अध्यायः 097
कृष्णेन युधिष्ठिरं प्रति चातुर्वर्ण्यधर्मनिरूपणम् ॥ 1 ॥
वैशम्पायन उवाच । 001
एवमात्मोद्भवं सर्वं जगदुद्दिश्य केशवः । 001a
धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः ॥ 001c
शृणु पाण्डव तत्वेन पवित्रं पापनाशनम् । 002a
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् ॥ 002c
यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः । 003a
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर ॥ 003c
श्रद्दधानस्य तस्येह यत्पापं पूर्वसञ्चितम् । 004a
विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः ॥ 004c
वैशम्पायन उवाच । 005
एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् । 005a
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम् ॥ 005c
देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा । 006a
भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा ॥ 006c
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः । 007a
तथा भागवताश्चापि पञ्चकालमुपासकाः ॥ 007c
कौतूहलसमाविष्टाः प्रहृष्टेन्द्रियमानसाः । 008a
श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम् । 008c
हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः ॥ 008e
ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा । 009a
विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् । 009c
पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् ॥ 009e
युधिष्ठिर उवाच । 010
कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी । 010a
वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी ॥ 010c
कथं बध्येत पाशेन ब्राह्मणस्तु यमालये । 011a
क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम् । 011c
एतत्कर्मफलं ब्रूहि लोकनाथ नमोऽस्तु ते ॥ 011e
वैशम्पायन उवाच । 012
पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता । 012a
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् ॥ 012c
भगवानुवाच । 013
शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर । 013a
नास्ति किञ्चिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम् ॥ 013c
शिखायज्ञोपवीता ये सन्ध्यां ये चाप्युपासते । 014a
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये ॥ 014c
वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये । 015a
नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये ॥ 015c
सायम्प्रातर्हुताशाश्च शूद्रभोजनवर्जिताः । 016a
डम्भानृतविमुक्ताश्च स्वदारनिरताश्च ये । 016c
पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते ॥ 016e
दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः । 017a
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ॥ 017c
ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः । 018a
उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयम्भुवा । 018c
ब्रह्मलोके प्रमोदन्ते यावदाभूतसम्प्लवम् ॥ 018e
क्षत्रियोऽपि स्थितो राज्ये स्वधर्मपरिपालकः । 019a
सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा ॥ 019c
यज्ञदानरतो धीरः स्वदारनिरतः सदा । 020a
शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः ॥ 020c
विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः । 021a
सत्यसन्धः शुचिर्नित्यं लोभडम्भविवर्जितः । 021c
क्षत्रियोऽप्युत्तमां याति गतिं देवनिषेविताम् ॥ 021e
तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः । 022a
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः ॥ 022c
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् । 023a
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत् ॥ 023c
कृषिगोपालनिरतो धर्मानवेषणतत्परः । 024a
दानधर्मेऽपि निरतो विप्रशुश्रूषकस्तथा ॥ 024c
सत्यसन्धः शुचिर्नित्यं लोभडम्भविवर्जितः । 025a
ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः ॥ 025c
वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः । 026a
वैश्यः स्वर्गतिमाप्नोति पूज्यमानोऽप्सरोगणैः ॥ 026c
चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च । 027a
इह मानुष्यलोके च राजा भवति वीर्यवान् ॥ 027c
सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा । 028a
हस्त्यश्वरथसंयुक्तो महाभोगांश्च सेवते ॥ 028c
त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा । 029a
विशेषतस्तु विप्राणां दासवद्यस्तु तिष्ठति ॥ 029c
अयाचितप्रदाता च सत्यशौचसमन्वितः । 030a
गुरुदेवार्चनरतः परदारविवर्जितः ॥ 030c
परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः । 031a
शूद्रोऽपि स्वर्गमाप्नोति जीवानामभयप्रदः ॥ 031c
स स्वर्गलोके क्रीडित्वा वर्षकोटिं महातपाः । 032a
इह मानुषलोके तु वैश्यो धनपतिर्भवेत् ॥ 032c
एवं धर्मात्परं नास्ति महत्संसारमोक्षणम् । 033a
न च धर्मात्परं किञ्चित्पापकर्मव्यपोहनम् ॥ 033c
तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् । 034a
न हि धर्मानुरक्तानां लोके किञ्चन दुर्लभम् ॥ 034c
स्वयम्भुविहितो धर्मो यो यस्येह नरेश्वर । 035a
स तेन क्षपयेत्पापं सम्यगाचरितेन च ॥ 035c
सहजं यद्भवेत्कर्म न तत्त्याज्यं हि केनचित् । 036a
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति ॥ 036c
विगुणोऽपि स्वधर्मस्तु पापकर्म व्यपोहति । 037a
एवमेव तु धर्मोऽपि क्षीयते पापवर्धनात् ॥ 037c
युधिष्ठिर उवाच । 038
भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे । 038a
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम् ॥ 038c
भगवानुवाच । 039
शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम् । 039a
दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः ॥ 039c
यथैव शीतमुदकमुष्णेन बहुना वृतम् । 040a
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति ॥ 040c
यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम् । 041a
शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति ॥ 041c
एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम् । 042a
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा ॥ 042c
समत्वे सति राजेन्द्र तयोः सुकृतपापयोः । 043a
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः ॥ 043c
ख्यापनेनानुतापेन प्रायः पापं विनश्यति । 044a
तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद ॥ 044c
तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः । 045a
तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः ॥ 045c
तस्मादेतत्प्रयत्नेन कीर्तयेत्क्षयकारणात् । 046a
तस्मात्सङ्कीर्तयेत्पापं नित्यं धर्मं च गूहयेत् ॥ ॥ 046c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥