अध्यायः 098
कृष्णेन युधिष्ठिरं प्रति जन्मदानजीवितानां वैयर्थ्यापादकाधर्मकथनम् ॥ 1 ॥ तथा दानानां सात्विकत्वादिकथनपूर्व तत्तत्फलानां त्रैविध्यादिप्रतिपादनम् ॥ 2 ॥ तथा दानपात्रलक्षणनिरूपणम् ब्राह्मणमहिमानुवर्णनं च ॥ 3 ॥
वैशम्पायन उवाच । 001
एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु । 001a
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम् ॥ 001c
वृथा च कति जन्मानि वृथा दानानि कानि च । 002a
वृथा च जीवितं केषां नराणां पुरुषोत्तम ॥ 002c
कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन । 003a
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम ॥ 003c
गर्भस्थः किं समश्नाति किं बाल्ये वाऽपि केशव । 004a
यौवनस्थेऽपि किं कृष्ण वार्धके वाऽपि किं भवेत् ॥ 004c
सात्विकं कीदृशं दानं राजसं कीदृशं भवेत् । 005a
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो ॥ 005c
उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत् । 006a
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत् । 006c
गतिं जघन्यामथवा देवदेव ब्रवीहि मे ॥ 006e
एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे । 007a
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन ॥ 007c
वैशम्पायन उवाच । 008
एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै । 008a
उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य तु ॥ 008c
भगवानुवाच । 009
शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् । 009a
कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम् ॥ 009c
वृथा च दश जन्मानि चत्वारि च नराधिप । 010a
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम् ॥ 010c
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः । 011a
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव ॥ 011c
धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा । 012a
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये । 012c
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः ॥ 012e
मृष्टमश्नाति यश्चैकः क्लिश्यमानैस्तु बान्धवैः । 013a
पितरं मातरं चैव उपाध्यायं गुरुं तथा । 013c
मातुलं मातुलानीं च यो निहन्याच्छपेत वा ॥ 013e
ब्राह्मणश्चैव यो भूत्वा सन्ध्योपासनवर्जितः । 014a
निस्स्वाहो निस्स्वधश्चैव शूद्राणामन्नभुग्द्विजः ॥ 014c
मम वा शङ्करस्याथ ब्रह्मणो वा युधिष्ठिर । 015a
अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः । 015c
वृथाजन्मान्यथैतेषां पापिनां विद्धि पाण्डव ॥ 015e
अश्रद्धयाऽपि यद्दत्तमवामानेन वाऽपि यत् । 016a
डम्भार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप ॥ 016c
शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम् । 017a
रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम् ॥ 017c
डम्भार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम् । 018a
ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत् ॥ 018c
अभिशस्ताहृतं यत्तु यद्दत्तं पतिते द्विजे । 019a
निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाचकैः ॥ 019c
व्रात्यैस्तु यद्धृतं दानमारूढपतितैश्च यत् । 020a
यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने ॥ 020c
यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा । 021a
उपपातकिने दत्तं वेदविक्रयिणे च यत् ॥ 021c
स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने । 022a
गणकाय च यद्दत्तं यच्च कारणिकाय च ॥ 022c
वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने । 023a
भृतकाय च यद्दत्तं व्यालग्राहिहृतं च यत् ॥ 023c
पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत् । 024a
यद्वणिक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने ॥ 024c
यच्छूद्रजीविने दत्तं यच्च देवलकाय च । 025a
देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे ॥ 025c
रङ्गोपजीविने दत्तं यच्च मांसोपजीविने । 026a
सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे ॥ 026c
अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च । 027a
यदनाचारिणे दत्तं यत्तु दत्तमनग्रये ॥ 027c
असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने । 028a
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ॥ 028c
नास्तिकाय च यद्दत्तं धर्मविक्रयिणे च यत् । 029a
वराकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे ॥ 029c
ग्रामकूटाय यद्दत्तं दानं पार्थिवपुङ्गव । 030a
वृथा भवति तत्सर्वं नात्र कार्या विचारणा ॥ 030c
विप्राणामधरा एते लोलुपा ब्राह्मणाधमाः । 031a
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर ॥ 031c
एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि । 032a
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा ॥ 032c
एतेषु यत्फलं किञ्चिद्भविष्यति कथञ्चन । 033a
राक्षसाश्च पिशाचाश्च तद्विलुम्पन्ति हर्षिताः ॥ 033c
वृथा ह्येतानि दत्तानि कथितानि समासतः । 034a
जीवितं तु वृथा येषां तच्छृणुष्व युधिष्ठिर ॥ 034c
ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः । 035a
ब्राह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः ॥ 035c
हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः । 036a
देवान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ॥ 036c
कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः । 037a
विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः ॥ 037c
ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम् । 038a
पितरं मातरं चैव गुरुमिन्द्रं निशाकरम् । 038c
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ॥ 038e
विद्यमाने धने यस्तु दानधर्मविवर्जितः । 039a
मृष्टमश्नाति यश्चैको वृथा जीवति सोऽपि च ॥ 039c
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते ॥ 040ac
तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत् । 041a
तदस्य फलमश्नाति नरो गर्भगतो नृप ॥ 041c
ईर्ष्यामत्सरसंयुक्तो डम्भार्थं चार्थकारणात् । 042a
ददाति दानं यो मर्त्यो बालभावे तदश्नुते ॥ 042c
भोक्तुं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम् । 043a
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते ॥ 043c
श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः । 044a
ददाति दानं यो मर्त्यो यौवने स तदश्नुते ॥ 044c
स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते । 045a
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् ॥ 045c
राजसं सात्विकं चापि तामसं च युधिष्ठिर । 046a
दानं दानफलं चैव गतिं च त्रिविधां शृणु ॥ 046c
दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै । 047a
उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम् ॥ 047c
श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव । 048a
दीयते यत्प्रहृष्टेन तत्सात्विकमुदाहृतम् ॥ 048c
वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे । 049a
समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम् ॥ 049c
सम्बन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव । 050a
फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम् ॥ 050c
वैश्वदेवविहीनाय दानमश्रोत्रियाय च । 051a
दीयते तस्करायापि तद्दानं तामसं स्मृतम् ॥ 051c
सरोषमवधूतं च क्लेशयुक्तमवज्ञया । 052a
सेवकाय च यद्दतं तत्तामसमुदाहृतम् ॥ 052c
देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा । 053a
सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर ॥ 053c
दानवा दैत्यसङ्गाश्च ग्रहा यक्षाः सराक्षसाः । 054a
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः ॥ 054c
पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः । 055a
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु ॥ 055c
सात्विकानां तु दानानामुत्तमं फलमश्नुते । 056a
मध्यमं राजसानां तु तामसानां तु पश्चिमम् ॥ 056c
अभिगम्योपनीतानां दानानामुत्तमं फलम् । 057a
मध्यमं तु समाहूय जघन्यं याचते फलम् ॥ 057c
अयाचितप्रदाता यः स याति गतिमुत्तमाम् । 058a
समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत् । 058c
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत् ॥ 058e
उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः । 059a
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता ॥ 059c
पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु । 060a
यत्तु निक्षिप्यते दानमक्षयं सम्प्रकीर्तितम् ॥ 060c
श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव । 061a
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम् ॥ 061c
दरिद्रान्वित्तहीनांश्च प्रदानैः सुष्ठु पूजय । 062a
आतुरस्यौषधैः कार्यं नीरुजस्य किमौषधैः ॥ 062c
पापं प्रतिग्रहीतारं प्रदातुरपगच्छति । 063a
प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत् । 063c
तस्माद्दानं सदा कार्यं परत्र हितमिच्छता ॥ 063e
वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु । 064a
प्रयत्नेन विधातव्यो महादानमयो निधिः ॥ 064c
येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम् । 065a
भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव ॥ 065c
आमन्त्र्य तु निराशानि न कर्तव्यानि भारत । 066a
कुलानि सुदरिद्राणि तेषामाशा हता भवेत् ॥ 066c
मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः । 067a
मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत् ॥ 067c
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर । 068a
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम ॥ 068c
तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः । 069a
सन्ध्याकाले तु जप्तव्यं सततं चाऽऽत्मशुद्धये ॥ 069c
अन्येषामपि विप्राणां किल्बिषं हि विनश्यति । 070a
उभे सन्ध्येऽप्युपासीत तस्माद्विप्रो विशुद्धये । 070c
दैवे श्राद्धेऽपि विप्रः स नियोक्तव्योऽजुगुप्सया । 071a
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम् ॥ 071c
भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम् । 072a
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ 072c
न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित् । 073a
महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे ॥ 073c
ब्राह्मणानां परीवादं यः कुर्यात्स नराधमः । 074a
रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः ॥ 074c
श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत् । 075a
कृमिर्भवत्यभिभवात्कीटो भवति मत्सरात् ॥ 075c
दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः । 076a
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥ 076c
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । 077a
नावमन्येत मेधावी कृशानपि कदाचन ॥ 077c
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् । 078a
तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान् ॥ 078c
यथा सर्वास्ववस्थासु पावको दैवतं महत् । 079a
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत् ॥ 079c
व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च । 080a
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः ॥ 080c
मन्युं नोत्पादयेत्तेषां न चारिष्टं समाचरेत् । 081a
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥ 081c
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् । 082a
ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते ॥ 082c
ब्राह्मणः सर्वभूतानां धर्मकोशस्य गुप्तये । 083a
किं पुनर्ये च कौन्तेय सन्ध्यां नित्यमुपासते ॥ 083c
यस्याऽऽस्येन समश्नन्ति हव्यानि त्रिदिवौकसः । 084a
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ 084c
उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती । 085a
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ 085c
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । 086a
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः । 086c
तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा ॥ 086e
आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः । 087a
निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय ॥ 087c
स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा । 088a
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव ॥ 088c
नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः । 089a
नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः । 089c
नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम् । 090a
न पवित्रं परं विप्रान्न द्विजात्पावनं परम् । 090c
नास्ति विप्रात्परो धर्मो नास्ति विप्रात्परा गतिः ॥ 090e
पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् । 091a
त्रायते पात्रमप्येकं पात्रभूते तु तद्द्विजे ॥ 091c
बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः । 092a
मामर्चयन्ति तद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥ 092c
प्रदानैः पूजितो विप्रो वन्दितो वाऽपि संस्कृतः । 093a
सम्भाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत् ॥ 093c
ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम् । 094a
स तान्स्पृष्ट्वा च दृष्ट्वा च नरः पापैः प्रमुच्यते ॥ 094c
मद्भक्ता मद्गतप्राणा मद्गीता मत्परायणाः । 095a
बीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः । 095c
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात् ॥ 095e
स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्वथ । 096a
निवापयेत्तु यद्भक्त्या तद्दानं कोटिसम्मितम् ॥ 096c
जाग्रतः स्वपतो वाऽपि प्रवासेषु गृहेष्वथ । 097a
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः ॥ 097c
स पूजितो वा दृष्टो वा स्पृष्टो वाऽपि द्विजोत्तमः । 098a
सम्भाषितो वा राजेन्द्र पुनात्येव नरं सदा ॥ 098c
एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव । 099a
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै ॥ ॥ 099c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥