श्रीः अध्यायः 094
वैशम्पायनेन जनमेजयम् प्रति पशुहिंसां विनैव ध्यानदानादिभिरेव यज्ञफलसंसिद्धौ दृष्टान्ततयाऽगस्त्ययज्ञप्रकारकथनम् ॥ 1 ॥
जनमेजय उवाच KK-14-02-94-001
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् । KK-14-02-94-001a
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥ KK-14-02-94-001c
तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् । KK-14-02-94-002a
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम् ॥ KK-14-02-94-002c
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् । KK-14-02-94-003a
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥ KK-14-02-94-003c
वैशम्पायन उवाच KK-14-02-94-004
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । KK-14-02-94-004a
अगस्त्यस्य महायज्ञे पुरावृत्तमरिन्दम ॥ KK-14-02-94-004c
पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् । KK-14-02-94-005a
प्रविवेश महाराज सर्वभूतहिते रतः ॥ KK-14-02-94-005c
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः । KK-14-02-94-006a
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः ॥ KK-14-02-94-006c
परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च । KK-14-02-94-007a
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥ KK-14-02-94-007c
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः । KK-14-02-94-008a
दमे स्थिताश्च सर्वे ते हिंसादम्भविवर्जिताः ॥ KK-14-02-94-008a
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः । KK-14-02-94-009c
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः ॥ KK-14-02-94-009a
यथाशक्त्या भगवता तदन्नं समुपार्जितम् । KK-14-02-94-010c
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत् ॥ KK-14-02-94-010a
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः । KK-14-02-94-011c
एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे । KK-14-02-94-011a
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥ KK-14-02-94-011e
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः । KK-14-02-94-012a
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥ KK-14-02-94-012c
अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः । KK-14-02-94-013a
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥ KK-14-02-94-013c
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् । KK-14-02-94-014a
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥ KK-14-02-94-014c
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः । KK-14-02-94-015a
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥ KK-14-02-94-015c
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् । KK-14-02-94-016a
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन् ॥ KK-14-02-94-016c
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । KK-14-02-94-017a
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥ KK-14-02-94-017c
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । KK-14-02-94-018a
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः ॥ KK-14-02-94-018c
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः । KK-14-02-94-019a
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः ॥ KK-14-02-94-019c
बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः । KK-14-02-94-020a
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति ॥ KK-14-02-94-020c
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन । KK-14-02-94-021a
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति ॥ KK-14-02-94-021c
अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः । KK-14-02-94-022a
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥ KK-14-02-94-022c
यो यदाहारजातश्च स तथैव भविष्यति । KK-14-02-94-023a
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥ KK-14-02-94-023c
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् । KK-14-02-94-024a
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम् ॥ KK-14-02-94-024c
दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः । KK-14-02-94-025a
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम् ॥ KK-14-02-94-025c
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते । KK-14-02-94-026a
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु ॥ KK-14-02-94-026c
स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु । KK-14-02-94-027a
इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः । KK-14-02-94-027c
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः ॥ KK-14-02-94-027e
ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम् । KK-14-02-94-028a
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥ KK-14-02-94-028c
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम् । KK-14-02-94-029a
तैरेव यज्ञैस्तुष्टाः स्म न्यायेनेच्छामहे वयम् ॥ KK-14-02-94-029c
यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे । KK-14-02-94-030a
'तयोस्सन्धर्षितैर्यज्ञैर्नान्यतो मृगयामहे ॥' KK-14-02-94-030c
न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम् । KK-14-02-94-031a
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥ KK-14-02-94-031c
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् । KK-14-02-94-032a
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥ KK-14-02-94-032c
भवतः सम्यगिष्टा तु बुद्धिर्हिंसाविवर्जिता । KK-14-02-94-033a
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥ KK-14-02-94-033c
प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम । KK-14-02-94-034a
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥ KK-14-02-94-034c
तथा कथयतां तेषां देवराजः पुरन्दरः । KK-14-02-94-035a
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥ KK-14-02-94-035c
आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः । KK-14-02-94-036a
निकामवर्षी पर्जन्यो बभूव जनमेजय ॥ KK-14-02-94-036c
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः । KK-14-02-94-037a
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥ KK-14-02-94-037c
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् । KK-14-02-94-038a
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ KK-14-02-94-038c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि चतुर्नवतितमोऽध्यायः ॥ 94 ॥
14-94-6 मरीचिपाश्चन्द्रमरीचिपानमातृप्ताः ॥ 14-94-7 परिपृष्टं चेदेव गृह्णन्ति नान्यथा मे परिपृष्टिकाः । प्रसङ्ख्यानास्तत्कालमात्रसङ्ग्रहाः ॥ 14-94-17 चिन्तायज्ञं मानसं यज्ञम् । सङ्कल्पमात्रेणैव देवानृषींश्च तर्पयिष्यामीत्यर्थः ॥ 14-94-18 स्पर्शयज्ञम् उपाहृतद्रव्यस्य व्ययमकृत्वा तत्स्पर्शेनैव तांस्तर्पयिष्यामि । एवं दृष्टियज्ञोपि ज्ञेयः ॥ 14-94-19 व्यायामेन शरीरक्लेशेन । ध्येयात्मना हरिष्यामि हति झ. पाठः ॥ 14-94-29 न त्विच्छामस्तपोव्ययमिति झ. पाठः ॥