अध्यायः 103
कृष्णेन युधिष्ठिरम्प्रति वृषभगृहशय्यादिदानप्रशंसनम् ॥ 1 ॥ तथा गोब्राह्मणरक्षणादिनानाधर्मकथनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
वासुदेवेन दानेषु कथितेषु यथाक्रमम् । 001a
अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत् ॥ 001c
देव धर्मामृतमिदं शृण्वतोपि परन्तप । 002a
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव ॥ 002c
अनडुत्सम्प्रदानस्य यत्फलं तु विधीयते । 003a
तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत ॥ 003c
यानिचान्यानिदानानित्वया नोक्तानि कानिचित् । 004a
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम् ॥ 004c
भगवानुवाच । 005
पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च । 005a
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम् ॥ 005c
दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव । 006a
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः ॥ 006c
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः । 007a
धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव ॥ 007c
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर । 008a
यथाकामं महातेजा गवां लोके महीयते ॥ 008c
यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरन्धरौ । 009a
सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः । 009c
तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर ॥ 009e
सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम् । 010a
तत्पुण्यफलमाप्नोति याति लोकान्स मामकान् ॥ 010c
यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप । 011a
तावद्वर्षसहस्राणि मम लोके महीयते ॥ 011c
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव । 012a
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु ॥ 012c
यस्तु दद्यादनडुहं दरिद्राय द्विजातये । 013a
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव ॥ 013c
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम् । 014a
मम लोकेषु रमते यावदाभूतसम्प्लुवम् ॥ 014c
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् । 015a
भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम् । 015c
दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः ॥ 015e
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर । 016a
दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु ॥ 016c
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा । 017a
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम् ॥ 017c
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम् । 018a
स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने । 018c
मोदते ब्रह्मलोकस्थो यावदाभूतसम्प्लवम् ॥ 018e
शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव । 019a
अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः । 019c
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु ॥ 019e
धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव । 020a
तत्पुण्यं तमनुप्राप्य पितृलोके महीयते ॥ 020c
शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च । 021a
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥ 021c
आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम् । 022a
तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्छति ॥ 022c
छन्दोभिः सम्प्रयुक्तेन विमानेन विराजता । 023a
सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः ॥ 023c
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् । 024a
इह मानुष्यके लोके विप्रो भवति वेदवित् ॥ 024c
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् । 025a
विनश्यति तदा पापं तस्य वर्षकृतं नृप ॥ 025c
अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् । 026a
दशवर्षकृतं पापं व्यपोहति न संशयः ॥ 026c
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत् । 027a
तद्द्वादसमारूढं पापमाशु व्यपोहति ॥ 027c
धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम् । 028a
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत् ॥ 028c
स्वागतेन तु यो विप्रं पूजयेदासनेन च । 029a
प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत् ॥ 029c
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः । 030a
प्रत्युत्थानेन पितरः प्रीतिं यान्त्यतिथिप्रियाः ॥ 030c
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप । 031a
संवत्सरकृतं पापं तस्य सद्यो विनश्यति ॥ 031c
यः प्रयच्छति विप्राय आसनं माल्यभूषितम् । 032a
स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् ॥ 032c
पुरन्दरासने तत्र दिव्यनारीविभूषितः । 033a
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः ॥ 033c
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर । 034a
स याति रत्नचित्रेण वाहनेन सुरालयम् ॥ 034c
स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः । 035a
इह राजा भवेद्राजन्नात्र कार्या विचारणा ॥ 035c
पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा । 036a
गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम् ॥ 036c
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम् । 037a
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु ॥ 037c
जाम्बूनदविचित्रेण विमानेन विराजता । 038a
पुरन्दरपुरं याति जयशब्दरवैर्युतः ॥ 038c
ततः शक्रपुरे रम्ये तस्य कल्पकपादपः । 039a
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति ॥ 039c
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च । 040a
तावद्वर्षसहस्राणि शक्रलोके महीयते ॥ 040c
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः । 041a
रथाश्वगजसम्पूर्णं पुरं राज्यं च वक्ष्यति ॥ 041c
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृतिं नरः । 042a
आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत् । 042c
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु ॥ 042e
अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम् । 043a
तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते । 043c
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर ॥ 043e
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा । 044a
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु ॥ 044c
आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम् । 045a
गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः ॥ 045c
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः । 046a
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः ॥ 046c
देवालयेषु वा राजन्ब्राह्मणावसथेषु वा । 047a
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा ॥ 047c
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च । 048a
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना ॥ 048c
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः । 049a
सुप्रीताः सम्प्रयच्छन्ति विमानं कामगं सुखम् ॥ 049c
स च तेन पिमानेन याति देवपुरं नरः । 050a
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते ॥ 050c
देवलोकावतीर्णस्तु सोस्मिल्ँलोके नराधिप । 051a
वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ 051c
चत्वरे वा सभायां वा विस्तीर्णे वा सभाङ्गणे । 052a
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर ॥ 052c
तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम् । 053a
समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान् ॥ 053c
भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना । 054a
दक्षिणां च यथाशक्ति ब्राह्मणेभ्यो निवेदयत् ॥ 054c
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम् । 055a
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ॥ 055c
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा । 056a
यास्यामः परमां प्रीतिं नात्र कार्याविचारणा ॥ 056c
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । 057a
सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते ॥ 057c
मम लोकावतीर्णश्च अस्मिल्ँलोके महायशाः । 058a
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः ॥ 058c
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु । 059a
श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः । 059c
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ॥ 059e
गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् । 060a
तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव ॥ 060c
काञ्चनेन विचित्रेण विमानेनार्कशोभिना । 061a
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः ॥ 061c
गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम् । 062a
क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः । 062c
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत् ॥ 062e
करकां कर्णिकां वाऽपि महद्वा जलभाजनम् । 063a
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥ 063c
ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप । 064a
तत्पुण्यफलमाप्नोति जलभाजनदो नरः । 064c
सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः ॥ 064e
हंससारसयुक्तेन विमानेन विराजता । 065a
स याति वारुणं लोकं दिव्यगन्धर्वसेवितम् ॥ 065c
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम् । 066a
ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु ॥ 066c
कपिलाकोटिदानस्य यत्पुण्यं तु विधीयते । 067a
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति ॥ 067c
पूर्णचन्द्रप्रकाशेन विमानेन विराजता । 068a
स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः ॥ 068c
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः । 069a
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत् ॥ 069c
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः । 070a
सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः ॥ 070c
वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः । 071a
सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः ॥ 071c
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः । 072a
स याति रथमुख्येन काञ्चनेन विराजता । 072c
शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः ॥ 072e
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः । 073a
धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः ॥ 073c
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः । 074a
सुगन्धवदनः श्रीमान्मेधासौभाग्यसंयुतः ॥ 074c
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा । 075a
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः ॥ 075c
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः । 076a
उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः ॥ 076c
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम् । 077a
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः ॥ 077c
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः । 078a
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः ॥ 078c
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन । 079a
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः ॥ 079c
अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान् । 080a
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु ॥ 080c
गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन । 081a
तत्पुण्यं समनुप्राप्तो यमलोके महीयते । 081c
ततश्चापि च्युतः कालादिह राजा भविष्यति ॥ 081e
तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम् । 082a
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये ॥ 082c
ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम् । 083a
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः ॥ 083c
ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः । 084a
भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः ॥ 084c
अनन्तराशी यश्चापि वर्तते व्रतवत्सदा । 085a
सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा । 085c
स विमानेन दिव्येन याति शक्रपुरं नरः ॥ 085e
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः । 086a
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः ॥ 086c
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते । 087a
ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः । 087c
स विमानेन दिव्येन याति शक्रपुरं नरः ॥ 087e
दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः । 088a
इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत् ॥ 088c
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः । 089a
वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु ॥ 089c
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना । 090a
याति यानेन दिव्येन स महेन्द्रपुरं नरः ॥ 090c
अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम् । 091a
ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते ॥ 091c
शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप । 092a
भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः ॥ 092c
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः । 093a
ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः । 093c
तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम् ॥ 093e
अत्यादित्यप्रकाशेन विमानेनार्कसन्निभः । 094a
स याति मम लोकान्वै दिव्यनारीनिषेवितः ॥ 094c
तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम् । 095a
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः ॥ 095c
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना । 096a
समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान् ॥ 096c
सोपि गच्छति दिव्येन विमानेन महातपाः । 097a
द्योतयनप्रभया व्योम मम लोकं प्रपद्यते । 097c
स तत्र मोदते कामं कामरूपी यथासुखम् ॥ 097e
त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत् । 098a
इह मानुष्यके लोके पूजनीयो द्विजो भवेत् । 098c
त्रयाणामपि वेदानां साङ्गानां पारगे भवेत् ॥ 098e
यश्च मासोपवासं वै कुरुते मद्गतात्मना । 099a
जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः ॥ 099c
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् । 100a
दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना ॥ 100c
स गच्छति महातेजा ब्रह्मलोकमनुत्तमम् । 101a
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः ॥ 101c
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः । 102a
शतकोटिसमा राजन्यथाकामं प्रमोदते ॥ 102c
ततः कालावतीर्णश्च सोस्मिल्ँलोके द्विजो भवेत् । 103a
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान् ॥ 103c
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः । 104a
महाप्रस्तानमेकाग्नो याति मद्गतमानसः ॥ 104c
स गच्छेदिन्द्रसदनं विमानेन महातपाः । 105a
महामणिविचित्रेण सौवर्णेन विराजता ॥ 105c
शतकोटिसमास्तत्र सुराधिपतिपूजितः । 106a
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः ॥ 106c
शक्रलोकावतीर्णश्च मानुषेषूपजायते । 107a
राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः ॥ 107c
प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना । 108a
नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः । 108c
अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु ॥ 109a
कामगः कामरूपी च बालसूर्यसमप्रभः । 109c
स विमानेन दिव्येन याति लोकाननामयान् ॥ 109e
स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम् । 110a
मम लोकेषु रमते यावदाभूतसम्प्लवम् ॥ 110c
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना । 111a
सोपि यानेन दिव्येन मम लोकं प्रपद्यते ॥ 111c
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा । 112a
त्रिंशत्कोटिसमा राजन्मोदते मम सन्निधौ । 112c
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत् ॥ 112e
कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः । 113a
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन् ॥ 113c
बालसूर्यप्रकाशेन विमानेन विराजता । 114a
मम लोकं समासाद्य वर्षकोटिं प्रमोदते । 114c
मम लोकावतीर्णश्च सोस्मिल्ँलोके नृपो भवेत् ॥ 114e
निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः । 115a
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः ॥ 115c
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः । 116a
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः ॥ 116c
प्रविशेत्स महातेजा मां वा शङ्करमेव वा । 117a
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा ॥ 117c
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा । 118a
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते ॥ 118c
तत्र जाम्बूनदमये विमाने कामगामिनि । 119a
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः ॥ 119c
आश्रुतस्याप्रादनेन दत्तस्य हरणेन च । 120a
जन्मप्रभृति यद्दत्तं तत्सर्वं तु विनश्यति ॥ 120c
नाऽगोप्रदास्तत्र पयः पिबन्ति नाभूमिदा भूमिमथाश्रुवन्ति । 121a
यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामान्स्वर्गलोके च भुङ्क्ते ॥ 121c
यद्यदिष्टतमं द्रव्यं न्यायनोपार्जितं च यत् । 122a
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ 122c
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । 123a
अदत्त्वा काञ्चनं गां दरिद्रो नाम जायते ॥ 123c
दानं यत्तत्फलं नैव श्रोत्रियाय न दीयते । 124a
श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते ॥ 124c
श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत् । 125a
निधानं चापि राजेन्द्र नास्माच्छ्रोत्रियभोजनात् ॥ ॥ 125c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि त्र्यधिकशततमोऽध्यायः ॥
14-103-64 अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत्प्रातर्ब्रह्मकूर्चविधिः स्मृतः ॥ 14-103-66 ग्रीष्मे चतुर्षु मासेषु इति थ.पाठः ॥