अध्यायः 105
कृष्णेन युधिष्ठिरम्प्रति दशधा कपिलाविभागकथनपूर्वकं तद्दानप्रशंसनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
दानपुण्यफलं श्रुत्वा तपःपुण्यफलानि च । 001a
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥ 001c
या चैषा कपिला देव पूर्वमुत्पादिता विभो । 002a
होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव ॥ 002c
सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा । 003a
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ॥ 003c
कथिता कपिला प्रोक्ता स्वयमेव स्वयम्भुवा । 004a
कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्वतः ॥ 004c
वैशम्पायन उवाच । 005
एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि । 005a
अब्रवीत्कपिलासङ्क्यां तासां माहात्म्यमेव च ॥ 005c
शृणु पाण्डव तत्वेन पवित्रं पावनं परम् । 006a
यच्छ्रुत्वा पापकर्मा पि नरः पापात्प्रमुच्यते ॥ 006c
अग्निमद्योद्भवां दिव्यामग्निज्वालासमप्रभाम् । 007a
अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम् ॥ 007c
अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम् । 008a
तामग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम् ॥ 008c
भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः । 009a
पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते ॥ 009c
न तेषां ब्राह्ममः कश्चिद्गृहे कुर्यात्प्रतिग्रहम् । 010a
दूराच्च परिहर्तव्या महापातकिनोपि ते ॥ 010c
सार्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः । 011a
ते सदा ह्यप्रतिग्राह्या ह्यसम्भाष्याश्च पापिनः ॥ 011c
पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः । 012a
अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत् ॥ 012c
कपिलाया दधि क्षीरं घृतं तक्रमथापि वा । 013a
ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु ॥ 013c
कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् । 014a
क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन् ॥ 014c
ततश्चापि च्युतः कालाच्छ्वानयोनिं स गच्छति । 015a
श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः ॥ 015c
विष्ठाकूपेषु पापिष्ठो दुर्गन्धेषु सहस्रशः । 016a
तत्रतत्रोपजायेत नोत्तारं तत्रथ विन्दति ॥ 016c
ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम् । 017a
ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः ॥ 017c
न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत् । 018a
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः ॥ 018c
यस्तेन सह सम्भाषेदेकशय्यां व्रजेत् वा । 019a
प्राजापत्यं चरेत्कृच्छ्रं स च तेन विशुद्ध्यति ॥ 019c
कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम् । 020a
प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः ॥ 020c
ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा । 021a
मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः ॥ 021c
कपिला ह्यग्निहोत्रार्थे विप्रार्थे वा स्वयम्भुवा । 022a
सर्वं तेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा ॥ 022c
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । 023a
पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन ॥ 023c
तपसा तप एवाग्र्यं व्रातनामुत्तमं व्रतम् । 024a
दानानां परमं दानं निदानं ह्येतदक्षयम् ॥ 024c
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । 025a
पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव ॥ 025c
एभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा ॥ 026a
लोकनिस्तरणायैव निर्मिताः कपिलाः स्वयम् ॥ 026c
सर्वतेजोमयी ह्येषा कपिला पाण्डुनन्दन । 027a
सदाऽमृतमयी मेध्या शुचिः पावनमुत्तमम् ॥ 027c
क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा । 028a
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ॥ 028c
कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः । 029a
जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो ॥ 029c
पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः । 030a
शूद्रान्नाद्विरता नित्यं डम्भानृतविवर्जिताः ॥ 030c
ते यान्त्यादित्यसङ्काशैर्विमानैर्द्विजसत्तमाः । 031a
सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम् ॥ 031c
ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः । 032a
ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम् ॥ 032c
एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः । 033a
आदावेवाग्निमध्ये तु मैत्रेयी ब्रह्मनिर्मिता ॥ 033c
शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव । 034a
ब्रह्मणो हि नियोगेन निवसन्ति दिनेदिने ॥ 034c
प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात् । 035a
यश्च्युतामम्बुधारां वै शिरसा प्रयतः शुचिः ॥ 035c
स तेन पुण्यतीर्थेन सहसा हतकिल्विषः । 036a
जन्मत्रयकृतं पापं प्रदहत्यग्निवतृणम् ॥ 036c
स्नानेन तेन पुण्येन नष्टपापः स मानवः । 037a मूत्रेण कपिलायास्तु यश्च प्राणानुपस्पृशेत् ।037c
त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः ॥ 037e
प्रातरुत्थाय यो भक्तया प्रयच्छेत्तृणमुष्टिकम् । 038a
तस्य नश्यति तत्पापं त्रिंशद्रात्रकृतं नृप ॥ 038c
प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्मात्प्रदक्षिणम् । 039a
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥ 039c
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव । 040a
दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम् ॥ 040c
कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः । 041a
स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव ॥ 041c
तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पार्थिव । 042a
दशरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ 042c
दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्वनम् । 043a
व्यपोहति नरः पापमहोरात्रकृतं नृप ॥ 043c
यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः । 044a
संवत्सरकृतं पापं विनाशयति पाण्डव ॥ 044c
गोसहस्रं तु यो दद्यादेकां च कपिलां नरः । 045a
समं तस्य फलं प्राह ब्रह्मा लोकपितामहः ॥ 045c
यस्त्वेवं कपिलां हन्यान्नरः कश्चित्प्रमादतः । 046a
गोसहस्रं हतं तेन भवेन्नात्र विचारणा ॥ 046c
यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये । 047a
गवां शतसहस्रं तु दत्तं भवति पाण्डव ॥ 047c
दश वै कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा । 048a
यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु ॥ 048c
प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला । 049a
तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला ॥ 049c
पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला । 050a
सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला ॥ 050c
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला । 051a
दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा ॥ 051c
मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः । 052a
एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर ॥ 052c
ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथञ्चन । 053a
न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः ॥ 053c
वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया । 054a
न दण्डेन न वा यष्ट्या न पाशेन न वा पुनः ॥ 054c
न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान् । 055a
अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम् ॥ 055c
शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः । 056a
अह्नां पूर्वत्र भागे च धुर्याणां वाहनं स्मृतम् ॥ 056c
विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम् । 057a
यत्र च त्वरया कृत्यं संशयो यत्र वाऽध्वनि । 057c
वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते ॥ 057e
भ्रूणहत्यासमं पापं तस्य स्यात्पाण्डुनन्दन । 058a
अन्यथा वाहयन्राजन्निरयं याति रौरवम् ॥ 058c
रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप । 059a
तेन पापेन पापात्मा नरकं यात्यसंशयम् ॥ 059c
नरकेषु च सर्वेषु समाः स्थित्वा शतंशतम् । 060a
इह मानुष्यके लोके बलीवर्दो भविष्यति ॥ 060c
तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः ॥ 061ac
कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः । 062a
तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः ॥ 062c
स देवैः पितृभिर्नित्यं वध्यमानस्तु दुर्मतिः । 063a
नरकान्नरकं घोरं गच्छेदाप्रलयं नृप ॥ 063c
तस्मात्ते न निहन्तव्याः पूज्याश्चैव न संशयः । 064a ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः ।064c
निःश्वसन्ति यदा श्रान्तास्तदा हन्युस्च तत्कुलं ॥ 064e
यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप । 065a
नरकेषूपपच्यन्ते तत्र तद्वाहका नराः ॥ 065c
कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते । 066a
तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः ॥ 066c
श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे । 067a होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः ।067c
तेन दानेन पूतात्मा मम लोके महीयते ॥ 067e
यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर । 068a
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ 068c
सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति । 069a
विषुवे चायने चापि सोऽश्वमेधफलं लभेत् । 069c
तेनाश्वमेधतुल्येन मम लोकं स गच्छति ॥ 069e
स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम् । 070a
वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम् ॥ 070c
पवित्रं हि पवित्राणां सुवर्णमिति मे मतिः । 071a
तस्मात्सुवर्णाभरणा दातव्या साऽग्निहोत्रिणे ॥ 071c
एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि । 072a
तारयिष्यति राजेन्द्र नात्र कार्या विचारणा ॥ 072c
वाजपेयसहस्रस्य अश्वमेधं च तत्समम् । 073a अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम् ।073c
अश्वमेधसहस्रस्य राजसूयं च तत्समम् ॥ 073e
राजसूयफलं प्राप्य मम लोके महीयते । 074a कपिलानां सहस्रेण विधिदत्तेन पाण्डव ।074c
न तस्य पुनरावृत्तिर्विद्यते कुरुपुङ्गव ॥ 074e
प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम् । 075a
सुवर्णखुरशृङ्गाङ्गीं सर्वालङ्कारशोभिताम् ॥ 075c
तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः । 076a
स्वकर्मभिश्चाप्यनुबध्यमानं तीव्रान्धकारे नरके पतन्तम् । 076c
महार्णवे नौरिव वायुनीता दत्ता हि गौस्तारयते मनुष्यम् ॥ 076e
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते यथावत् । 077a
यावन्मनुष्यान्पृथिवी बिभर्ति तावत्प्रदातारमृतं परत्र ॥ 077c
यथौषधं मन्त्रकृतं नरस्य प्रयुक्तमात्रं विनिहन्ति रोगान् । 078a
तथैव दत्ता कपिला सुपात्रे पापं नरस्याशु निहन्ति सर्वम् ॥ 078c
यथैव दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति दूराद्विवशा भयार्ताः । 079a
तथैव दृष्ट्वा कपिलाप्रदानान्नश्यन्ति पापानि नरस्य शीघ्रम् ॥ 079c
यथा त्वचं वै भुजगो विहाय पुनर्नवं रूपमुपैति पुण्यम् । 080a
तथैव मुक्तः पुरुषः स्वपापैर्विरज्यते वै कपिलाप्रदानात् ॥ 080c
यथाऽन्धकारं भवने विलग्नं दीप्तो हि निर्यातयति प्रदीपः । 081a
तथा नरः पापमपि प्रलीनं निष्क्रामयेद्वै कपिलाप्रदानात् ॥ 081c
यावन्ति रोमाणि भवन्ति तस्या वत्सान्वितायाश्च शरीरजानि । 082a
तावत्प्रदाता युगवर्षकोटिं स ब्रह्मलोके रमते मनुष्यः ॥ 082c
यस्याहिताग्नेरतिथिप्रियस्य शूद्रान्नदूरस्य जितेन्द्रियस्य । 083a
सत्यव्रतस्याध्ययनान्वितस्य दत्ता हि गौस्तारयते परत्र ॥ ॥ 083c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥