अध्यायः 102

कृष्णेन युधिष्टिरम्प्रति भूगोतिलकन्यादानफलप्रतिपादनम् ॥ 1 ॥

भगवानुवाच । 001
अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम् ॥ 001ac
यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम् । 002a
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव ॥ 002c
स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः । 003a
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा ॥ 003c
बालसूर्यप्रकाशेन विचित्रध्वजशोभिना । 004a
याति यानेन दिव्येन मम लोकं महायशाः ॥ 004c
तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् । 005a
कामगः कामरूपी च क्रीडत्यप्सरसाङ्गणैः ॥ 005c
यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह । 006a
तावद्भूमिप्रदः काले मम लोके महीयते ॥ 006cs
न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते । 007a
न चापि भूमिहरणात्पापमन्यद्विशिष्यते ॥ 007c
दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव । 008a
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते ॥ 008c
ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः । 009a
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु ॥ 009c
सप्तद्वीपसमुद्रान्ता रत्नसञ्चयसङ्कुला । 010a
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत् ॥ 010c
भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे । 011a
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत् ॥ 011c
सुवर्णमणिरत्नानि धनानि च वसूनि च । 012a
सर्वदानानि वै राजन्ददाति वसुधां ददत् ॥ 012c
सागरान्सरितः शैलान्समानि विषमाणि च । 013a
सर्वगन्धरसांश्चैव ददाति वसुधां ददत् ॥ 013c
ओषधीः फलसम्पन्ना नानापुष्पसमन्विताः । 014a
कमलोत्पलषण्डांश्च ददाति वसुधां ददत् ॥ 014c
धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च । 015a
स्वर्गमार्गगतिं चैव ददाति वसुधां ददत् ॥ 015c
अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः । 016a
न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम् ॥ 016c
श्रोत्रियाय महीं दत्त्वा यो न हिंसति पाण्डव । 017a
तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः । 017c
तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन ॥ 017e
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति । 018a
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लुवम् ॥ 018c
मम रुद्रस्य सवितुस्त्रिदशानां तथैव च । 019a
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै ॥ 019c
तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर । 020a
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा ॥ 020c
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः । 021a
स च गोकर्णमात्रेण भूमिदानेन शुध्यति ॥ 021c
मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च । 022a
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ॥ 022c
सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम् । 023a
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ॥ 023c
युधिष्ठिर उवाच । 024
देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर । 024a
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः ॥ 024c
भगवानुवाच । 025
शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन । 025a
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम् ॥ 025c
प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम् । 026a
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप ॥ 026c
सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम् । 027a
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते ॥ 027c
किङ्करा मृत्युदण्डाश्च कुम्भीपाकाश्च दारुणाः । 028a
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ 028c
निरया रौरवाद्याश्च तथा वैतरणी नदी । 029a
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम् ॥ 029c
चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च । 030a
यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम् ॥ 030c
रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा । 031a
अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम् ॥ 031c
कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः । 032a
भूमिर्देया नरश्रेष्ठ स निधिः पारलौकिकः ॥ 032c
सीदमानकुटुम्बाय श्रोत्रियायाग्निहोत्रिणे । 033a
व्रतस्थाय दरिद्राय भूमिर्देया नराधिप ॥ 033c
यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम् । 034a
दातारमनुगृह्णाति दत्ता ह्येवं वसुन्धरा ॥ 034c
यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः । 035a
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम् ॥ 035c
यथा बीजनि रोहन्ति जलसिक्तानि भूपते । 036a
तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने ॥ 036c
यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति । 037a
तथा पापं नरस्येह भूमिदानं व्यपोहति ॥ 037c
दाता दशानुगृह्णाति यो हरेद्दश हन्ति च । 038a
अतीतान्यागतानीह कुलानि कुरुपुङ्गव ॥ 038c
आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेत्पुनः । 039a
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ॥ 039c
स्वदत्तां परदत्तां वा यो हरेत् वसुन्धराम् । 040a
न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित् ॥ 040c
ब्राह्मणस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान् । 041a
स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः ॥ 041c
दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति । 042a
गवां शतसहस्रस्य हन्तुः स लभते फलम् ॥ 042c
दिव्यैर्वर्षसहस्रैस्तु कुम्भीपाकाद्विनिस्सृतः । 043a सोधश्शिरास्तु पापात्मा कुम्भीपाकेषु पच्यते ।043c
इह लोके भवेत्स श्वा रातजन्मनि पाण्डव ॥ 043e
दत्त्वा भूमिं द्विजेन्द्राणां यस्तामेवोपजीवति । 044a
स मूढो याति दुष्टात्मा नरकानेकविंशतिम् । 044c
नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति ॥ 044e
हलकृष्टा मही देया सबीजा सस्यमालिनी । 045a
अथवा सोदका देया दरिद्राय द्विजातये ॥ 045c
एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना । 046a
सर्वान्कामानवाप्नोति मनसा चिन्तितानि च ॥ 046e
बहुभिर्वसुधा दत्ता दीयते च नराधिपैः । 047a
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ 047c
यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै । 048a
स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु ॥ 048c
बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम् । 049a
यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम् ॥ 049c
गवां शतसहस्रस्य सम्यग्दत्तस्थ यत्फलम् । 050a
तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम् ॥ 050c
यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव । 051a
तावद्वर्षसहस्राणि मम लोके महीयते ॥ 051c
ततश्चापि च्युतः कालादिह लोके स जायते । 052a
षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः ॥ 052c
यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति । 053a
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव ॥ 053c
स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः । 054a
विमानं दिव्यामारूढः कामगः कामभोगवान् । 054c
वर्षकोटिं महातेजा मम लोके महीयते ॥ 054e
ततः कालावतीर्णश्च सोस्मिल्ँलोके हि जायते । 055a
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥ 055c
यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये । 056a
कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः ॥ 056c
पूर्णचन्द्रप्रकाशेन विमानेन विराजता । 057a
कामरूपि यथाकामं स्वर्गलोके महीयते ॥ 057c
ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः । 058a
सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान् ॥ 058c
तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति । 059a
विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् ॥ 059c
पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन । 060a
तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत् ॥ 060c
यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत् । 061a
तथा तिलप्रदानाद्वै पापं त्यक्त्वा विशुद्ध्यति ॥ 061c
तिलषण्डं प्रयुञ्जानो जाम्बूनदविभूषितम् । 062a
विमानं दिव्यमारूढः पितृलोके महीयते ॥ 062c
षष्टिं वर्षसहस्राणि कामरूपी महायशाः । 063a
तिलप्रदाता रमते पितृलोके यथासुखम् ॥ 063c
यः प्रयच्छति विप्राय तिलधेनुं नराधिप । 064a
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् ॥ 064c
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् । 065a
तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः ॥ 065c
तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति । 066a
तावत्कोटिसमा राजन्स्वर्गलोके महीयते ॥ 066c
अष्टाढकतिलैः कृत्वा तिलधेनुं नराधिप । 067a
द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति । 067c
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु ॥ 067e
कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम् । 068a
तत्पुण्यं समनुप्राप्तो मम लोके महीयते ॥ 068c
मम लोकावतीर्णश्च सोस्मिल्ँलोकेऽभिजायते । 069a
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः ॥ 069c
गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति । 070a
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं ॥ 070c
यत्किञ्चिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः । 071a
तत्सर्वं तत्क्षणादेव विनश्यति न संशयः ॥ 071c
यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम् । 072a
आरूढः कामगं दिव्यं गोलोकमधिगच्छति ॥ 072c
यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप । 073a
तावद्वर्षसहस्राणि गवां लोके महीयते ॥ 073c
गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत् । 074a
सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः ॥ 074c
तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुन्धरा । 075a
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज ॥ 075c
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निमलोलुपम् । 076a
तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः ॥ 076c
आहिताग्निं दरिद्रं च श्रोत्रियं च जितेन्द्रियम् । 077a
शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत् ॥ 077c
आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित् । 078a
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ 078c
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् । 079a
असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ॥ 079c
नित्यस्वाध्यायनिरतास्त्वसङ्कीर्णेन्द्रियाश्च ये । 080a
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते ॥ 080c
ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । 081a
प्रतिग्रहे सङ्कुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ 081c
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी । 082a
ऋतौ गच्छन्विधिवच्चापि जुह्वत्स ब्राह्मणस्तारयितुं समर्थः ॥ 082c
ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः । 083a
मयि सन्न्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम् ॥ 083c
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् । 084a
अच्छिद्रपञ्चकालज्ञः स विप्रस्तारयिष्यति ॥ ॥ 084c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

14-102-32 कृशातिथेरिति थ. पाठ ॥ 14-102-56 कृशवृत्तेः कृशवृत्तये ॥ 14-102-67 मद्भक्ताय महात्मा वै इति थ. पाठः ॥