श्रीः अध्यायः 095
वैशम्पायनेन जनमेजयम् प्रति नकुलस्य निजस्वरूपकथनपूर्वकं तस्य नकुलत्वप्राप्तिविमोक्षकारणाभिधानम् ॥ 1 ॥
जनमेजय उवाच KK-14-02-95-001
कोसौ नकुलरूपेण शिरसा काञ्चनेन वै । KK-14-02-95-001a
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥ KK-14-02-95-001c
वैशम्पायन उवाच KK-14-02-95-002
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् । KK-14-02-95-002a
श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी ॥ KK-14-02-95-002c
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल । KK-14-02-95-003a
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम् ॥ KK-14-02-95-003c
तत्पयः स्थापयामास नवे भाण्डे दृढे शुचौ । KK-14-02-95-004a
क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत् ॥ KK-14-02-95-004c
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते । KK-14-02-95-005a
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥ KK-14-02-95-005c
तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह । KK-14-02-95-006a
स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः ॥ KK-14-02-95-006c
जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः । KK-14-02-95-007a
लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः ॥ KK-14-02-95-007c
वशे स्थितोऽहं त्वय्यद्य क्षमावति महात्मनि । KK-14-02-95-008a
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो ॥ KK-14-02-95-008c
जमदग्निरुवाच KK-14-02-95-009
साक्षाद्दृष्टोसि मे क्रोध गच्छ त्वं विगतज्वरः । KK-14-02-95-009a
न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै ॥ KK-14-02-95-009c
यान्समुद्दिश्य सङ्कल्पः पयसोस्य कृतो मया । KK-14-02-95-010a
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम् ॥ KK-14-02-95-010c
इत्युक्तो जातसन्त्रासस्तत्रैवान्तरधीयत । KK-14-02-95-011a
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः ॥ KK-14-02-95-011c
स तान्प्रसादयामास शापस्यान्तो भवेदिति । KK-14-02-95-012a
तैश्चाप्युक्तः क्षिपन्धर्मं शापस्यान्तमवाप्स्यसि ॥ KK-14-02-95-012c
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च । KK-14-02-95-013a
जुगुप्समानो धावन्स तं यज्ञं समुपासदत् ॥ KK-14-02-95-013c
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः । KK-14-02-95-014a
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥ KK-14-02-95-014c
एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः । KK-14-02-95-015a
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ॥ KK-14-02-95-015c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥ समाप्तमनुगीतापर्व ।
14-95-4 पिठरं पात्रम् । तत्पयः पीतवानित्यर्थः । तच्च क्रोधस्वरूपेण पिठरं धर्म आविशदिति झ. पाठः ॥