अध्यायः 109 कृष्णेन युधिष्ठिरम्प्रति भोजनविधिकथनम् ॥ 1 ॥ तथा गोग्रासदानप्रकारकथनम् ॥ 2 ॥ तथा तिलप्रशंसनपूर्वकं तेषामिक्षूणां च ब्राह्मणेन स्वयं यन्त्रे निपीडनप्रतिषेधनम् ॥ 3 ॥
युधिष्ठिर उवाच । 001
अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन । 001a
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि ॥ 001c
भगवानुवाच । 002
बोजनस्य द्विजातीनां विधानं शृणु पाण्डव । 002a
स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः ॥ 002c
मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः । 003a
क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम् ॥ 003c
आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ । 004a
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः ॥ 004c
नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः । 005a
न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च ॥ 005c
अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना । 006a
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः ॥ 006c
जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते । 007a
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम् ॥ 007c
अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् । 008a
परिवेषजलादन्यत्पेयमेव तु मन्त्रवत् ॥ 008c
पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक् ॥ 009ac
यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप । 010a
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रितः ॥ 010c
विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव । 011a
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः ॥ 011c
अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः । 012a
तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति ॥ 012c
वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः । 013a
वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते ॥ 013c
पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च । 014a
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ 014c
स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम् । 015a
चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा ॥ 015c
स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा । 016a
तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि । 016c
न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः ॥ 016e
पिबतः पतिते तोये भोजने मुखनिस्सृते । 017a
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ 017c
पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन । 018a
पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥ 018c
पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः । 019a
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत् ॥ 019c
मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा । 020a
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत् ॥ 020c
सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित् । 021a
यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः ॥ 021c
उदक्यामपि चण्डालं श्वानं सूकरमेव वा । 022a
भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत् । 022c
भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥ 022e
केशकीटोपपन्नं च मुखमारुतवीजितम् । 023a
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ 023c
उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् । 024a
अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् ॥ 024c
राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि । 025a
नरके रौरवे घोर स पितॄन्पातयिष्यति ॥ 025c
तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान् । 026a
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः । 026c
स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत् ॥ 026e
युधिष्ठिर उवाच । 027
तृणमुष्टिविधानं च तृणमाहात्म्यमेव च । 027a
इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः ॥ 027c
भगवानुवाच । 028
पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः । 028a
तासां तु पूजया राजन्पूजिताः पितृदेवताः ॥ 028c
सभा प्रपा गृहाश्चापि देवतायतनानि च । 029a
शुद्ध्यन्ति शकृता यासां किं भूतमधिकं ततः ॥ 029c
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः । 030a
अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम् ॥ 030c
गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः । 031a
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः ॥ 031c
इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः । 032a
अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु ॥ 032c
यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा । 033a
तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति ॥ 033c
तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः । 034a
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम् ॥ 034c
तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत् । 035a
तिलन्तिलमिति ब्रूयात्तिलाः पापहरा हि ते ॥ 035c
क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः । 036a
भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः । 036c
कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥ 036e
तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप । 037a
पीडयन्हि द्विजो मोहान्नरकं याति रौरवम् ॥ 037c
इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः । 038a
इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः ॥ 038c
इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर । 039a
ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः । 039c
तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः ॥ ॥ 039e
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥