अध्यायः 108

कृष्णेन युधिष्ठिरम्प्रति यत्यग्निमहिमानुवर्णनम् ॥ 1 ॥ दानपात्रब्राह्मणलक्षणकथनम् ॥ 2 ॥ तथाऽन्नदानप्रशंसनम् ॥ 3 ॥

युधिष्ठिर उवाच । 001
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः । 001a
किल्लक्षणोसौ भति तन्मे ब्रूहि जनार्दन ॥ 001c
भगवानुवाच । 002
शृणु राजन्समासेन धर्मशौचविधिक्रमम् । 002a
अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः । 002c
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ 002e
ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम् । 003a
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम् ॥ 003c
बाल्ये विद्यां निषेवेत यौवने दारसङ्ग्रहम् । 004a
वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत् ॥ 004c
ब्राह्मणान्नावमन्येत गुरून्परिवदेन्न च । 005a
यतीनामनुकूलः स्यादेष धर्मः सनातनः ॥ 005c
यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । 006a
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः ॥ 006c
यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा । 007a
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः ॥ 007c
दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा । 008a
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः ॥ 008c
एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा । 009a
काषायदण्डधारोपि यतिः पूज्यो न संशयः ॥ 009c
अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः । 010a
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः ॥ 010c
तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः । 011a
मयि सन्न्यस्तकर्माणः परत्र हितकाङ्क्षिभिः ॥ 011c
प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन । 012a
भ्रूणहत्यासमं चैव उभयं यो निषेवते ॥ 012c
नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत् । 013a
नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत् ॥ 013c
नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत् । 014a
उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित् ॥ 014c
श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत् । 015a
सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत् ॥ 015c
प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् । 016a
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत् ॥ 016c
पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित् । 017a
तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम् ॥ 017c
तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप । 018a
तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम् ॥ 018c
प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति । 019a
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा ॥ 019c
युधिष्ठिर उवाच । 020
कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् । 020a
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन ॥ 020c
भगवानुवाच । 021
अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः । 021a
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ 021c
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः । 022a
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥ 022c
अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः । 023a
स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम् ॥ 023c
साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने । 024a
शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः ॥ 024c
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । 025a
तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर ॥ 025c
गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत् । 026a
निशम्य तु गुणोपेतं ब्राह्मणं साधुसम्मतम् । 026c
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत् ॥ 026e
युधिष्टिर उवाच । 027
धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम् । 027a
भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर ॥ 027c
भगवानुवाच । 028
अन्नेन धार्यते सर्वं जगदेतच्चराचरम् । 028a
अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ॥ 028c
कलत्रं पीडयित्वा तु देशे काले च शक्तितः । 029a
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ 029c
विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा । 030a
अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम् ॥ 030c
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । 031a
अर्चयेदतिथिं प्रीतः परत्र हितभूतये ॥ 031c
अतिथिं नावमन्येत नानृतां गिरमीरयेत् । 032a
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन ॥ 032c
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः । 033a
अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता ॥ 033c
पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान् । 034a
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर ॥ 034c
पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान् । 035a
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ 035c
कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने । 036a
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते ॥ 036c
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् । 037a
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ॥ 037c
अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम् । 038a
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः ॥ 038c
बलं बलवतो नश्येदन्नहीनस्य देहिनः । 039a
तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा ॥ 039c
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः । 040a
वायुस्तस्मात्समादाय रसं मेधेषु धारयेत् ॥ 040c
तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम् । 041a
तेन दिग्धा भवेद्देवी मही प्रीता च भारत ॥ 041c
तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः । 042a
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि ॥ KKa-14-03-108-042c
एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च । 043a
एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे ॥ 043c
भवनानि च दिव्यानि दिवि तेषां महात्मनाम् । 044a
नानासंस्थानि भूतानि नानाभूमिगतानि च ॥ 044c
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च । 045a
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ 045c
अनेकशतसङ्ख्यानि सान्तर्जलवनानि च । 046a
तत्र पुष्पफलोपेताः कामदाः सुरपादपाः ॥ 046c
वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः । 047a
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ 047c
क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः । 048a
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥ 048c
प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः । 049a
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत् ॥ ॥ 049c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टोत्तरशततमोऽध्यायः ॥ 108 ॥