अध्यायः 100
कृष्णेन युधिष्ठिरं प्रति सुकृतिदुष्कृतिजनप्राप्यवैवस्वतपुरमार्गादिप्रतिपादनपूर्वकं तेषां तद्गमनप्रकारानुवर्णनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
देवदेवेश दैत्यघ्न परं कौतूहलं हि मे । 001a
एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव । 001c
मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम् ॥ 001e
कीदृशं किम्प्रमाणं वा किमधिष्ठानमेव च । 002a
तरन्ति मानुषा देव केनोपायेन माधव ॥ 002c
त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते । 003a
कथयस्व महादेव सुखदुःखमशेषतः ॥ 003c
जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः । 004a
अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः ॥ 004c
मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपरक्रमैः । 005a
वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया ॥ 005c
पुण्यपापकृदातिष्ठेत्सुखदुःखमशेषतः । 006a
यमदूतैर्दुराधर्षैर्नीयते वा कथं पुनः । 006c
किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः ॥ 006e
कथं धर्मपरा यान्ति देवताद्विजपूजकाः । 007a
कथं वा पापकर्माणो यान्ति प्रेतपुरं नराः ॥ 007c
किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव । 008a
जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे ॥ 008c
भगवानुवाच । 009
शृणु राजन्यथावृतं यन्मां त्वं परिपृच्छसि । 009a
तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर ॥ 009c
षडशीतिसहस्राणि योजनानां युधिष्ठिर । 010a
मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम् ॥ 010c
न तत्र वृक्षच्छाया वा न तटाकं सरोपि वा । 011a
न वाप्यो दीर्घिका वाऽपि न कूपो वा युधिष्ठिर ॥ 011c
न मण्टपं सभा वाऽपि न प्रपा न निकेतनम् । 012a
न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित् ॥ 012c
न ग्रामो नाश्रमो वाऽपि नोद्यानं वा वनानि च । 013a
न किञ्चिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर ॥ 013c
जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम् । 014a
कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः ॥ 014c
शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना । 015a
निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात् ॥ 015c
शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणतः । 016a
अदृश्यं तत्प्रविष्टस्तु सोप्यदृष्टोऽथ केनचित् ॥ 016c
सोन्तरात्मा देहवतामष्टाङ्गो यस्तु सञ्चरेत् 017a
छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति । 017c
नाना रूपधरैर्घौरैः प्रचण्डैश्चण्डसाधनैः । 018a
नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया ॥ 018c
पुत्रदारमयैः पाशैः सन्निरूद्धोऽवशो बलात् । 019a
स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः ॥ 019c
आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः । 020a
त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति ॥ 020c
मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । 021a
दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः ॥ 021c
अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः । 022a
स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति ॥ 022c
अन्धकारमपारं तं महाघेरं तमोवृतम् । 023a
दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम् ॥ 023c
दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम् । 024a
दुरापमतिदुःखं च पापिष्ठानां नरोत्तम ॥ 024c
ऋषिभिः कथ्यमानं तत्पारम्पर्येण पार्थिव । 025a
त्रासं जनयति प्रायः श्रूयमाणं कथास्वपि ॥ 025c
अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर । 026a
प्राप्तकालेन सन्त्यज्य बन्धून्भोगान्धनानि च ॥ 026c
जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा । 027a
जङ्गमैः स्थिरसञ्ज्ञैश्च गन्तव्यं यमसादनम् ॥ 027c
देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः । 028a
स्त्रीपुन्नपुंसकैश्चापि पृथिव्यां जीवसञ्ज्ञितैः ॥ 028c
मध्यमैर्युवभिर्वाऽपि बालैर्वृद्धैस्तथैव च । 029a
जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः ॥ 029c
पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः । 030a
प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते ॥ 030c
प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जले स्थितैः । 031a
क्षेत्रस्थैर्वा नभःस्थेर्वा गृहमध्यगतैरपि ॥ 031c
भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम । 032a
आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि । 032c
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ॥ 032e
मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डशासनैः । 033a
आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम् ॥ 033c
क्वचिद्भीतैः क्वचिन्मत्तैः प्रस्खलद्भिः क्वचित्क्वचित् । 034a
क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम् ॥ 034c
निर्भर्त्स्यमानैरुद्विग्रैर्विधूतैर्भयविह्वलैः । 035a
तुद्यमानशरीरैश्च गन्तव्यं तर्जितैस्तथा ॥ 035c
कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना । 036a
दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ॥ 036c
काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः । 037a
हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः ॥ 037c
मेदःशोणितपूयाद्यैर्वक्त्रैर्गात्रैश्च सव्रणैः । 038a
दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः ॥ 038c
वेदनार्तैश्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम् । 039a
वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः ॥ 039c
भग्नरपादोरुहस्तङ्गैर्भग्नजङ्घाशिरोधरैः । 040a
छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः ॥ 040c
शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः । 041a
तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः ॥ 041c
श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः । 042a
तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसघातिभिः ॥ 042c
महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा । 043a
भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः ॥ 043c
सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः । 044a
तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः ॥ 044c
विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्रन्ति ये नराः । 045a
शस्त्रैर्निर्भिद्यमानैश्च गन्तव्यं यमसादनम् ॥ 045c
खादयन्ति च ये जीवान्दुःखमापादयन्ति च । 046a
राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति च ॥ 046c
ये हरन्ति च वस्त्राणि शय्यां प्रावरणानि च । 047a
ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथं ॥ 047c
गाश्च धान्यं हिरण्यं वा बलात्क्षेत्रं गृहं तथा । 048a
ये हरन्ति दुरात्मानः परस्वं पापकारिणः ॥ 048c
पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च जर्झरैः । 049a
हन्यमानैः क्षताकीर्णैर्नन्तव्यं तैर्यमालयम् ॥ 049c
ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः । 050a
आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान् ॥ 050c
शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः । 051a
पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जम्बुकैः ॥ 051c
चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः । 052a
क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम् ॥ 052c
तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः । 053a
जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनात्ततः ॥ 053c
ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः । 054a
विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप ॥ 054c
विद्यमानधनैर्यैस्तु लोभडम्भानृतान्वितैः । 055a
श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुङ्गव ॥ 055c
ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः । 056a
क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः ॥ 056c
अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः । 057a
अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः ॥ 057c
स्वामिन्बुभुक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः । 058a
ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम । 058c
इति ब्रुवन्तस्तैर्दूतैः प्राप्यन्ते वै यमालयम् ॥ 058e
वैशम्पायन उवाच । 059
तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः । 059a
निस्सञ्ज्ञो भयसन्त्रस्तो मूर्छया समभिप्लुतः ॥ 059c
ततो लब्ध्वा शनैः सञ्ज्ञां समाश्वस्तोच्युतेन सः । 060a
नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत् ॥ 060c
भीतोस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम् । 061a
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥ 061c
भगवानुवाच । 062
इह ये धार्मिका लोके जीवघातविवर्जिताः । 062a
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ 062c
अस्मान्मानुष्यलोकात्ते समार्याः सहबान्धवाः । 063a
यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे ॥ 063c
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव । 064a
ये प्रयच्छन्ति विप्रेभ्यस्ते सुखं यान्ति तत्फलम् ॥ 064c
अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् । 065a
क्षोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः ॥ 065c
ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम् । 066a
सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम् ॥ 066c
ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः । 067a
ते च यान्त्यमलाभ्राभैर्विमानैर्वृषयोजितैः ॥ 067c
कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः । 068a
ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः ॥ 068c
ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः । 069a
वैवस्वतपुरं प्राप्य ह्यप्सरोभिर्निषेविताः ॥ 069c
उपानहौ च च्छत्रं च शयनान्यासनानि च । 070a
विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च ॥ 070c
ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः । 071a
धर्मराजपुरं रम्यं सौवर्णच्छत्रशोभिताः ॥ 071c
ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च । 072a
स्निग्धान्नान्यापि विप्रेभ्यः श्रद्धया परया युताः ॥ 072c
ते यान्ति काञ्चनार्यानैः सुखं वैवस्वतालयम् । 073a
वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः ॥ 073c
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । 074a
ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः ॥ 074c
चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः । 075a
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ 075c
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च । 076a
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ 076c
ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम् । 077a
ते व्रजनत्यमलाभ्राभैर्विमानैर्वायुवेगिभिः । 077c
पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम् ॥ 077e
पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् । 078a
ते सुतृप्ताः सुखं यान्ति भवनैर्हंसचोदितैः ॥ 078c
ये तिलं तिलधेनुं वा धृतधेनुमथापि च । 079a
श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः ॥ 079c
सूर्यमण्डलसङ्काशैर्यानैस्ते यान्ति निर्मलैः । 080a
गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप ॥ 080c
येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च । 081a
दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः ॥ 081c
यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः । 082a
चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः । 082c
नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् ॥ 082e
येषां देवगृहाणीह चित्राण्यायतनानि च । 083a
मनोहराणि कान्तानि दर्शनीयानि भान्ति च ॥ 083c
ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः । 084a
पुरं तत्प्रेतनाथस्य नानाजनपदाकुलम् ॥ 084c
वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम् । 085a
यमेन पूजिता यान्ति देवसालोक्यतां ततः ॥ 085c
देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम् । 086a
शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये । 086c
ते तु तृप्ति परां यान्ति प्राप्य सौख्यं महापथम् ॥ 086e
काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः । 087a
सौवर्णमणिपीठे तु पादं कृत्वा रथोत्तमे ॥ 087c
आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः । 088a
संवर्धयन्ति चाव्यग्रं फलपुष्पोपशोभितम् ॥ 088c
वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः । 089a
यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः । 089c
सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः । 090a
स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम् ॥ 090c
अश्वयानं तु गोयानं हस्तियानमथापि च । 091a
ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः ॥ 091c
सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा । 092a
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः । 092c
ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् ॥ 092e
भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः । 093a
उदितादित्यसङ्काशैर्विमानैर्वृषयोजितैः ॥ 093c
कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च । 094a
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥ 094c
सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च । 095a
प्रयच्छन्ति द्विजाग्रेभ्यो भक्तया परमया युताः ॥ 095c
सुगन्धाः सुष्ठुवेषाश्च सुप्रभाः स्रग्विभुषणाः । 096a
यान्ति धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः॥ 096c
दीपदा यान्ति यानैश्च द्योतयन्तो दिशो दश । 097a
आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः ॥ 097c
गृहावसथदातारो गृहैः काञ्चनवेदिकैः । 098a
व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः ॥ 098c
जलभाजनदातारः कुण्डिकाकरकप्रदाः । 099a
पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः ॥ 099c
पादाभ्यङ्गं शिरोभ्यङ्गं पानं पादोदकं तथा । 100a
ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥ 100c
विश्रामायन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् । 101a
चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च ॥ 101c
स्वागतेन च यो विप्रान्पूजयेदासनेन च । 102a
स गच्छति तदध्वानं सुखं परमनिर्वृतः ॥ 102c
नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाऽभिवादयेत् । 103a
व्रतीवं प्रयतो नित्यं स सुखं तत्पदं व्रजेत् ॥ 103c
नमः सर्वसहाभ्यश्चेत्यभिख्याय दिने दिने । 104a
नमस्करोति नित्यं गां स सुखं याति तत्पथं ॥ 104c
नमोस्तु प्रियदत्तायेत्येवंवादी दिने दिने । 105a
भूमिमाक्रमते प्रातः शयनादुत्थितश्च यः ॥ 105c
सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः । 106a
याति यानेन दिव्येन सुकं वैवस्वतालयम् ॥ 106c
अनत्तराशिनो ये तु डम्भानृतविवर्जिताः । 107a
तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् ॥ 107c
ये चाप्येकेन भुक्तेन डम्भानृतविवर्जिताः । 108a
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥ 108c
चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः । 109a
यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः ॥ 109c
तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः । 110a
तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः ॥ 110c
षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते । 111a
कामक्रोधविनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः । 111c
स याति कुञ्जरस्थैस्तु जयशब्दरवैर्युतः ॥ 111e
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः । 112a
धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम् ॥ 112c
ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः । 113a
तेऽपि सूर्याोदयप्रख्यैर्यान्ति यानैर्यमालयम् ॥ 113c
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना । 114a
स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥ 114c
गोकृते स्त्रीकृते चैव हत्वा विप्रकृतेऽपि च । 115a
ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः ॥ 115c
ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः । 116a
ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः ॥ 116c
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः । 117a
हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम् ॥ 117c
परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः । 118a
तत्पथं ससुखं यान्ति विमानैः काञ्चनोज्ज्वलैः ॥ 118c
ये समाः सर्वभूतेषु जीवानामभयप्रदाः । 119a
क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा । 119c
पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः । 120a
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥ 120c
ये मामेकान्तभावेन देवं त्र्यम्बकमेव वा । 121a
पूजयन्ति नमस्यन्ति स्तुवन्ति च दिनेदिने । 121c
धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः ॥ 121e
पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः । 122a
यान्त्येव धर्मलोकं वा रुद्रलोकमथापि वा ॥ ॥ 122c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि शततमोऽध्यायः ॥ 100 ॥