अध्यायः 101

कृष्णेन युधिष्टिरम्प्रति जलदानान्नदानफलप्रशंसनम् ॥ 1 ॥ तथाऽतिथिलक्षणकथनपूर्वकं तत्पूजाफलकथनम् ॥ 2 ॥

वैशम्पायन उवाच । 001
श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा । 001a
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥ 001c
देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत । 002a
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ ॥ 002c
सर्वसम्भव धर्मज्ञ सर्वधर्मप्रवर्तक । 003a
सर्वदानफलं सौम्य कथयस्व ममाच्युत ॥ 003c
दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै । 004a
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते ॥ 004c
एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता । 005a
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान् ॥ 005c
शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम् । 006a
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणाम् ॥ 006c
यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः । 007a
तत्क्षणात्पूततां याति पापकर्मरतोपि वा ॥ 007c
एकाहमपि कौन्तेय भूमावुत्पादितं जलम् । 008a
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत् ॥ 008c
पानीयं परमं लोके जीवानां जीवनं स्मृतम् । 009a
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव । 009c
पानीयस्य गुणा दिव्याः परलोके गुणावहाः ॥ 009c
तत्र पुष्पोदकी नाम नदी परमपावनी । 010a
कामान्ददाति राजेन्द्र तोयदानां यमालये ॥ 010c
शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम् । 011a
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम् ॥ 011c
ये चाप्यतोयदातारः पूयस्तेषां विधीयते ॥ 012ac
प्रणश्यत्यम्बुपानेन बुभुक्षा च युधिष्ठिर । 013a
तृषितस्य न चान्नेन पिपासाऽपि प्रणश्यति । 013c
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता ॥ 013e
अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स सम्भवः । 014a
अतोम्भः सर्वभूतानां मूलमित्युच्यते बुधैः ॥ 014c
अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च । 015a
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते ॥ 015c
सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम् । 016a
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः ॥ 016c
ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम् । 017a
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ ॥ 017c
अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः । 018a
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः । 018c
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव ॥ 018e
तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः । 019a
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम् ॥ 019c
देवमानवतिर्यक्षु सर्वलोकेषु सर्वदा । 020a
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम् ॥ 020c
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम् । 021a
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः ॥ 021c
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च । 022a
उदानश्च समानश्च धारयन्ति शरीरिणम् ॥ 022c
शयनोत्थानगमनग्रहणाकर्षणानि च । 023a
सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते ॥ 023c
चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च । 024a
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः ॥ 024c
विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः । 025a
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम् ॥ 025c
देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा । 026a
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते ॥ 026c
यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः । 027a
तस्मादन्नात्परं दानं न भूतं न भविष्यति ॥ 027c
यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च । 028a
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव ॥ 028c
यक्षरक्षोग्रहा नागा भूतान्यन्ये च दानवाः । 029a
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत् ॥ 029c
परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम् । 030a
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत ॥ 030c
अन्नदस्य त्रयो भागा भवन्ति पुरुषर्षभ । 031a
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः ॥ 031c
ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप । 032a
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः ॥ 032c
डम्भानृतविमुक्तस्तु परां भक्तिमुपागतः । 033a
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु ॥ 033c
शतवर्षसहस्राणि कामगः कामरूपधृत् । 034a
मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः । 034c
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत् ॥ 034e
अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये । 035a
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु ॥ 035c
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् । 036a
तत्पुण्यफलमाप्नोति नरो वै नात्र संशयः ॥ 036c
अथ संवत्सरं दद्यादग्रभिक्षामयाचते । 037a
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु ॥ 037c
कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते । 038a
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते ॥ 038c
स शक्रभवने रम्ये र्षिकोटिशतं नृप । 039a
यथाकामं महातेजाः क्रीडत्यप्सरसाङ्गणैः ॥ 039c
अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः । 040a
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु ॥ 040c
कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम् । 041a
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत् ॥ 041c
स शक्रभवने रम्ये कामरूपी यथासुखम् । 042a
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः ॥ 042c
शक्रलोकावतीर्णश्च इह लोके महाद्युतिः । 043a
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः ॥ 043c
अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे । 044a
देशकालाभियाताय दीयते पाण्डुनन्दन ॥ 044c
याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे । 045a
स लुब्धो नरकं याति कृमीणां कालसूत्रकम् ॥ 045c
स तत्र नरके घोरे लोभमोहविचेतनः । 046a
दशवर्षसहस्राणि क्लिश्यते वेदनार्दितः ॥ 046c
तस्माच्च नरकान्मुक्तः कालेन महता हि सः । 047a
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते ॥ 047c
यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः । 048a
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः ॥ 048c
पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत् । 049a
तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसङ्क्रमः । 049c
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः ॥ 049e
न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः । 050a
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात् ॥ 050c
कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे । 051a
न तत्फलमवाप्नोति यत्फलं विप्रबोजनान् ॥ 051c
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । 052a
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम् ॥ 052c
देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् । 053a
श्रान्तसंवाहनं चैव तथा पादावसेचनम् ॥ 053c
प्रतिश्रयप्रदानं च तथा शय्यासनस्य च । 054a
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ॥ 054c
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम् । 055a
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥ 055c
विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च । 056a
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम ॥ 056c
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते । 057a
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः ॥ 057c
पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः । 058a
पूजितस्तेन राजेन्द्र भवामीह न संशयः ॥ 058c
शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः । 059a
विमानेनेन्दुकल्पेन मम लोकं स गच्छति ॥ 059c
अभ्यागतं श्रान्तमनुव्रजन्ति देवाश्च सर्वे पितरोऽग्नयश्च । 60a
तस्मिन्द्विजे पूजिते पूजिताः स्युर्गते निराशाः पितरो व्रजन्ति ॥ 060c
अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । 061a
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च ॥ 061c
वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह । 062a
निरयं रौरवं गत्वा दशवर्षाणि पञ्च च । 062c
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत् ॥ 062e
वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् । 063a
चण्डालत्वमवाप्नोति सद्य एव न संशयः ॥ 063c
निर्वासयति यो विप्रं देशकालगतं गृहात् । 064a
पतितस्तत्क्षणादेव जायते नात्र संशयः ॥ 064c
नरके रौरवे घोरे वर्षकोटिं स पच्यते । 065a
ततश्चापि च्युतः कालादिह लोके नराधमः । 065c
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः ॥ 065e
चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः । 066a
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा ॥ 066c
अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः । 067a
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव ॥ 067c
निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान् । 068a
न जानाति किलात्मानं विष्ठकूपे निपातितं ॥ 068c
मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते । 069a
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत् ॥ 069c
साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने । 070a
न चातिथिं पूजयति वृथा भवति स द्विजः ॥ 070c
पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च । 071a
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ॥ 071c
तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत् । 072a
वृथा भवति तत्सर्वमाशया हि तया हतम् ॥ 072c
देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च । 073a
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान् ॥ 073c
सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् । 074a
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत् ॥ 074c
हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा । 075a
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसङ्क्रमः ॥ 075c
क्षुत्पिपासाश्रमार्ताय देशकालगताय च । 076a
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता ॥ 076c
भोजयेदात्मनः श्रेष्ठान्विधिवद्धव्यकव्ययोः । 077a
अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत् । 077c
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ॥ 077e
अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः । 078a
पूर्णचन्द्रप्रकाशेन विमानेन विराजते ॥ 078c
सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति । 079a
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः ॥ 079c
ततस्चापि च्युतः कालादिह लोके महायशाः । 080a
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ 080c
यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते । 081a
महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः । 081c
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ 081e
सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः । 082a
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः ॥ 082c
देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि । 083a
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु ॥ 083c
वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः । 084a
तावद्वर्षाणि राजेन्द्र मम लोके महीयते ॥ 084c
ततश्चापि च्युतः कालादिह लोके महायशाः । 085a
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥ 085c
सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर । 086a
अकालनियमेनापि सत्यवादी जितेन्द्रियः ॥ 086c
सत्यसन्धो जितक्रोधः शाखाधर्मविवर्जितः । 087a
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः ॥ 087c
श्रद्दधानः शुचिर्नित्यं पाकभेदविवर्जितः । 088a
स विमानेन दिव्येन दिव्यरूपी महायशाः ॥ 088c
पुरन्दरपुरं याति गीयमानोप्सरोगणैः । 089a
मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः । 089c
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत् ॥ 089e
दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः । 090a
जातिस्मरश्च भवति यत्रयत्रोपजायते ॥ ॥ 090c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥