अध्यायः 115

कृष्णेन युधिष्ठिरम्प्रति विषुवाख्यपुण्यकालस्य महिमानुवर्णनपूर्वकं तत्र दानादिप्रशंसनम् ॥ 1 ॥ तथा गायत्रीजपमाहात्म्यकथनम्, अश्वत्थमाहात्म्यकथनं च ॥ 2 ॥ तथा नानाधर्मकथनपूर्वकं शिंशुमाराकृतिनिरूपणम्, पञ्चगव्यविधानकथनं च ॥ 3 ॥

वैशम्पायन उवाच । 001
केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः । 001a
पप्रच्छ दानकालस्य विशेषं च विधिं नृप ॥ 001c
युधिष्ठिर उवाच । 002
देव किं फलमाख्यातं विषुवेष्मवरेश्वर । 002a
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम् ॥ 002c
भगवानुवाच । 003
शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च । 003a
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम् ॥ 003c
राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते । 004a
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप ॥ 004c
ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत् । 005a
क्रियाकरणकार्याणामेकीभावत्वकारणात् ॥ 005c
अस्माकमेकीभूतानां निष्कलं परमं पदम् । 006a
तन्मुहूर्तं परं पुण्यं राजन्विषुवसञ्ज्ञितम् ॥ 006c
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् । 007a
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम् ॥ 007c
देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा । 008a
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा ॥ 008c
सोमादयो ग्रहाश्चैव सरितः सागरास्तथा । 009a
मरुतोप्सरसो नागा यक्षराक्षसगुह्यकाः ॥ 009c
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः । 010a
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः ॥ 010c
गृहमायतनं धान्यं वाहनं शयनं तथा ॥ 011a अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च ।011c
यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर । 012a
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः ॥ 012c
तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते । 013a
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसम्मितम् ॥ 013c
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा । 014a
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु ॥ 014c
दशजन्मकृतं पापं तस्य सद्यो विनश्यति । 015a
दशानामश्वमेधानामिष्टानां लभते फलम् ॥ 015c
विमानं दिव्यमारूढः कामरूपी यथासुखम् । 016a
स याति मामकं लोकं रुद्रलोकमथापि वा ॥ 016c
तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम् । 017a
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते ॥ 017c
ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः । 018a
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत् ॥ 018c
चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा । 019a
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा ॥ 019c
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि । 020a
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु ॥ 020c
गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः । 021a
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत् ॥ 021c
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते । 022a
तत्सहस्रगुणं भूत्वा दातारमुपतिष्ठति ॥ 022c
महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम । 023a
निष्पापस्तत्क्षणादेव तेन दानेन जायते ॥ 023c
चन्द्रसूर्यप्रकाशेन विमानेन विराजता । 024a
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः ॥ 024c
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह । 025a
तावत्कालं स रजेन्द्र सोमलोके महीयते ॥ 025c
ततश्चापि च्युतः कालादिह लोके युधिष्ठिर । 026a
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥ 026c
युधिष्ठिर उवाच । 027
भगवंस्तव गायत्री जप्यते च कथं विभो । 027a
किं वा तस्य फलं देव ममाचक्ष्व सुरेश्वर ॥ 027c
भगवानुवाच । 028
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा । 028a
अयने श्रवणे चैव व्यतीपाते तथैव च ॥ 028c
अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च । 029a
जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप । 029c
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः ॥ 029e
युधिष्ठिर उवाच । 030
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसम्मितम् । 030a
एतत्कथय मे देव परं कौतूहलं हि मे ॥ 030c
भगवानुवाच । 031
अहमश्वत्थरूपेण पालयामि जगत्त्रयम् । 031a
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः ॥ 031c
यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति । 032a
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति ॥ 032c
यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः । 033a
तस्मात्प्रदक्षिणं कुर्यान्न च्छिन्द्यादेनमन्वहम् ॥ 033c
व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते । 034a
देवशुश्रूषणं तीर्थं गुरुशुश्रूषणं तथा ॥ 034c
पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा । 035a
दाराणां तोषणं तीर्थं गार्हस्थ्यं तीर्थमुच्यते ॥ 035c
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम् । 036a
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते ॥ 036c
मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम् ॥ 037a
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते ॥ 037c
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा । 038a
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः ॥ 038c
कर्मणाऽपि विशुद्धस्य पुरुषस्येह भारत । 039a
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते ॥ 039c
गुरुतीर्थं परं ज्ञानमतस्तीर्थं न विद्यते । 040a
ज्ञानतीर्थं परं तीर्थं ब्रह्मतीर्थं सनातनम् ॥ 040c
क्षमा तु परमं तीर्थं सर्वतीर्थेषु पाण्डव । 041a
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥ 041c
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा । 042a
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते ॥ 042c
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः । 043a
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः ॥ 043c
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत् । 044a
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः ॥ 044c
क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः । 045a
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते ॥ 045c
आत्मा नदी भारतपुण्यतीर्थमात्मा तीर्थं सर्वतीर्थप्रधानम् । 046a
आत्मा यज्ञः सततं मन्यते वै स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ॥ 046e
आचारनैर्मल्यमुपागतेन सत्यक्षमानिस्तुलशीतलेन । 047a
ज्ञानाम्बुना स्नाति हि नित्यमेवं किं तस्य भूयः सलिलेन तीर्थम् ॥ 047c
युधिष्ठिर उवाच । 048
भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम् । 048a
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि ॥ 048c
भगवानुवाच । 049
रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम् । 049a
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ॥ 049c
पावनं ब्राह्मणं दृष्ट्वा मद्गतेनान्तरात्मना । 050a
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ॥ 050c
प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु । 051a
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम् ॥ 051c
पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन् । 052a
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते ॥ 052c
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा । 053a
प्राक्स्रोतसं नदीं गत्वा ममायतनसन्निधौ ॥ 053c
सलिलेन तु यः स्नायात्सकृदेव रविग्रहे । 054a
तस्य यत्सञ्चितं पापं तत्क्षणादेव नश्यति ॥ 054c
गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने । 055a मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर ।055c
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति ॥ 055e
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम् । 056a
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणश्यति ॥ 056c
ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर । 057a
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ ॥ 057c
हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ । 058a
अत्रिर्मध्यं भवेद्राजल्ँलिङ्गं संवत्सरं भवेत् ॥ 058c
मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः । 059a
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः ॥ 059c
अभयं च ततः पश्चात्स एव ध्रुवसञ्ज्ञिकः । 060a
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः ॥ 060c
पिबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु । 061a
तस्य नश्यति यत्पापं तत्पापं पूर्वसञ्चितम् ॥ 061c
तथैव ब्रह्मकूर्चं तु समन्त्रं तु पृथक्पृथक् । 062a
मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति ॥ 062c
पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत । 063a
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम् । 063c
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् ॥ 063e
गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम् । 064a
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि ॥ 064c
तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम् । 065a
आपोहिष्ठेत्यृचा गृह्य यवचूर्णं यथाविधि ॥ 065c
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने । 066a
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥ 066c
उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु । 067a
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते ॥ 067c
भद्रं न हति यः पादं पठन्नृक्सहितां तदा । 068a
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति ॥ 068c
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः । 069a
न पापेन स लिप्येत पद्मपत्रमिवाम्भसा ॥ ॥ 069c
इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि वैष्णवधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥