अध्यायः 118 कृष्णेन युधिष्ठिरम्प्रति पालाशविधिप्रकारकथनम् ॥ 1 ॥ तथा तीर्थाटनासमर्थानां तत्प्रतिनिधितीर्थानुवर्णनम् ॥ 2 ॥ तथा भगवद्भक्तलक्षणकथनपूर्वकं तत्प्रशंसनम् ॥ 3 ॥ तथा स्वस्य सर्वोत्तमत्वकथनपूर्वकं स्वोक्तध्रमश्रवणस्य फलकथनम् ॥ 4 ॥ ततो युधिष्ठिराद्यामन्त्रपूर्वकं दारुकोपनीतरथारोहणेन द्वारकाम्प्रति गमनम् ॥ 5 ॥

युधिष्ठिर उवाच । 001
देशान्तरगते विप्रे संयुक्ते कालधर्मणा । 001a
शरीरनाशे सम्प्राप्ते कथं प्रेतत्वकल्पना ॥ 001c
भगवानुवाच । 002
श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया । 002a
पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ॥ 002c
त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर । 003a
तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम् ॥ 003c
अशीत्यर्धं शिरसि च ग्रीवायां दश एव च । 004a
बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश ॥ 004c
उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम् । 005a
वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च ॥ 005c
दद्यात्तु शतमूर्वोस्तु षष्ट्यर्धं जानुजङ्घयोः । 006a
दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः ॥ 006c
युधिष्ठिर उवाच । 007
विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात् । 007a
भक्तानां तारणार्तं तु वक्तुमर्हसि धर्मतः ॥ 007c
भगवानुवाच । 008
पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः । 008a
सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते ॥ 008c
तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर । 009a
अल्पसन्तोषकं तीर्थं नारी तीर्थं पतिव्रता ॥ 009c
सन्तुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते । 010a
मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः ॥ 010c
यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते । 011a
शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते ॥ 011c
त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन । 012a
न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात् ॥ 012c
न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप । 013a
शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा ॥ 013c
तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् । 014a
प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः ॥ 014c
द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि । 015a
तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा ॥ 015c
द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति । 016a
द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः ॥ 016c
रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता । 017a
शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम् ॥ 017c
अनृतं चापवादं च पैशुन्यमतिलोभता । 018a
हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता ॥ 018c
अशौचं चाकृतज्ञत्वं डम्भता स्तम्भ एव च । 019a अबुद्धिता च नास्तिक्यं भयमालस्यमेव च ।019c
निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत् ॥ 019e
द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् । 020a सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः ।020c
नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥ 020e
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । 021a
तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः ॥ 021c
अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः । 022a
यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते ॥ 022c
विद्याविनयसम्पन्ना ब्राह्मणा वेदपारगाः । 023a
मयि भक्तिं न कुर्वन्ति चण्डालसदृशा हि ते ॥ 023c
वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम् । 024a
वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः ॥ 024c
यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च । 025a
अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते ॥ 025c
स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव । 026a
समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु ॥ 026c
आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम् । 027a
अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप ॥ 027c
नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः । 028a
तस्याक्षयाऽभवल्ँलोकाः श्वपाकस्यापि पार्थिव ॥ 028c
किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम् । 029a
मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा ॥ 029c
बहुवर्षसहस्राणि तपस्तप्यति यो नरः । 030a
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ 030c
मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः । 031a
अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम् ॥ 031c
अपार्थकं प्रभाषन्तः शूद्रा भागवता इति । 032a
न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ॥ 032c
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् । 033a
अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः ॥ 033c
ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च । 034a
सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् ॥ 034c
अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः । 035a
स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः ॥ 035c
वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः । 036a
देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः ॥ 036c
अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत् । 037a
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ 037c
ब्रह्मा मामाश्रितो राजन्नाहं कञ्चिदुपाश्रितः । 038a
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥ 038c
एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् । 039a
धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर ॥ 039c
इदं पवित्रमाख्यानं पुण्यं वेदेन सम्मितम् । 040a
यः पठेन्मामकं धर्ममहन्यहनि पाण्डव ॥ 040c
धर्मोति वर्धते तस्य बुद्धिश्चापि प्रसीदति । 041a
पापक्षयमुपेत्यैवं कल्याणं च विवर्धते ॥ 041c
एतत्पुण्यं पवित्रं च पामनाशनमुत्तमम् । 042a
श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः ॥ 042c
श्रावयेद्यस्त्विदं भक्त्या प्रयतोथ शृणोति वा । 043a
स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ॥ 043c
यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः । 044a
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ 044c
वैशम्पायन उवाच । 045
श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः । 045a
प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः ॥ 045c
ऋषय पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम् । 046a
पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः ॥ 046c
देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा । 047a
ऋषयस्च महात्मानो गुह्यका भुजगास्तथा ॥ 047c
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः । 048a
तथा भागवताश्चापि पञ्चकालमुपासकाः ॥ 048c
कौतूहलसमायुक्ता भगवद्भक्तिमागताः । 049a
श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् ॥ 049c
विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु । 050a
प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः ॥ 050c
द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् । 051a
इति प्रहृष्टमनसो ययुर्देवगणैः सह । 051c
सर्वे ऋषिगणा राजन्ययुः स्वंस्वं निवेशनम् ॥ 051e
गतेषु तेषु सर्वेषु केशवः केशिहा हरिः । 052a
सस्मार दारुकं राजन्स च सात्यकिना सह । 052c
समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत् ॥ 052e
अञ्जलिं मूर्ध्नि सन्धाय नेत्रैरश्रुपरिप्लुतैः । 053a ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् ।053c
पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा ॥ 053e
कृष्णोपि भगवान्देवः पृथामामन्त्र्य चार्तवत् । 054a
धृतराष्ट्रं च गान्धारीं विगदुरं द्रौपदीं तथा ॥ 054c
सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना । 055a कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः ।055c
निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम् ॥ 055e
वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः । 056a
युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता ॥ 056c
अपास्य चाशु यन्तारं दारुकं सूतसत्तमम् । 057a अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः ।057c
अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा ॥ 057e
उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम् । 058a
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥ 058c
तथैव भीमसेनोपि रथमारुह्य वीर्यवान् । 059a
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥ 059c
वैडूर्यमणिदण्डं च चामीकरविभूषितम् । 060a
दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः ॥ 060c
उपारुह्य रथं शीघ्रं चामरव्यजने सिते । 061a
नकुलः सहदेवश्च धूयमानौ जनार्दनम् ॥ 061c
भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ । 062a
पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः ॥ 062c
त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् । 063a
विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारका ययौ ॥ 063c
तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः । 064a
कपिलाद्यानि दानानि ददुर्धर्मपरायणाः ॥ 064c
मधुसूदनवाक्यानि स्मृत्वास्मृत्वा पुनःपुनः । 065a
मनसा पूजयामासुर्हदयस्थानि पाण्डवाः ॥ 065c
युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम् । 066a
तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ॥ 066c
एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम् । 067a
मया ते कथितं राजन्पिवित्रं पापनाशनम् ॥ 067c
तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह । 068a
तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् ॥ ॥ 068c

इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥ ॥ इत्याश्वमेधिकपर्व समाप्तम् ॥