अध्यायः 117 कृष्णेन युधिष्ठिरम्प्रत्यश्वत्थगोब्राह्मणमहिमप्रशंसनपूर्वकं ब्राह्मणभ्रंशकदुष्कर्मकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् । 001a
उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर ॥ 001c
भगवानुवाच । 002
अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् । 002a
तां वर्जयामि राजेन्द्र श्वपाकविहितामिव ॥ 002c
नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च । 003a
अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर ॥ 003c
एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् । 004a
अवमानितमेतत्तु दहत्यासप्तमं कुलम् ॥ 004c
अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि । 005a
तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव ॥ 005c
युधिष्ठिर उवाच । 006
ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात् । 006a
ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि ॥ 006c
भगवानुवाच । 007
कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् । 007a
स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् ॥ 007c
यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम् । 008a
स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपि सन् ॥ 008c
पत्तने नगरे वाऽपि यो द्वादशसमा वसेत् । 009a
स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥ 009c
उत्पादयति यः पुत्रं शूद्रायां काममोहितः । 010a
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ 010c
यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा । 011a
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ 011c
मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप । 012a
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ 012c
विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः । 013a
विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर ॥ 013c
तस्मात्सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर । 014a
जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः ॥ ॥ 014c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥