अध्यायः 111 कृष्णेन युधिष्टिरम्प्रत्यग्निसृष्टिप्रकारकथनम् ॥ 1 ॥ आहवनीयादित्वेन तद्विभागकथनपूर्वकं तत्तन्नामनिर्वचनम् ॥ 2 ॥ तथा यज्ञाग्निहोत्रप्रशंसनम् ॥ 3 ॥

युधिष्ठिर उवाच । 001
स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः । 001a
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे ॥ 001c
भगवानुवाच । 002
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु । 002a
मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम् । 002c
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम् ॥ 002e
युधिष्ठिर उवाच । 003
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम् । 003a
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत् ॥ 003c
कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम । 004a
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत् ॥ 004c
कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो । 005a
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः ॥ 005c
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ । 006a
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम् ॥ 006c
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम् । 007a
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः ॥ 007c
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः । 008a
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव ॥ 008c
एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे । 009a उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति ।009c
वक्तुमर्हसि सर्वज्ञ सर्वाधिक नमोस्तु ते ॥ 009e
भगवानुवाच । 010
शृणु राजन्महापुण्यमिदं धर्मामृतं परम् । 010a
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः ॥ 010c
ब्रह्मत्वेनासृजं लोकानहमादौ महाद्युते । 011a
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया ॥ 011c
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया । 012a
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः ॥ 012c
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते । 013a
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते ॥ 013c
यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः । 014a
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते ॥ 014c
तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात् । 015a
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः ॥ 015c
सर्वभूतात्मको राजन्देवानामेष वै मुखम् । 016a
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः ॥ 016c
सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु । 017a
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा ॥ 017c
सततोपासनात्सोयमौपासन इति स्मृतः ॥ 018ac
आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः । 019a
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः ॥ 019c
तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः । 020a
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः ॥ 020c
ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः । 021a
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः ॥ 021c
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते । 022a
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते ॥ 022c
स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः । 023a
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः ॥ 023c
औपासनं चावसथ्यं सभ्यं पचनपावकम् । 024a
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च ॥ 024c
अग्निहोत्रप्रकारं च शृणु राजन्समाहितः । 025a
त्रयाणां गुणनामानां वह्नीनामुच्यते मया ॥ 025c
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम् । 026a
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता ॥ 026c
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत् । 027a
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः ॥ 027c
आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम् । 028a
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम् ॥ 028c
यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः । 029a
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते ॥ 029c
तेषां स भागतो वह्निः सभ्य इत्यभिधीयते । 030a
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः ॥ 030c
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत् । 031a
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः ॥ 031c
अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे । 032a
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप ॥ 032c
पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः । 033a
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम् ॥ 033c
वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी । 034a
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत् ॥ 034c
चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम् । 035a
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप ॥ 035c
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः । 036a
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम् ॥ 036c
पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह । 037a
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः ॥ 037c
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते । 038a
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः ॥ 038c
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः । 039a
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता ॥ 039c
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः । 040a
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ॥ 040c
इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत् । 041a
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम् ॥ 041c
होइज्येषु विषादो वै विषादो दुःखमुच्यते । 042a
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः ॥ 042c
आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च । 043a
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप ॥ 043c
यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः । 044a
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ ॥ 044c
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा । 045a
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु ॥ 045c
अग्निहोत्रफला वेदा शीतवृत्तफलं श्रुतम् । 046a
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ 046c
त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते । 047a
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः ॥ 047c
वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप । 048a
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते ॥ 048c
अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ । 049a
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते ॥ 049c
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते । 050a क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप ।050c
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः ॥ 050a
शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः । 051c
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते ॥ 051a
शरद्याधानमेवं वै क्रियते येन पाण्डव । 052c
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते ॥ 052a
पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः । 053c
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत् ॥ 053a
ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च । 054c
फलान्योषधयश्चापि अग्निहोत्रकृते हविः ॥ 054a
रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा । 055c
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन् ॥ 055a
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः । 056c
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम् ॥ 056a
छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च । 057a
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम् ॥ 057c
इतिहासपुराणं च गाथाश्चोपनिषत्तथा । 058a
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् ॥ 058c
यच्चैतस्यां पृथिव्यां वै किञ्चिदस्ति चराचरम् । 059a
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयम्भुवा ॥ 059c
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ । 060a
युपेष्टिपशुबन्धानां सोमपानक्रियावताम् ॥ 060c
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम् । 061a
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ ॥ 061c
ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात् । 062a
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम् ॥ 062c
वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम् । 063a
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम् ॥ 063c
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु । 064a
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ॥ 064c
यज्ञपात्रपवित्रार्थं द्रव्यसम्भारणाय च । 065a
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् ॥ 065c
नामधातुविकल्पानां तत्वार्थनियमाय च । 066a
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम् ॥ 066c
वेद्यर्थं पृथिवी सृष्टा सम्भारार्थ तथैव च । 067a
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् ॥ 067c
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात् । 068a
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा ॥ 068c
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा । 069a
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च ॥ 069c
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा । 070a
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा ॥ 070c
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम् । 071a देवताग्रहणं मोक्षं हविषां श्रपणं तथा ।071c
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम् ॥ 071a
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः । 072c
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते ॥ 072a
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा । 073c
सोमत्वं च लताः सर्वा वेदित्वं च वसुन्धर ॥ 073a तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम् ।073c
यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया । 074a
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव ॥ 074c
यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा । 075a
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर ॥ 075c
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते । 076a
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः ॥ 076c
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम् । 077a
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः । 077c
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि ॥ 077e
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च । 078a
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च ॥ 078c
दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च । 079a
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः ॥ 079c
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः । 080a
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयम्भुवा ॥ 080c
एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम् । 081a
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः ॥ 081c
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् । 082a
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते ॥ 082c
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः । 083a
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत् ॥ 083c
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप । 084a
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् ॥ 084c
मया स्थापितमादित्ये लोकस्य सुकृतं हि तत् । 085a
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् ॥ 085c
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः । 086a
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे ॥ 086c
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान् । 087a
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम् । 087c
समानरूपा देवानां तिष्ठन्त्याबूतसम्प्लवम् ॥ 087e
वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः । 088a
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते ॥ 088c
वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः । 089a
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु ॥ 089c
तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः । 090a
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम् ॥ 090c
आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्टिर । 091a
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर ॥ 091c
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः । 092a
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः ॥ 092c
पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः । 093a
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः ॥ 093c
तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः । 094a
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर ॥ 094c
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः । 095a
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः ॥ 095c
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः । 096a बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा ।096c
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः ॥ 096e
आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः । 097a
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् ॥ 097c
मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः । 098a
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः ॥ 098c
ऐश्वर्यगुणसम्पन्नाः क्रीडन्ति च यथासुखम् । 099a
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन ॥ 099c
प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम् । 100a श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः ।100c
प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः । 101a
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः ॥ ॥ 101c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकादशाधिकशततमोऽध्यायः ॥