अध्यायः 114 कृष्णेन युधिष्ठिरम्प्रति केशवादिभगवन्मूर्त्युपास्तिपूर्वकं मार्गशीर्षादिद्वादशद्वादशीव्रताचरणफलकथनम् ॥ 1 ॥ युधिष्ठिरेण विस्तरेण कृष्णस्तवनम् ॥ 2 ॥ पुनः कृष्णेन युधिष्ठिराय एकादश्युपवासपूर्वकं द्वादश्यां भगवत्पूजायाः फलकथनम् ॥ 3 ॥
युधिष्ठिर उवाच । 001
एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत् । 001a
तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव ॥ 001c
भगवानुवाच । 002
शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम् । 002a
यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते ॥ 002c
एकभुक्तेन वर्तेत नरः संवत्सरं तु यः । 003a
ब्रह्मचारी जितक्रोधो ह्यधश्शायी जितेन्द्रियः ॥ 003c
अर्चन्नेव तु मां नित्यं मद्गतेनान्तरात्मना । 004a शुचिश्चि स्नानतो व्यग्रः सत्यवागनसूयकः ।004c
सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः ॥ 004e
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च । 005a
विप्रमग्रासने कृत्वा यावकं भैत्रमेव वा ॥ 005c
भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः । 006a
नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत् ॥ 006c
मासेमासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन् । 007a
संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम् ॥ 007c
विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः । 008a नवनीतमयीं गां वा तिलधेनुमथापि वा ।008c
तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु ॥ 008e
दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा । 009a
तद्विनश्यति तस्याशु नात्र कार्या विचारणा ॥ 009c
युधिष्ठिर उवाच । 010
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् । 010a
यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति ॥ 010c
भगवानुवाच । 011
शृणु राजन्यथापूर्वं मयाऽभीष्टं तु मोदते । 011a
तथा ते कथयिष्यामि मद्भक्ताय युधिषठिर ॥ 011c
उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम् । 012a यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप ।012c
सर्वक्रतुफलं लब्ध्वा मम लोके महीयते ॥ 012e
युधिष्ठिर उवाच । 013
भगवन्देवदेवेश पञ्चमी नाम का तव । 013a
तामहं श्रोतुमिच्छामि कथयस्व ममानघ ॥ 013c
भगवानुवाच । 014
पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप । 014a
मत्पञ्चमीति विख्यातां मत्प्रिया च विशेषतः ॥ 014c
तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः । 015a
उपवासस्तु कर्तव्यो मत्प्रियार्तं विशेषतः ॥ 015c
द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् । 016a
तेनाहं परमां प्रीति यास्यामि नरपुङ्गव ॥ 016c
अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम् । 017a
उपोष्य पूजयेद्यो मां सोऽस्वमेधफलं लभेत् ॥ 017c
द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम् । 018a
उपोष्य पूजयेद्यो मां वाजिमेधफलं लभेत् ॥ 018c
द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् । 019a
पूजयेद्यः समाप्नोति राजसूयफलं नृप ॥ 019c
द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम् ॥ 020a
पूजयेद्यः समाप्नोति ह्यतिरात्रफलं नृप ॥ 020c
द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः । 021a
पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम् ॥ 021c
द्वादश्यां मासि वैशाखे मधुसूदनसञ्ज्ञितम् । 022a
उपोष्य पूजयेद्यो मां सोग्निष्टोमस्य पाण्डव ॥ 022c
द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम् । 023a
अर्ययेद्यः समाप्नोति गवां मेधफलं नृप ॥ 023c
आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः । 024a
नरमेधस्य स फलं प्राप्नोति भरतर्षभ ॥ 024c
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् । 025a
पूजयेद्य समाप्नोति पञ्चयज्ञफलं नृप ॥ 025c
मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् । 026a
उपोष्य स समाप्नोति सौत्रामणिफलं नृप ॥ 026c
द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम् । 027a
अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप ॥ 027c
द्वादश्यां कार्तिके मासि मां दामोदरसञ्ज्ञितम् । 028a
उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं नृप ॥ 028c
केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन । 029a
यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते नृप ॥ 029c
श्रावणेऽप्येवमेवं मामर्चयेद्भक्तिमान्नरः । 030a
मम सालोक्यमाप्नोति नात्र कार्या विचारणा ॥ 030c
मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः । 031a
पूर्णे संवत्सरे कुर्यात्पुनः संवत्सरं तु माम् ॥ 031c
एवं द्वादशवर्षं यो मद्भक्तो मत्परायणः । 032a
अविघ्नमर्चयानस्तु मम सायुज्यमाप्नुयात् ॥ 032c
अर्चयेत्प्रीतिमान्यो मां द्वादश्यां वेदसंहिताम् । 033a
स पूर्वोक्तफलं राजल्ँलभते नात्र संशयः ॥ 033c
गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा । 034a
द्वादश्यां मम यो दद्यात्तत्समो नास्ति मत्प्रियः ॥ 034c
एतेन विधिना सर्वे देवाः शक्रपुरोगमाः । 035a
मद्भक्ता नरशार्दूल स्वर्गलोकं तु भुञ्जते ॥ 035c
वैशम्पायन उवाच । 036
एवं वदति देवेशे केशवे पाडुनन्दनः । 036a
कृताञ्जलिः स्तोत्रमिदं भक्त्तया धर्मात्मजोऽब्रवीत् ॥c 036c
सर्वलोकेश देवेश हृषीकेशक नमोस्तु ते । 037a
सहस्रशिरसे नित्यं सहस्राक्ष नमोस्तु ते ॥ 037c
त्रयीमय त्रयीनाथ त्रयीस्तुत नमोनमः । 038a
यज्ञात्मन्यज्ञसम्भूत यज्ञनाथ नमोनमः ॥ 038c
चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमोनमः । 039a
लोकात्मल्ँलोककृन्नाथ लोकावास नमोनमः ॥ 039c
सृष्टिसंहारकर्त्रे तु नरसिंह नमोनमः । 040a
भक्तप्रिय नमस्तेऽस्तु कृष्ण नाथ नमोनमः ॥ 040c
लोकप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः । 041a
ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमोनमः ॥ 041c
रुद्ररूप नमस्तेऽस्तु रुद्रकर्मरताय ते । 042a
पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमोनमः ॥ 042c
कृष्णप्रिय नमस्तेऽस्तु कृष्णनाथ नमोनमः । 043a
योगिप्रिय नमस्तेऽस्तु योगिनाथ नमोनमः ॥ 043c
हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमोनमः । 044a
पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमोनमः ॥ 044c
वैशम्पायन उवाच । 045
भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे । 045a
गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् ॥ 045c
निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम् । 046a
वक्तुमेव नरश्रेष्ठ धर्मपूत्रं प्रचक्रमे ॥ 046c
भगवानुवाच । 047
अन्यवत्किमिदं राजन्मां स्तौषि नरपुङ्गव । 047a
तिष्ठ पृच्छ यथापूर्वं धर्मपूत्र युधिष्ठिर ॥ 047c
युधिष्ठिर उवाच । 048
भगवंस्त्वत्प्रसादात्तु धर्मं स्मृत्वा पुनःपुनः । 048a
न शान्तिरस्ति मे देव नृत्यतीव च मे मनः ॥ 048c
इदं च धर्मसम्पन्नं वक्तुमर्हसि माधव । 049a
कृष्णपक्षेषु द्वादश्यामर्चनीयः कथं भवेत् ॥ 049c
भगवानुवाच । 050
शृणु राजन्यथापूर्वं तत्सर्वं कथयामि ते । 050a
परमं कृष्णद्वादश्यामर्चनायां फलं मम ॥ 050c
एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम् । 051a
विप्रानपि यथालाभं पूजयेद्भक्तिमान्नरः ॥ 051c
स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा । 052a
चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः ॥ ॥ 052c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥