अध्यायः 113 कृष्णेन युधिष्ठिरम्प्रति कार्तिकादिद्वादशमासेषु एकभुक्तव्रताचरणप्रकारनिरूपणपूर्वकं तत्फलकथनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे । 001a
अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप ॥ 001c
युधिष्ठिर उवाच । 002
सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत । 002a
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः ॥ 002c
भगवानुवाच । 003
यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् । 003a
सर्वपापप्रशमनं तच्छृणुष्व युधिष्टिर ॥ 003c
कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः । 004a
तेष्वेकबुक्तनियमः सर्वेषामुच्यते मया ॥ 004c
कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः । 005a
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते ॥ 005c
जलं वा न पिबेन्मासे नान्तरं भोजनात्परम् । 006a
आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः ॥ 006c
व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च । 007a
क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥ 007c
विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् । 008a
त्पुण्यं समनुप्राप्य सूर्यकलोके महीयते । 008c
ततश्चापि च्युतः कालात्पुरुषेषूपजायते ॥ 008e
मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते । 009a
कामं क्रोधं च लोभं च परित्यज्य यथाविधि ॥ 009c
स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः । 010a
जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः ॥ 010c
मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः । 011a
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु ॥ 011c
अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत् । 012a
तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना । 012c
सह सप्तर्षिलोकेषु यथाकामं यथासुखम् ॥ 012e
ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते । 013a
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति ॥ 013c
पौषमासं क्षिपेदेवमेकभुक्तेन यो नरः । 014a
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना ॥ 014c
अहिंसासत्यसहितः क्रोधहर्षविवर्जितः । 015a
एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम् ॥ 015c
विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम् । 016a
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते ॥ 016c
अवतीर्णस्ततः कालादिलावर्षेषु जायते । 017a
तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति ॥ 017c
माघमासं सदा यस्तु वर्तते चैकभुक्ततः । 018a
मदर्चनपरो भूत्वा डम्भक्रोधविवर्जितः । 018c
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः ॥ 018e
नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना । 019a दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि ।019c
त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु ॥ 019e
नीलकण्ठप्रयुक्तेन यानेनांऽबरशोभिना । 020a
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः ॥ 020c
तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते । 021a
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले ॥ 021c
यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः । 022a
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा ॥ 022c
पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः । 023a
मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु ॥ 023c
विमानं सारसैर्युक्तमारूढः कामगामि च । 024a
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः ॥ 024c
ततश्चापि च्युतः कालात्केतुमालेषु जायते । 025a
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत् ॥ 025c
चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते । 026a
ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु ॥ 026c
यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः । 027a
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते ॥ 027c
ततोऽवतीर्णो जायेत वर्षे रमणके पुनः । 028a
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति ॥ 028c
वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते । 029a
द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः ॥ 029c
नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् । 030a
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥ 030c
फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः । 031a
तत्पुण्यफलमासाद्य देवलोके महीयते ॥ 031c
ततो हैमवते वर्षे जायते कालपर्ययात् । 032a
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति ॥ 032c
ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते । 033a
विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥ 033c
नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः । 034a
डम्भानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥ 034c
चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम् । 035a
तत्पुण्यफलमासाद्य देवलोके महीयते ॥ 035c
अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः । 036a
ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् ॥ 036c
आषाढमासं यो राजन्नेकभुक्तेन वर्तते । 037a
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः ॥ 037c
विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः । 038a
कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः ॥ 038c
व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर । 039a
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु ॥ 039c
कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन । 040a
तत्पुण्यफलमासाद्य देवलोके महीयते ॥ 040c
ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते । 041a
ततश्चापि च्युतः कालादिह विप्रो भविष्यति ॥ 041c
श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते । 042a
नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा । 042c
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥ 042e
पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः । 043a
लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥ 043c
कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव । 044a
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते ॥ 044c
ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते । 045a
तत्र प्रकामं क्रीडित्वा विप्रो भवति मानुषे ॥ 045c
यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते । 046a
ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ॥ 046c
विप्रमग्रासने कृत्वा पाकभेदविवर्जितः । 047a
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत् ॥ 047c
तिलानपि घृतं वाऽपि व्रतान्ते दक्षिणां ददत् । 048a
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु ॥ 048c
यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः । 049a
तत्पुण्यफलमासाद्य शक्रलोके महीयते ॥ 049c
ततश्चापि च्युतः कालाज्जायते धनदालये । 050a
तत्र प्रकामं क्रीडित्वा राजा भवति मानुषे ॥ 050c
यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते । 051a
मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना । 051c
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा ॥ 051e
विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः । 052a
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥ 052c
अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन । 053a
तत्पुण्यफलमासाद्य मम लोके महीयते ॥ 053c
ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते । 054a
तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत् ॥ ॥ 054c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥