन्त तं नृपम् । 006a
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ 006c
सदाऽभिगम्य ते वीराः पर्युपासन्त तं नृपम् । 007a
पादाभिवादनं कृत्वा धर्मराजमते स्थिताः ॥ 007c
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे । 008a
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत ॥ 008c
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः । 009a
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥ 009c
शयनानि महार्हाणि वासांस्याभरणानि च । 010a
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ॥ 010c
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् । 011a
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ॥ 011c
विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरव । 012a
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥ 012c
श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्मणो महान् । 013a
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥ 013c
व्यासश्च भगवान्नित्यमासाञ्चक्रे नृपेण ह । 014a
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम् ॥ 014c
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च । 015a
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥ 015c
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि । 016a
प्राप्यन्तेऽर्थेः सुलघुभिः सुनयाद्विदुरस्य वै ॥ 016c
अकरोद्बन्धमोक्षं च वध्यानां मोक्षणं तथा । 017a
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत् ॥ 017c
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः । 018a
सर्वान्कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत् ॥ 018c
आरालिकाः सूपकारा रागषाडविकास्तथा । 019a
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम् ॥ 019c
वासांसि च महार्हाणि माल्यानि विविधानि च । 020a
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः ॥ 020c
मैरेयमधुमांसानि पानकानि लघूनि च । 021a
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा ॥ 021c
ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः । 022a
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरा ॥ 022c
कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी । 023a
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥ 023c
धृष्टकेतोश्च भगिनी जरासन्धसुता तथा । 024a
एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ । 024c
किङ्कराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा ॥ 024e
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् । 025a
इति तानन्वशाद्भातॄन्नित्यमेव युधिष्ठिरः ॥ 025c
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् । 026a
सविशेषमवर्तन्त भीममेकं तदा विना ॥ 026c
न हि तत्तस्य वीरस्य हृदयादपसर्पति । 027a
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतमण्डले ॥ ॥ 027c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
15-1-2 गान्धारी च यशस्विनीति झ.थ.पाठः ॥ 15-1-5 उपातिष्ठदाराधितवान् ॥ 15-1-9 सतां वृत्तिमवर्तन्तेति थ.पाठः ॥ 15-1-13 तस्मिन्धृतराष्ट्रे समभवत्तन्निकटे अभवत् ॥ 15-1-14 वासं चक्रे नृपेण हेति क.थ.पाठः ॥ 15-1-16 प्रभावाद्विदुरस्य वै इति क.थ.पाठः ॥ 15-1-19 अरया शस्त्रविशेषेण लूनं छिन्नं शाकादि अरालु तत्संस्कुर्वन्ति ते आरालिकाः शाकविशेषकर्तारः रागखाण्डविकास्तथेति झ.पाठः । रागषाडवं पिप्पलीशुण्ठीशर्करोपेतो मुद्गयूषस्तत्कर्तारो रागषाडविकाः ॥15-1-25 अन्वशात् अनुशिक्षितवान् ॥