अध्यायः 106

कृष्णेन युधिष्ठिरम्प्रति कपिलादानप्रशंसनम् ॥ 1 ॥ ब्रह्मणाऽग्निकुण्डमध्यात्कपिलासर्जनम् । तदा रुद्रादिदेवैः कपिलायै सर्वपूज्यत्वादिरूपवरदानम् ॥ 2 ॥ देवर्ष्यादिभइः स्वनिवासाय कपिलावयवसमाश्रयणम् ॥ 3 ॥ कृष्णेन हव्यकव्यदानकालकथनम् । तथा श्राद्धार्हानर्हब्राह्मणविवेचनम् । तथा स्वर्गनरकप्रापकसुकृतदुष्कृतकथनम् ॥ 4 ॥

वैशम्पायन उवाच । 001
एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम् । 001a
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥ 001c
देवदेवश कपिला यदा विप्राय दीयते । 002a
कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः ॥ 002c
याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम । 003a
तासां कति सुरश्रेष्ठ कपिलाः पुण्यलक्षणाः ॥ 003c
कथं वाऽनुगृहीतास्ताः सुरैः पितृगणैरपि । 004a
केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं हि मे ॥ 004c
वैशम्पायन उवाच । 005
युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा । 005a
गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे ॥ 005c
शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम् । 006a
ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिभिः ॥ 006c
यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह । 007a
दृश्येते दानकालं तत्तमाहुर्मुनिसत्तमाः ॥ 007c
अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति । 008a
गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी ॥ 008c
यावत्यः सिकताश्चापि गर्भोदकपरिप्लुताः । 009a यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर ।009c
तावद्वर्षसहस्राणि दाता स्वर्गे महीयते ॥ 009e
सुवर्णाभरणां कृत्वा सवत्सां कपिलां तिलैः । 010a
प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम् ॥ 010c
ससमुद्रा नदी तेन सशैलवनकानना । 011a
चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा ॥ 011c
पृथिवीदानतुल्येन तेन दानेन मानवः । 012a
संसारसागरात्तीर्णो याति लोकं प्रजापतेः ॥ 012c
ब्रह्महा भ्रूणहा गोघ्नो यदि वा गुरुतल्पगः । 013a
महापातकयुक्तोपि एतद्दानेन शुद्ध्यति ॥ 013c
इदं पठति यः पुण्यं कपिलादानमुत्तमम् । 014a
प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु ॥ 014c
मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर । 015a
पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः ॥ 015c
इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान् । 016a
तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः ॥ 016c
यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना । 017a
तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति ॥ 017c
याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव । 018a अतः परं विशेषं तु कपिलानां ब्रवीमि ते ।018c
तासां चतस्रः प्रवराः पुण्याः पापप्रणाशनाः ॥ 018e
सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला । 019a
पिङ्गलाक्षी च या गौश्च या स्यात्पिङ्गलपिङ्गला ॥ 019c
एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः । 020a
नमस्कृता वा दृष्टा वा घ्नन्ति पापं नरस्य तु ॥ 020c
यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः । 021a
तत्र श्रीर्विजयः कीर्तिः स्फीता नित्यं युधिष्ठिर ॥ 021c
एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः । 022a
दध्ना च त्रिदशाः सर्वे घृतेन तु हुताशनः ॥ 022c
पितरः पितामहाश्चैव तथैव प्रपितामहाः । 023a
सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर ॥ 023c
कपिलाया घृतं क्षीरं दधि पायसमेव वा । 024a
श्रोत्रियेभ्यः सकृद्दत्वा नरः पापैः प्रमुच्यते ॥ 024c
उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः । 025a
कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम् ॥ 025c
सौम्ये मुहूर्ते तत्प्रशय शुद्धात्मा शुद्धमानसः । 026a
क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना ॥ 026c
कपिलापञ्चगव्येन सुमन्त्रेण पृथक्पथक् । 027a
यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा । 027c
स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत् ॥ 027e
स मुक्तपापः शुद्धात्मा यानेनाम्बरशोभिना । 028a
मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा ॥ 028c
ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा । 029a
अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा ॥ 029c
सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि । 030a
सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वरैः ॥ 030c
सागराः सरितश्चैव पर्वताः सबलाहकाः । 031a
गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः ॥ 031c
सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम् । 032a
मन्त्रैश्च विविधैस्तां तु तुष्टुवुस्तामनेकशः ॥ 032c
कृताञ्जलिपुटाः सर्वे नातिशृङ्गीं त्रिलोचनाम् । 033a
मूर्ध्ना प्रणम्य तां भूमौ सवत्साममृतारणिम् ॥ 033c
ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम् । 034a
आज्ञापय महादेव किं ते कुर्मः कथं विभो ॥ 034c
एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत् । 035a
भवन्तोप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम् ॥ 035c
होमधेनुरियं ज्ञेया ह्यग्नीन्सन्तर्पयिष्यति । 036a
अतोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति ॥ 036c
प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः । 037a
जयिष्यथ यथाकामं दानवान्सर्व एव तु ॥ 037c
जातवीर्यबलैर्युक्ताः सत्ववन्तो जितेन्द्रियाः । 038a
असङ्ख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः ॥ 038c
पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः । 039a
पूजयिष्यन्ति वा नित्यं यज्ञैर्विविधदक्षिणैः ॥ 039c
एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना । 040a
ततः संहृष्टवदनाः कपिलायै वरं ददुः ॥ 040c
देवता ऊचुः । 041
यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता । 041a
तस्मात्पूता पवित्रा च भव पापव्यपोहिनी ॥ 041c
ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः । 042a
तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति ॥ 042c
अकामकृतमज्ञानमदृष्टं यच्च पातकम् । 043a
त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वसहेति च । 043c
तेषां तद्विलयं याति तमः सूर्योदये यथा ॥ 043e
भगवानुवाच । 044
इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् । 044a
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह ॥ 044c
विचरन्ति महीमेनां लोकानुग्रहकारणात् । 045a तस्यामेव समुद्भूता ह्येताश्च कपिला नव ।045c
तस्मात्तु कपिला देया परत्र हितमिच्छता ॥ 045e
यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे । 046a
तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति ॥ 046c
चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः । 047a
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः ॥ 047c
कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ । 048a
दन्तेषु मरुतो देवा जिह्वायां वाक्सरस्वती ॥ 048c
रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः । 049a
निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः ॥ 049c
नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च । 050a
अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ॥ 050c
साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता । 051a
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् ॥ 051c
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् । 052a
इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा ॥ 052c
नासिकायां सदा देवी ज्येष्ठा वसति भामिनी । 053a
श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता ॥ 053c
पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः । 054a
तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः ॥ 054c
जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः । 055a
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥ 055c
रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः ॥ 056a चत्वारः सागराः पूर्णास्तस्या एव पयोधराः ।056c
कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिश्च सन्ततिः । 057a
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा ॥ 057c
देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः । 058a
लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा ॥ 058c
देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः । 059a
वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा ॥ 059c
विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा । 060a
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः ॥ 060c
ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा । 061a
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते ॥ 061c
कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे । 062a
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् ॥ 062c
अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् । 063a
अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् । 063c
इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च ॥ 063e
तावद्देवगणाः सर्वे कपिलामर्चयन्ति च । 064a तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः ।064c
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् ॥ 064e
तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता । 065a वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता ।065c
भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् ॥ 065e
भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः । 066a
दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने ॥ 066c
अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव । 067a
तथा निन्दन्त्यथात्मानमशुभं किन्नु नः कृतं ॥ 067c
अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः । 068a
यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै ॥ 068c
एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः । 069a
दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥ 069c
युधिष्ठिर उवाच । 070
देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः । 070a
के तत्रि पूजामर्हन्ति वर्जनीयाश्च के द्विजाः ॥ 070c
भगवानुवाच । 071
दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम् । 071a
कालहीनं च यद्दानं तद्दानं राजसं विदुः ॥ 071c
अवघुष्टं च यद्भुक्तमनृतेन च भारत । 072a
परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः ॥ 072c
यावन्तः पतिता विप्रा जडोन्मत्तादयोपि च । 073a
दैवे च पित्र्ये ते विप्रा राजन्नार्हन्ति सत्क्रियां ॥ 073c
क्लीबः प्लङ्गी च कृष्ठी च राजयक्ष्मान्वितश्च यः । 074a
अपस्मारी च यश्चापि पित्र्ये नार्हति सत्कृतिम् ॥ 074c
चिकित्सका देवलका मिथ्यानियमधारिणः । 075a
सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ॥ 075c
एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः । 076a
चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम् ॥ 076c
गायका नर्तकाश्चैव प्लवका वादकास्तथा । 077a
कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम् ॥ 077c
अनग्नयश्च ये विप्राः शवनिर्यातकाश्च ये । 078a
स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम् ॥ 078c
अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः । 079a
पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ॥ 079c
रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः । 080a
प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम् ॥ 080c
चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः । 081a
सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः ॥ 081c
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा । 082a
दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत् ॥ 082c
चारित्रनिरता राजन्कृशा ये कृशवृत्तयः । 083a
अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् ॥ 083c
तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये । 084a
अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम् ॥ 084c
एवं धर्मभूतां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा । 085a
श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे ॥ 085c
दानं यत्ते प्रियं किञ्चिच्छ्रोत्रियाणां च यत्प्रियम् । 086a
तत्प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम् ॥ 086c
निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर ॥ 087ac
गुर्वर्थं वा भयार्थं वा नोचेदन्यत्र पाण्डव । 088a
वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः ॥ 088c
परदारापहर्तारः परदारामिमर्शकाः । 089a
परदारप्रयोक्तारस्तें वै निरयगामिनः ॥ 089c
सूचकाः सन्धिभेत्तारः परद्रव्योपजीविनः । 090a
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ 090c
वर्णाश्रमाणां ये बाह्याः पाषण्डाश्चैव पापिनः । 091a
उपासते च तानेव ते सर्वे नरकालयाः ॥ 091c
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । 092a
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ 092c
रसविक्रयिणो राजन्विषविक्रयिणश्च ये । 093a
क्षीरविक्रयिणश्चापि ते वै निरयगामिनः ॥ 093c
चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः । 094a
अर्थार्थमथवा स्नेहात्ते वै निरयगामिनः ॥ 094c
पुंस्त्वहिंसाकरश्चैव ते वै निरयगामिनः ॥ 095a पशूनां दमकाश्चैव तथा नासानुवेधकाः । 095c
अदातारः समर्था ये द्रव्याणां लोभकारणात् । 096a
दीनानन्धान्न पश्यन्ति ते वै निरयगामिनः ॥ 096c
क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सहोषितान् । 097a
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ 097c
बालानामपि वृद्धानां श्रान्तानां चापि ये नराः । 098a
अदत्त्वाऽश्नान्ति मृष्टान्नं ते वै निरयगामिनः ॥ 098c
एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः । 099a
ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर ॥ 099c
दानेन तपसा चैव सत्येन च दमेन च । 100a
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ 100c
शुश्रूषयाऽप्युपाध्यायाच्छ्रुतमादाय पाण्डव । 101a
ये प्रतिग्रहनिस्स्नेहास्ते नराः स्वर्गगामिनः ॥ 101c
मधुमांसासवेभ्यस्तु निवृत्ता व्रतवत्तु ये । 102a
परदारनिवृत्ता ये ते नराः स्वर्गगामिनः ॥ 102c
मातरं पितरं चैव शुश्रूषन्ति च ये नराः । 103a
भ्रहातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः ॥ 103c
ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः । 104a
द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः ॥ 104c
वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः । 105a
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः ॥ 105c
रसानामथ बीजानामोषधीनां तथैव च । 106a
दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः ॥ 106c
क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च । 107a
अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः ॥ 107c
पर्वद्वये चतुर्दश्यामष्टम्यां सन्ध्ययोर्द्वयोः । 108a
आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा । 108c
ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगाप्तिनः ॥ 108e
हव्यकव्यविधानं च नरकस्वर्गगामिनौ । 109a
धर्माधर्मौ च कथितौ किं भूयः श्रोतुमिच्छसि ॥ ॥ 109c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥