अध्यायः 099
कृष्णेन युधिष्ठिरं प्रति बीजयोन्योः शुद्ध्यशुद्धिनिरूपणम् ॥ 1 ॥ तथा गायत्रीमहिमानुवर्णनम् ॥ 2 ॥ ब्राह्मणमहिमप्रशंसनम् । ब्राह्मणावमन्तॄणां नारकयातनानुवर्णनं च ॥ 3 ॥
वैशम्पायन उवाच । 001
श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा । 001a
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक् ॥ 001c
अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः । 002a
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत् ॥ 002c
बीजयोनिविशुद्धानां लक्षणानि वदस्व मे । 003a
बीजदोषेण लोकेश जायन्ते च कथं नराः ॥ 003c
आचारदोषं देवेशं वक्तुमर्हस्यशेषतः ॥ 004a
ब्राह्मणानां विशेषं च गुणदोषौ च केशव ॥ 004c
चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे । 005a
केन विप्रा विशेषेण तरन्ते तारयन्ति च । 005c
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते ॥ 005e
भगवानुवाच । 006
शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम् । 006a
येन तिष्ठति लोकोयं विनश्यति च पाण्डव ॥ 006c
अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि । 007a
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् ॥ 007c
कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः । 008a
ब्राह्मादिषु विवाहेषु परिणीता यथाविधि । 008c
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते ॥ 008e
मनसा कर्मणा वाचा या गच्छेत्परपूरुषम् । 009a
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति ॥ 009c
स्वैरिण्या यस्तु पापात्मा सन्तानार्थमिहेच्छति । 010a
स कुलान्पातयत्याशु दशपूर्वान्दशापरान् ॥ 010c
दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः । 011a
तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः । 011c
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिव ॥ 011e
कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी । 012a
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः ॥ 012c
दैवे पित्र्ये तथा दाने भोजने सहभाषणे । 013a
शयने सहसम्बन्धे न योग्या दृष्टयोनिजाः ॥ 013c
न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः । 014a
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम् ॥ 014c
कानीनश्च सहोढश्च तथोभौ कुण्डगोलकै । 015a
आरूढपतिताज्जातः परितस्यापि यः सुतः । 015c
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि ॥ 015e
यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् । 016a
कामचारी स पापात्मा बीजं तस्याशुभं भवेत् ॥ 016c
अशुद्धं तद्भवेद्बीजं शुद्धां योनिं न चार्हति । 017a
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा ॥ 017c
शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः । 018a
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः ॥ 018c
मामधःपातयन्नेष पापात्मा काममोहितः । 019a
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत् ॥ 019c
आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत् । 020a
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः ॥ 020c
आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः । 021a
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया ॥ 021c
अविप्लुतब्रह्मचर्यैर्गृहस्थाश्रममाश्रितैः । 022a
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले ॥ 022c
सायम्प्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते । 023a
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च ॥ 023c
यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम् । 024a
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम् ॥ 024c
ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि । 025a
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा ॥ 025c
यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः । 026a
घोररूपा महाकाया धर्षयन्ति न तं द्विजम् ॥ 026c
पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः । 027a
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥ 027c
अचीर्णव्रतवेदा ये विकर्मफलमाश्रिताः । 028a
ब्राह्मणा नाममात्रेण तेऽपि पूज्या युधिष्ठिर । 028c
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते ॥ 028e
शीलमध्ययनं दानं शौचं मार्दवमार्जवम् । 029a
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः ॥ 029c
भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः । 030a
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः ॥ 030c
सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः । 031a
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥ 031c
सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः । 032a
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ 032c
सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा । 033a
सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः । 033c
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥ 033e
यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः । 034a
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः ॥ 034c
तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते । 035a
निर्जीवा हीतरे वेदा विना सावित्रिया नृप ॥ 035c
नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः । 036a
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः ॥ 036c
सहस्रपरमां देवीं शतमध्यां दशावराम् । 037a
सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम् ॥ 037c
युधिष्ठिर उवाच । 038
त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि । 038a
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा ॥ 038c
भागवानुवाच । 039
यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् । 039a
करोति चेन्नमस्कारमुपहारं च कारयेत् ॥ 039c
स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा । 040a
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत ॥ 040c
ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः । 041a
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ ॥ 041c
परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये । 042a
यदहं द्विजरूपेण वसामि वसुधातले ॥ 042c
यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना । 043a
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव ॥ 043c
कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा । 044a
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ॥ 044c
ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः । 045a
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम् ॥ 045c
बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः । 046a
यदहं द्विजरूपेण वसामि वसुधातले ॥ 046c
अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते । 047a
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च ॥ 047c
मृतांश्चात्र परत्रेमान्यमदूता महाबलाः । 048a
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः ॥ 048c
आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु । 049a
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले ॥ 049c
आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः । 050a
अग्निवर्णैस्तु सन्दंशैर्यमो जिह्वां समुद्धरेत् ॥ 050c
ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा । 051a
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥ 051c
तेषां घोरा महाकाया वक्रतुण्डा महाबलाः । 052a
उद्धरन्ति मुहूर्तेन खगाश्चक्षुर्यमाज्ञया ॥ 052c
यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् । 053a
अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत् । 053c
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम् ॥ 053e
शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते । 054a
बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः । 054c
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः ॥ 054e
ब्राह्मणान्वा विचार्यैव व्रजन्वै वधकाङ्क्षया । 055a
शतर्वषसहस्राणि तामिस्रे परिपच्यते ॥ 055c
उत्पाद्य शोणितं गात्रात्संरम्भमतिपूर्वकम् । 056a
सपर्ययेण यातीमान्नरकानेकविंशतिम् ॥ 056c
तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत् । 057a
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत् ॥ 057c
ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः । 058a
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः ॥ 058c
तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत । 059a
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ॥ 059c
यश्चन्दनैश्चागरुधूपदीपैरभ्यर्चयेत्काष्ठमयीं ममार्चाम् । 060a
तेनार्चितो नैव भवामि सम्यग्विप्रार्चनादस्मि समर्चितोऽहम् ॥ 060c
विप्रप्रसादाद्धरणीधरोऽहंविप्रप्रसादादसुराञ्जयामि । 061a
विप्रप्रसादाच्च सदक्षिणोऽहंविप्रप्रसादादजितोऽहमस्मि ॥ ॥ 061c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥