अध्यायः 112 कृष्णेन युधिष्ठिरम्प्रति चान्द्रायणविधिनिरूपणपूर्वकं तदाचरणफलकथनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज । 001a
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम ॥ 001c
भगवानुवाच । 002
शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम् । 002a
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः ॥ 002c
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः । 003a
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया ॥ 003c
शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः । 004a
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम् ॥ 004c
शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् । 005a
पालाशदण्डमादाय ब्रह्मचारिव्रते स्थितः ॥ 005c
नदीसङ्गमतीर्थेषु शुचौ देशे गृहेऽपि वा । 006a कृतोपवासः पूर्वं तु शुक्लप्रतिपदि द्विजः ।006c
गोमयेनोपलिप्तेऽथ स्थण्डिलेऽग्निं निधापयन् ॥ 006e
आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा । 007a
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम् ॥ 007c
सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे । 008a
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा ॥ 008c
षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः । 009a
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम् ॥ 009c
नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च । 010a प्रणम्य चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि ।010c
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः ॥ 010e
उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः । 011a
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम् ॥ 011c
आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम् । 012a
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम् ॥ 012c
नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च । 013a
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा ॥ 013c
गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः । 014a वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम् ।014c
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम् ॥ 014e
ततो मध्याह्नकाले वै पायसं यावकं हि वा । 015a
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ॥ 015c
पात्रं तु सुसमादाय सौवर्णं राजतं तु वा । 016a
ताम्रं वा मृन्मयं वापि औदुम्बरमथापि वा । 016c
वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः । 017a
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः ॥ 017c
ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् । 018a
गोदोहमात्रं तिष्ठेत्तु वाग्यतः संयतेन्द्रियः ॥ 018c
न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम् ॥ 019ac
दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम् । 020a
पतितं च तथा श्वानमादित्यमवलोकयेत् ॥ 020c
यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः । 021a
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् ॥ 021c
प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः । 022a ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले ।022c
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत् ॥ 022e
पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै । 023a
तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ॥ 023c
ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च । 024a
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम् ॥ 024c
अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत् ॥ 025ac
अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखः शुचिः । 026a अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् ।026c
यथा च वर्धते सोमो ह्रसते च यथा पुनः । 027a
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने ॥ 027c
त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत् । 028a
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत् ॥ 028c
स्थाने न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत् । 029a
भवेत्स्थण्डिलशायी वाऽप्यथवा वृक्षमूलिकः ॥ 029c
वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा । 030a
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन ॥ 030c
एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् । 031a
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम् ॥ 031c
चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम् । 032a
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत् ॥ 032c
ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च । 033a
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः ॥ 033c
एवमन्यानि पापानि पातकीयानि यानि च । 034a
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा ॥ 034c
अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च । 035a
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ 035c
उपपातकिनश्चान्नं पतितान्नं तथैव च । 036a
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ 036c
आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च । 037a
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ 037c
अथाग्रेधिषोरन्नं दिधिषूपपतेस्तथा । 038a
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च ॥ 038c
कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च । 039a
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ 039c
सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च । 040a
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत् ॥ 040c
एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः । 041a
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ 041c
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह । 042a
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ 042c
उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे । 043a
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत् ॥ 043c
तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा । 044a
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ 044c
द्विजः पर्युषितं चान्नं पक्वं परगृहागतम् । 045a
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् ॥ 045c
उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः । 046a
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत् ॥ 046c
एतत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम् । 047a
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम् ॥ 047c
एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः । 048a
एतदद्य परं गुह्यं पवित्रं पापनाशनम् ॥ 048c
यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम् ॥ 049a
स दिवं याति पूतात्मा निर्मलादित्यसन्निभः ॥ ॥ 049c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥