अध्यायः 107
कृष्णेन युधिष्ठिरम्प्रति साक्षाद्ब्रह्महत्याया अकरणेपि तत्तुल्यफलकदुष्कृतकथनम् । 1 ॥ तथा अभोज्यान्नानां पापिनां लक्षणकथनम् ॥ 2 ॥
युधिष्ठिर उवाच । 001
इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः । 001a
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात् ॥ 001c
भगवानुवाच । 002
ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम् । 002a
ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम् ॥ 002c
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत । 003a
वृत्तिं हरति दुर्बुद्धइस्तमाहुर्ब्रह्मघातकम् ॥ 003c
आश्रमे वाऽऽलये वाऽपि ग्रामे वा नगरेऽपि वा । 004a
अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम् ॥ 004c
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप । 005a
उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम् ॥ 005c
यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम् । 006a
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम् ॥ 006c
चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा । 007a
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम् ॥ 007c
गुरुं त्वङ्कृत्यं हुङ्कृत्य अतिक्रम्य च शासनम् । 008a
वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम् ॥ 008c
क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा । 009a
ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम् ॥ 009c
यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः । 010a
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम् ॥ 010c
युधिष्ठिर उवाच । 011
सर्वेषामपि दानानां यत्तु दानं विशिष्यते । 011a
अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम ॥ 011c
भगवानुवाच । 012
अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः । 012a
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ 012c
अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः । 013a
अभोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे ॥ 013c
दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च । 014a
अभिशप्तस्य षण्डस्य पाकभेदकरस्य च ॥ 014c
चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः । 015a
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च ॥ 015c
द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम् । 016a
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा ॥ 016c
शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च । 017a
अम्बष्ठकनिषादानां रङ्गावतरकस्य च ॥ 017c
सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा । 018a
सूतानां शौण्डिकानां च वैद्यस्य रजकस्य च ॥ 018c
स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च । 019a
अनिर्दशानां प्रेतानां गणिकानां तथैव च ॥ 019c
बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि । 020a
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च ॥ 020c
यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा । 021a
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत् ॥ 021c
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । 022a
आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः ॥ 022c
गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम् । 023a
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः ॥ 023c
विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत् । 024a
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत् ॥ 024c
अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् । 025a
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः ॥ 025c
दानानां च फलं यद्वै शृणु पाण्डव तत्वतः । 026a
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः ॥ 026c
तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम् । 027a
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ॥ 027c
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् । 028a
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ॥ 028c
अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते । 029a
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥ 029c
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् । 030a
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ॥ 030c
हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु । 031a
योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च । 031c
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ॥ 031e
अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत् । 032a
नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥ 032c
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । 033a
आयुर्विप्रावमानेन दानं तु परिकीर्तनात् ॥ 033c
एकः प्रजायते जन्तुरेक एव प्रमीयते । 034a
एकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम् ॥ 034c
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ । 035a
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते ॥ 035c
अनागतानि कार्याणि कर्तुं गणयते मनः । 036a
शरीरकं समुद्दिश्य स्मयते नूनमन्तकः ॥ 036c
तस्माद्धर्मसहासस्तु धर्मं सञ्चिनुयात्सदा । 037a
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ 037c
येषां तटाकानि बहूदकानि सभाश्च कूपाश्च शुभाः प्रपाश्च । 038a
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्विषया भवन्ति ॥ ॥ 038c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥