अध्यायः 104
कृष्णेन युधिष्ठिरम्प्रति पञ्चमहायज्ञनिरूपणं, स्नानविधिनिरूपणं, वैष्णवलक्षणाभिधानं स्वपूजायोग्ययोग्यपुष्पविवेचनं च ॥ 1 ॥
युधिष्ठिर उवाच । 001
विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः । 001a
अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी ॥ 001c
भगवानुवाच । 002
शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः । 002a
न तु सर्वस्य भूतस्य पञ्चत्वं विद्यते नृप ॥ 002c
पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम् । 003a
तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तम ॥ 003c
पञ्चत्वं पञ्चभिर्भूतैर्वियोगं सम्प्रचक्षते । 004a
न जायते न म्रियते पुरुषः शाश्वतः सदा ॥ 004c
प्रायेण मरणं नाम पापिनामेव पाण्डव । 005a
येषां तु न गतिः पुण्या तेषां मरणमुच्यते ॥ 005c
प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः । 006a
कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥ 006c
युधिष्ठिर उवाच । 007
पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः । 007a
तेषां नाम च देवेश वक्तुमर्हस्यशेषतः ॥ 007c
श्रीभगवानुवाच । 008
शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर । 008a
यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना ॥ 008c
ऋभुयज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव । 009a
नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते ॥ 009c
तर्पणं ऋभुयज्ञः स्यात्स्वाध्यायो ब्रह्मयज्ञकः । 010a
भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम् । 010c
पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः ॥ 010e
हुतं चाप्यहुतं चैव तथा प्रहुतमेव च । 011a
प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते ॥ 011c
वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः । 012a
अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् ॥ 012c
प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः । 013a
बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः ॥ 013c
केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते । 014a
अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः ॥ 014c
सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः । 015a
बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत् ॥ 015c
अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् । 016a
केवलं मलमश्नन्ति ते नार न च संशयः ॥ 016c
तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिनेदिने । 017a
अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्ती भवेद्द्विजः ॥ 017c
युधिष्टिर उवाच । 018
देवदेवेश दैत्यघ्न त्वद्भक्तस्य जनार्दन । 018a
वक्तुमर्हसि देवेश स्नानस्य च विधिं मम ॥ 018c
भगवानुवाच । 019
शृणु पाण्डव तत्सर्व पवित्रं पापनाशनम् । 019a
स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः ॥ 019c
मृदं च गोमयं चैव तिलं दर्भांस्तथैव च । 020a
पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत् ॥ 020c
नद्यां स्नात्वा न च स्नायदन्यत्र द्विजसत्तम । 021a
सति प्रभूते पयसि नाल्पे स्नायात्कदाचन ॥ 021c
गत्वोदकसमीपं तु शुचौ देशे मनोरमे । 022a
ततो मृद्गोमयादीनि तत्र विप्रो विनिक्षिपेत् ॥ 022c
बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः । 023a
प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम् ॥ 023c
न च प्रक्षालयेद्विद्वांस्तीर्थमद्भिः कदाचन । 024a
न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम् ॥ 024c
सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन । 025a
तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलं ॥ 025c
केवलं प्रथमं मज्जेन्नाङ्गानि विमृशेद्बुधः । 026a
तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः ॥ 026c
गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम् । 027a
द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः । 027c
शीर्षण्यांस्तु ततः प्राणान्सकृदेवतु संस्पृशेन ॥ 027e
बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च । 028a
प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत् ॥ 028c
आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत् । 029a
सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम् ॥ 029c
आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत् । 030a
ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम् । 030c
आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः ॥ 030e
स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु । 031a
मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम् ॥ 031c
गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत् । 032a
सव्याहृतीकां सप्रणवां गायत्रीं च जपेत्पुनः ॥ 032c
पुनराचमनं कृत्वा मद्गतेनान्तरात्मना । 033a
आपोहिष्ठेति तिसृभिर्ऋग्भिः पूतेन वारिणा । 033c
तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात् ॥ 033e
गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेणि चात्मनः । 034a
वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः ॥ 034c
वामदैव्येन चात्मानमन्यैर्मन्मयसामभिः । 035a
स्थित्वाऽन्तःसलिले सूक्तं जपेद्वाचाऽघमर्षणं ॥ 035c
सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत् । 036a
आश्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन् ॥ 036c
उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी । 037a
शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके ॥ 037c
पाशेन बद्ध्वा कक्षे यत्कुरुते कर्म वैदिकम् । 038a
राक्षसा दानवा दैत्यास्तद्विलुम्पन्ति हर्षिताः । 038c
तस्मत्सर्वप्रयत्नेन कक्ष्यापाशं न धारयेत् ॥ 038e
ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः । 039a
आचम्य पुनराचामेत्पुनः सावित्रिया द्विजः ॥ 039c
प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः । 040a
जले जलगतः शुद्धः स्थल एव स्थलस्थितः । 040c
उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये ॥ 040e
दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः । 041a
प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना ॥ 041c
सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् ॥ 042ac
समाहितो जपेत्तस्मात्सावित्र्या चाभिमन्त्र्य च । 043a
मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम् ॥ 043c
उद्वर्गोसीत्यथा चान्तःप्रायश्चित्तजलं क्षिपेत् ॥ 044ac
अथादाय सुपुष्पाणि तोयमञ्जलिना द्विजः । 045a
प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत् ॥ 045c
ततो द्वादशकृत्वस्तु सूर्यस्येकाक्षरं जपेत् । 046a
ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत् ॥ 046c
प्रदक्षिणं परामृश्य मुद्रया स्वमुखान्तरे । 047a
ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः ॥ 047c
तन्मण्डलस्थं मां ध्यायंस्तोजोमूर्तिं चतुर्भुजम् । 048a
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ॥ 048c
सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम् । 049a
मन्मयानि च सामानि पुरुषव्रतमेव च ॥ 049c
ततश्चालोकयेदर्कं हंसः शुचिषदित्यपि । 050a
प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् ॥ 050c
ततस्तु तर्पयेदद्भिर्ब्रह्माणं मां च शङ्करम् । 051a
प्रजापतिं च देवांश्च तथा देवमुनीनपि ॥ 051c
साङ्गानपि तथा वेदानितिहासान्क्रतूनपि । 052a
पुराणानि च सर्वाणि कुलान्यप्सरसां तथा ॥ 052c
क्रतून्संवत्सरं चैव कलाकाष्ठात्मकं तथा । 053a
भूतग्रामांश्च भूतानि सरितः सागरांस्तथा । 053c
शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः ॥ 053e
तर्पयेदुपवीती च प्रत्येकं तृप्यतामिति । 054a
अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु ॥ 054c
निवीती तर्पयेद्विद्वानृषीन्मन्त्रकृतस्तथा । 055a
मरीच्यादीनृषींश्चैव नारदाद्यान्समाहितः ॥ 055c
प्राचीनावीत्यथैतास्तु तर्पयेद्देवताः पितॄत् । 056a
ततस्तु कव्यवाडग्निं सों वैवस्वतं तथा ॥ 056c
ततश्चार्यमणं चापि ह्यग्निष्वात्तांस्तथैव च । 057a
सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः । 057c
तृप्यतामिति पश्चात्तु स पितॄंस्तर्पयेत्ततः ॥ 057e
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् । 058a
पितामहीस्तता चापि तथैव प्रपितामहीः ॥ 058c
मातरं चात्मनश्चैव गुरुमाचार्यमेव च । 059a
पितृमातृष्वसारौ च तथा मातामहीमपि ॥ 059c
उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिबान्धवान् । 060a
प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः ॥ 060c
तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत् । 061a
वृत्तिं भृत्यजनस्याहुः स्नानं पानं च तद्विदः ॥ 061c
अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत् । 062a
पीडयेच्चेत्पुरा मोहाद्देवाः सर्पिगणास्तथा । 062c
पितरस्तु निराशास्ते शप्त्वा यान्ति यथागतं ॥ 062e
प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः । 063a
दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत् ॥ 063c
वेदमादौ समारभ्य ततोपर्युपरि क्रमात् । 064a
यदधीतेऽन्वहं शक्त्या तत्स्वाध्यायं प्रचक्षते ॥ 064c
ऋचो वाऽपि यजुर्वाऽपि सामगायमथापि च । 065a
इतिहासपुराणानि यथाशक्ति न हापयेत् ॥ 065c
उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि । 066a
ब्रह्माणं च ततश्चाग्निं पृथिवीमोषधीस्तथा ॥ 066c
वाचं वाचस्पतिं चैव मां चैव सरितस्तथा । 067a
नमस्कृत्य तथाऽद्भिस्तु प्रणवादि च पूर्ववत् ॥ 067c
ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम् । 068a
घृणिः सूर्यस्तथाऽऽदित्यस्तं प्रणम्य स्वमूर्धनि ॥ 068c
ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः । 069a
ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः ॥ 069c
युधिष्ठिर उवाच । 070
त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव । 070a
सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत ॥ 070c
भगवानुवाच । 071
शृणुष्वावहितो राजन्पुष्पाणि प्रियकृन्ति मे । 071a
कुमुदं करवीरं च चणकं चम्पकं तथा ॥ 071c
मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम् । 072a
पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च ॥ 072c
वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः । 073a
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् ॥ 073c
तस्मात्पद्मं तथा राजन्पद्मात्तु सतपत्रकम् । 074a
तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम् ॥ 074c
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका । 075a
बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम् । 075c
सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव ॥ 075e
पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेत्पुनः । 076a
पत्रालाभे तु शाखाभिः शाखालाभे शिफालवैः । 076c
शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम् ॥ 076e
वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः । 077a
किङ्किणी मुनिपुष्पं च धुर्धूरं पाटलं तथा ॥ 077c
तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम् । 078a
यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा ॥ 078c
कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च । 079a
ककुभाः कोविदाराश्च वैभीतकमथापि च ॥ 079c
कुरण्टकप्रसूनं च कल्पकं कालकं तथा । 080a
अङ्कोलं गिरिकर्णी च नीलान्येव च सर्वशः । 080c
एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत् ॥ 080e
अर्कपुष्पाणि वर्ज्यानि अर्कपत्रस्थितानि च । 081a
व्याघृताः पिचुमन्दानि सर्वाण्येव विवर्जयेत् ॥ 081c
अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप । 082a
अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत् ॥ 082c
युधिष्ठिर उवाच । 083
कथं त्वमर्चनीयोसि मूर्तयः कीदृशास्तु ते । 083a
वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः ॥ 083c
भगवानुवाच । 084
शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः । 084a
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥ 084c
अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः । 085a
वैदिकैरथ मन्त्रैश्च मम सूक्तेन वा पुनः ॥ 085c
स्थापितं मां ततस्तस्मिन्नर्ययित्वा विचक्षणः । 086a
पुरुषं च ततः सत्यमत्युतं च युधिष्टिर ॥ 086c
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः । 087a
अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः । 087c
वासुदेवं च राजेन्द्र सङ्कर्षणमथापि वा । 088a
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥ 088c
एताश्चान्याश्च राजेन्द्र सञ्ज्ञाभेदेन मूर्तयः । 089a
विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्बुधः ॥ 089c
युधिष्ठिर उवाच । 090
त्वद्भक्ताः कीदृशा देव कानि तेषां व्रतानि च । 090a
एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत ॥ 090c
भगवानुवाच । 091
अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः । 091a
मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः ॥ 091c
स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः । 092a
मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत् ॥ 092c
नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे । 093a
स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत् ॥ 093c
प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम् । 094a
न धावेत्पतिते वर्षे नाग्नभिक्षां च लोपयेत् ॥ 094c
प्रत्यक्षलवणं नाद्यत्सौभाञ्जनकरञ्जनौ । 095a
ग्रासमुष्टिं गवे दद्याद्धान्याम्लं चैव वर्जयेत् ॥ 095c
तथा पर्युषितं चापि पक्वं परगृहागतम् । 096a
अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत् ॥ 096c
विभितककरञ्जानां छायां दूरे विवर्जयेत् । 097a
पिप्रदेवपरीवादान्न वदेत्पीडितोपि सन् ॥ 097c
सात्विका राजसाश्चापि तामसाश्चापि पाण्डव । 098a
मामर्चयन्ति मद्भक्तास्तेषामीदृग्विदा गतिः ॥ 098c
तामसास्तिमिरं यान्ति राजसा रज एव तत् । 099a
सात्विकाः सत्वसम्पन्नाः सत्वमेव प्रयान्ति ते ॥ 099c
ये सिद्धाः सन्ति साङ्ख्येन योगसत्वबलेन च । 100a
नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् ॥ 100c
एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चसाक्षिके । 101a
एतस्मिन्देहनगरे राजसस्तु सदा भवेत् ॥ 101c
उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः । 102a
चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः ॥ 102c
क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः । 103a
नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः ॥ 103c
कामः क्रोधश्च लोभश्च मोहश्च मद एव च । 104a
महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः ॥ 104c
गर्वः स्तम्भो ह्यहङ्कार ईर्ष्या च द्रोह एव च । 105a
पारुष्यं क्रूरता चैव सप्तैत क्षत्रियाः स्मृताः ॥ 105c
तीक्ष्णता निकृतिर्माया शाठ्यं डम्भो ह्यनार्जवम् । 106a
पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः ॥ 106c
तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणादयः । 107a
आधिश्चापि विषादश्च प्रमादो हीनसत्वता ॥ 107c
भयं विक्लबता जाड्यं पापकं मन्युरेव च । 108a
आशा चाश्रद्दधानत्वमनवस्थाप्यमन्त्रणम् ॥ 108c
आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः । 109a
यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते ॥ 109c
येषुयेषु हि भावेषु यत्कालं वर्तते द्विजः । 110a
तत्कालं वै स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः ॥ 110c
प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत् । 111a
तत्कालो वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः ॥ 111c
तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः । 112a
मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति ॥ 112c
अलोलजिह्वः समुपस्थितो धृतिं निधाय चक्षुर्युगमात्रमेव तत् । 113a
मनश्च वाचं च निगृह्य चञ्चलं भयान्निवृत्तो मम भक्त उच्यते ॥ 113c
ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः । 114a
तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः ॥ 114c
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । 115a
क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत् ॥ ॥ 115c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥