अध्यायः 110 कृष्णेन युधिष्ठिरम्प्रत्यापद्धर्मकथनम् ॥ 1 ॥ तथा प्रशस्ताप्रशस्तब्राह्मणलक्षणकथनम् ॥ 2 ॥ तथा सामान्यतो नानाधर्मकथनपूर्वकं ब्राह्मण्यसिद्धिप्रकारकथनम् ॥ 3 ॥ तथा गुर्वाचार्योपाध्यायलक्षणकथनम् ॥ 4 ॥
युधिष्ठिर उवाच । 001
समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च । 001a
श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे ॥ 001c
भगवानुवाच । 002
दुर्भिक्षे राष्ट्रसम्बाधेऽप्याशौचे मृतसूतके । 002a
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते ॥ 002c
दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः । 003a
अकृतन्नं तु यत्किञ्चिद्गृह्णीयादात्मवृत्तये ॥ 003c
आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः । 004a
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च ॥ 004c
निमन्त्रितस्तु यो विप्रो विधिवद्धव्यकव्ययोः । 005a
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च ॥ 005c
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः । 006a
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ 006c
अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः । 007a
विदुषां वचनेनापि दानेनापि विशुद्ध्यति ॥ 007c
अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा । 008a
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च ॥ 008c
युधिष्ठिर उवाच । 009
प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर । 009a
अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत ॥ 009a
भगवानुवाच । 010
सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः । 010a
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम् ॥ 010c
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् । 011a
श्रीमानृजुः सत्यवादी पात्रं सर्व इमे द्विजाः ॥ 011c
एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः । 012a
तस्यां पङ्क्त्यां तु ये चान्ये तान्पुनन्त्येव दर्शनात् ॥ 012c
मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः । 013a
तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः ॥ 013c
निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान् । 014a
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः ॥ 014c
अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः । 015a
यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम् ॥ 015c
मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः । 016a
अहं चापि न जानामि गतिं तस्य नराधिप ॥ 016c
शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः । 017a
जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते ॥ 017c
आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते । 018a
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥ 018c
शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः । 019a
भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः ॥ 019c
प्रेतभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । 020a
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥ 020c
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । 021a
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥ 021c
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः । 022a
पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि ॥ 022c
न तेषामशुभं किञ्चित्पापं वा शुभकर्मणाम् । 023a
जलावगाहनादेव सद्यः शौचं विधीयते ॥ 023c
शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि । 024a
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत् ॥ 024c
विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम् । 025a
यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत् ॥ 025c
सर्वे च वेदाः सहषङ्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म । 026a
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य ॥ 026c
ग्रहोपरागे विषुवेऽयनान्ते पित्र्ये मघासु स्वसुते च जाते । 027a
गयेषु पिण्डेषु च पाण्डुपुत्र दत्तं भवेन्निष्कसहस्रतुल्यम् ॥ 027c
वैशाखमासस्य तु या तृतीयाऽनवद्याऽसौ कार्तिकशुक्लपक्षे । 028a
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥ 028c
उपप्लवे चन्द्रमसो रवेश्च श्राद्धस्य कालो ह्ययनद्वये च । 029a
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । 029c
श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥ 029e
यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः । 030a
क्रूरं दुराचारमनात्मवन्तं ब्रह्मघ्नमेनं कवयो वदन्ति ॥ 030c
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते परलोकमूढाः । 031a
तेषामयं शत्रुवरघ्नलोको नान्यत्सुखं देहसुखे रतानाम् ॥ 031c
ये चैव मुक्तास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम् । 032a
जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ चापि परश्च लोकः ॥ 032c
ये चैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते । 033a
न चापि गच्छन्ति सुखानि भोगांस्तेषामयं चापि परश्च नास्ति ॥ 033c
युधिष्ठिर उवाच । 034
नारायण पुराणेश लोकावास नमोस्तु ते । 034a
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् ॥ 034c
भगवानुवाच । 035
धर्मसारं महाप्राज्ञ मनुना प्रोक्तमादितः । 035a
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम् ॥ 035c
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । 036a
दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा ॥ 036c
गौरेकस्यैव दातव्या न बहूनां युधिष्ठिर । 037a
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ 037c
बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः । 038a
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति ॥ 038c
आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि । 039a
गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते ॥ 039c
मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च । 040a
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते ॥ 040c
ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम् । 041a
गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत् ॥ 041c
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । 042a
द्वितीयं धर्मशास्त्राणि तृतीयं लोकसङ्ग्रहः ॥ 042c
आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात् । 043a
हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते ॥ 043c
सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । 044a
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते ॥ 044c
यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । 045a
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ 045c
कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः । 046a
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः ॥ 046c
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । 047a
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः ॥ 047c
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि । 048a
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः ॥ 048c
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । 049a
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम् ॥ 049c
एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः । 050a
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः ॥ 050c
आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च । 051a
दानं चैव यथाशक्ति नियमाश्च यमैः सह ॥ 051c
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । 052a
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ 052c
गर्भहोमैर्जातकर्मनामचौलोपनायनैः । 053a
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः । 053c
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ 053e
धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा । 054a
विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे ॥ 054c
लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा । 055a
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत् ॥ 055c
सव्येन सव्यं सङ्गृह्य दक्षिणेन तु दक्षिणम् । 056a
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम् ॥ 056c
निषेकादीनि कर्माणि यः करोति यथाविधि । 057a
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते ॥ 057c
कृत्वोपनयनं वेदान्योध्यापयति नित्यशः । 058a
सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते ॥ 058c
साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च । 059a
विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते ॥ 059c
उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता । 060a
पितुः शतगुणं माता गौरवेणातिरिच्यते ॥ 060c
एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः । 061a
गुरोः परतरं किञ्चिन्न भूतं न भविष्यति ॥ 061c
तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत् । 062a
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः ॥ 062c
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् । 063a
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ 063c
शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति । 064a
शप्यमानस्य यत्पापं शपन्तमनुगच्छति ॥ 064c
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । 065a
द्वेषं डम्भं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत् ॥ ॥ 065c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥