अध्यायः 096

युधिष्ठिरेण कृष्णं प्रति वैष्णवधर्मप्रशंसनपूर्वकं तत्कथनप्रार्थना ॥ 1 ॥ वसिष्ठादिभिस्तच्छुश्रूषया तत्समीपोपसर्पणम् ॥ 2 ॥ कृष्णेन युधिष्ठिरादीन्प्रति वैष्णवधर्मप्रशंसनपूर्वकं स्वमहिमानुबोधनम् ॥ 3 ॥

जनमेजय उवाच । 001
अश्वमेधे पुरावृत्ते केशवं केशिसूदनम् । 001a
धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः ॥ 001c
वैशम्पायन उवाच । 002
पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः । 002a
तदा राजा नमस्कृत्य केशवं पुनरब्रवीत् ॥ 002c
भगवन्वैष्णवा धर्माः किम्फलाः किम्परायणाः । 003a
किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा ॥ 003c
यदि तेऽहमनुग्राह्यः प्रियोऽस्मि मधुसूदन । 004a
श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत ॥ 004c
पवित्राः किल ते धर्माः सर्वपापप्रणाशनाः । 005a
सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः ॥ 005c
याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः । 006a
पाकभेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी ॥ 006c
मित्रविश्वासघाती च वीरहा भ्रूणहा तथा । 007a
तपोविक्रयिणश्चैव दानविक्रयिणस्तथा ॥ 007c
आत्मविक्रयिणो मूढा जीवेद्यश्च विकर्मभिः । 008a
पापाः शठा नैकृतिका डाम्भिका दूषकास्तथा ॥ 008c
रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः । 009a
शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः ॥ 009c
निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः । 010a
एते चान्ये च पापा ये मुच्यन्ते तेऽपि किल्बिषात् ॥ 010c
तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत ॥ 011ac
वैशम्पायन उवाच । 012
इत्येवं कथिते देवे धर्मपुत्रेण संसदि । 012a
वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः ॥ 012c
श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम् । 013a
तथा भागवताश्चैव ततस्तं पर्यवारयन् ॥ 013c
युधिष्ठिर उवाच । 014
तत्वतस्तव भावेन पादमूलमुपागतम् । 014a
यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल ॥ 014c
धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः । 015a
धर्मान्कथय मे देव यद्यनुग्रहभागहम् ॥ 015c
श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा । 016a
गार्गीया गौतमीयाश्च तथा गोपालकस्य च ॥ 016c
पराशरकृताः पूर्वा मैत्रेयस्य च धीमतः । 017a
औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः ॥ 017c
ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया । 018a
धूमायनकृता धर्माः काण्डवैश्वानरा अपि ॥ 018c
भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि । 019a
भारद्वाजकृता ये च बृहस्पतिकृताश्च ये ॥ 019c
कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये । 020a
सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च ॥ 020c
पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च । 021a
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः शलभायनाः ॥ 021c
वालखिल्यकृता ये च ये च सप्तर्षिभिस्तथा । 022a
आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च ॥ 022c
प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया । 023a
वैयाघ्रव्यासकीयाश्च विभण्डककृताश्च ये ॥ 023c
नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया । 024a
तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा ॥ 024c
क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये । 025a
ये पिशङ्गकृताश्चापि कातपायाः सुवालकाः ॥ 025c
उद्दालककृता धर्मा औशनस्यास्तथैव च । 026a
वैशम्पायनगीताश्च ये चान्येऽप्येवमादितः ॥ 026c
एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः । 027a
पावनात्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः ॥ 027c
तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च केशव । 028a
युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेच्युत ॥ 028c
वैशम्पायन उवाच । 029
एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः । 029a
उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः ॥ 029c
एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत । 030a
तस्य ते दुर्लभो लोके न कश्चिदपि विद्यते ॥ 030c
धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोऽपि वा । 031a
अनुमोदितो वा राजेन्द्र नयतीन्द्रपदं नरम् ॥ 031c
धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा । 032a
धर्मो भ्राता सखा चैव धर्मः स्वामी परन्तप ॥ 032c
धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च । 033a
धर्मादैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा ॥ 033c
धर्मोऽयं सेवितः शुद्धस्त्रायते महतो भयात् । 034a
धर्माद्द्विजत्वं देवत्वं धर्मः पावयते नरम् ॥ 034c
यदा च क्षीयते पापं कालेन पुरुषस्य तु । 035a
तदा सञ्जायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर ॥ 035c
जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम् । 036a
तद्गत्वाऽपीह यो धर्मं न करोति स्ववञ्चितः ॥ 036c
कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा । 037a
परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा ॥ 037c
ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा ॥ 038a
नीरोगा रूपसम्पन्नास्तैर्धर्मः सुकृतः पुरा ॥ 038c
एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम् । 039a
अधर्मं सेवते यस्तु तिर्यग्योन्यां पतत्यसौ ॥ 039c
इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम् । 040a
कथयिष्ये परं धर्मं तव भक्तस्य पाण्डव ॥ 040c
इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा । 041a
परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम् ॥ 041c
इदं मे मानुषं जन्म कृतमात्मनि मायया । 042a
धर्मसंस्थापनार्थाय दुष्टानां नाशनाय च ॥ 042c
मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया । 043a
संसारान्तर्हि ते मूढास्तिर्यग्योनिष्वनेकशः ॥ 043c
ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा । 044a
मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम् ॥ 044c
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः । 045a
मद्भक्तानां तु मानुष्ये सफलं जन्म पाण्डव ॥ 045c
अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन । 046a
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा ॥ 046c
जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् । 047a
भक्तिरुत्पद्यते तात मनुष्याणां न संशयः ॥ 047c
यच्च रूपं परं गुह्यं कूटस्थमचलं ध्रुवम् । 048a
न दृश्यते तथा देवैर्मद्भक्तैर्दृश्यते यथा ॥ 048c
अपरं यच्च मे रूपं प्रादुर्भावेषु दृश्यते । 049a
तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव ॥ 049c
कल्पकोटिसहस्रेषु व्यतीतेष्वागतेषु च । 050a
दर्शयामीह तद्रूपं यच्च पश्यन्ति मे सुराः ॥ 050c
स्थित्युत्पत्त्यव्ययकरं यो मां ज्ञात्वा प्रपद्यते । 051a
अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च ॥ 051c
अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया । 052a
प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम् ॥ 052c
तमोमूलोऽहमव्यक्तो रजोमध्ये प्रतिष्ठितः । 053a
ऊर्ध्वं सत्त्वं विना लोभं ब्रह्मादिस्तम्बपर्यतः ॥ 053c
मूर्धानं मे विद्धि दिवं चन्द्रादित्यौ च लोचने । 054a
गावोऽग्निर्बाह्मणो वक्त्रं मारुतः श्वसनं च मे ॥ 054c
दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम् । 055a
अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम् । 055c
मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम् ॥ 055e
पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम् । 056a
सर्वसन्धारणोपेतं पादौ मम युधिष्ठिर ॥ 056c
स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते । 057a
त्रिगुणोऽग्नौ स्थितोऽहं वै सलिले च चतुर्गुणः ॥ 057c
शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु । 058a
तन्मात्रासंस्थितः सोऽहं पृथिव्यां पञ्चधा स्थितः ॥ 058c
अहं सहस्रशीर्षस्तु सहस्रवदनेक्षणः । 059a
सहस्रबाहूदरधृक्सहस्रोरुः सहस्रपात् ॥ 059c
धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठं दशाङ्गुलम् । 060a
सर्वभूतात्मभूतस्थः सर्वव्यापी ततोऽस्म्यहम् ॥ 060c
अचिन्त्योऽहमनन्तोऽहमजरोऽहमजो ह्यहम् । 061a
अनाद्योऽहमवध्योऽहमप्रमेयोऽहमव्ययः ॥ 061c
निर्गुणोऽहं निगूढात्मा निर्द्वन्द्वो निर्ममो नृप । 062a
निष्कलो निर्विकारोऽहं निदानममृतस्य तु ॥ 062c
सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप । 063a
तेजसा तपसा चाहं भूतग्रामं चतुर्विधम् ॥ 063c
स्नेहपाशैर्गुणबद्ध्वा धारयाम्यात्ममायया । 064a
चातुराश्रमधर्मोऽहं चातुर्होत्रफलाशनः । 064c
चतुर्मूर्तिश्चतुर्यज्ञश्चतुराश्रमभावनः ॥ 064e
संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः । 065a
शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर ॥ 065c
सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे । 066a
स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च ॥ 066c
कल्पे कल्पे च भूतानि संहरामि सृजामि च । 067a
न च मां तानि जानन्ति मायया मोहितानि मे ॥ 067c
मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः । 068a
प्रशान्तस्येव दीपस्य गतिर्नैपोपलभ्यते ॥ 068c
न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः । 069a
न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम् ॥ 069c
यावन्मित्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत् । 070a
दीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः ॥ 070c
किञ्चात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते । 071a
यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु ॥ 071c
मया सृष्टानि भूतानि मन्मयानि च भारत । 072a
मामेव न विजानन्ति मायया मोहितानि वै ॥ 072c
एवं सर्वं जगदिदं सदेवासुरमानुषम् । 073a
मत्तः प्रभवते राजन्मय्येव प्रविलीयते ॥ ॥ 073c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

*एतदारभ्यापर्वसमाप्ति विद्यमानास्त्रयोविंशत्यध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते नत्वौत्तराहपाठे । 14-96-2 पञ्चमेनाश्वमेधेनेति ट.पाठः ॥ 14-96-18 शूद्रायनकृता धर्मा इति क.पाठः ॥ 14-96-23 वैभीतककृताश्च ये इति ट.पाठः ॥ 14-96-31 राजेन्द्र पुनाति ह नरं सदेति ट.पाठः ॥