अध्यायः 116 कृष्णेन युधिष्ठिरम्प्रति भकगवद्भक्तिसौशील्याद्यभावे ब्राह्मणानामपि अग्निहोत्रस्वाध्यायाध्ययनादिसत्कर्मणामपि वैफल्यस्य शूद्राणामपि भक्त्यादिमतां स्वोचितकिञ्चित्कर्मणामपि साफल्यस्य च कथनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर । 001a
यत्कर्म सफलं नेति कथयस्य ममानघ ॥ 001c
भगवानुवाच । 002
शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम् । 002a
सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते ॥ 002c
त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् । 003a
वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम् ॥ 003c
अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया । 004a
सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ॥ 004c
अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च । 005a
शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम् ॥ 005c
क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् । 006a
तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥ 006c
अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन् । 007a
उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः ॥ 007c
न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः । 008a
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः ॥ 008c
मनश्शौचं कर्मशौचं कुलशौचं च भारत । 009a
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् ॥ 009c
पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते । 010a
हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः ॥ 010c
अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः । 011a
वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ॥ 011c
यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः । 012a
विकर्मसेवी कौन्तेय स वै वृषल उच्यते ॥ 012c
वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम् । 013a
वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि ॥ 013c
स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः । 014a
न तु मां स्तौति पापात्मा स तु चण्डालतः समः ॥ 014c
श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा । 015a
दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा ॥ 015c
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । 016a
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ 016c
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत । 017a
उत्पन्नानि पवित्राणि भुवनार्थं तथैव च ॥ 017c
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर । 018a
सर्वं च शूद्रसंस्पृष्टमपवित्रं न संशयः ॥ 018c
लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत । 019a
श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव ॥ 019c
गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः । 020a
पञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदाचन । 020c
स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत् ॥ 020e
मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः । 021a
नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः ॥ 021c
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् । 022a
अवमानात्पतन्त्येव नरके रौरवे नराः ॥ 022c
मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम । 023a
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥ 023c
कीटपक्षिमृगाणां च मयि सन्न्यस्तचेतसाम् । 024a
ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम् ॥ 024c
पत्रं वाऽप्यथवा पुष्पं फलं वाऽप्यप एव वा । 025a
ददाति मम शूद्रो यच्छिरसा धारयामि तत् ॥ 025c
विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान् । 026a
तेषां तेनैव रूपेण पूजां गृह्णामि भारत ॥ 026c
वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् । 027a
मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते ॥ 027c
मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया । 028a
प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर ॥ 028c
आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति । 029a
तेनैव परितुष्टोऽहं भविष्यामि न संशयः ॥ 029c
मृदा च मणिरत्नैश्च ताम्रेण रजतेन च । 030a
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा । 030c
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् ॥ 030e
जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः । 031a
वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः । 031c
सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः ॥ ॥ 031e

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥