श्रीः अध्यायः 093

जनमेजयेन नकुलेन यज्ञनिन्दाकारणं पृष्टेन वैशम्पायनेन तम् प्रति सत्यदानतपोभिरेव स्वर्गादिसिद्धौ पशुहिंसाहेतुयज्ञस्य नातिप्रशस्ततरत्वमिति नकुलाभिप्रायवर्णनम् ॥ 1 ॥

जनमेजय उवाच KK-14-02-93-001
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः । KK-14-02-93-001a
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो ॥ KK-14-02-93-001c
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते । KK-14-02-93-002a
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥ KK-14-02-93-002c
यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः । KK-14-02-93-003a
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ॥ KK-14-02-93-003c
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः । KK-14-02-93-004a
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ॥ KK-14-02-93-004c
अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः । KK-14-02-93-005a
सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥ KK-14-02-93-005c
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् । KK-14-02-93-006a
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥ KK-14-02-93-006c
वैशम्पायन उवाच KK-14-02-93-007
यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप । KK-14-02-93-007a
गदतः शृणु मे राजन्यथावदिह भारत ॥ KK-14-02-93-007c
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः । KK-14-02-93-008a
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥ KK-14-02-93-008c
हूयमाने तथा वह्नौ होत्रा गुणसमन्विते । KK-14-02-93-009a
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥ KK-14-02-93-009c
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप । KK-14-02-93-010a
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥ KK-14-02-93-010c
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ । KK-14-02-93-011a
महर्षयो महाराज बभूवुः कृपयाऽन्विताः ॥ KK-14-02-93-011c
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः । KK-14-02-93-012a
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ KK-14-02-93-012c
अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः । KK-14-02-93-013a
सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरन्दर ॥ KK-14-02-93-013c
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो । KK-14-02-93-014a
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते ॥ KK-14-02-93-014c
आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि । KK-14-02-93-015a
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥ KK-14-02-93-015c
यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः । KK-14-02-93-016a
एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते ॥ KK-14-02-93-016c
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः । KK-14-02-93-017a
उक्तं न प्रतिजग्राह मानमोहवशं गतः ॥ KK-14-02-93-017c
तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम् । KK-14-02-93-018a
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत ॥ KK-14-02-93-018c
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः । KK-14-02-93-019a
अभिसन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥ KK-14-02-93-019c
धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते । KK-14-02-93-020a
महाभाग कथं यज्ञेष्वागमो नृपसत्तम । KK-14-02-93-020c
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति ॥ KK-14-02-93-020e
तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम् । KK-14-02-93-021a
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥ KK-14-02-93-021c
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् । KK-14-02-93-022a
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ॥ KK-14-02-93-022c
तस्मान्न वाच्यं ह्येकेन बहुज्ञेनापि संशये । KK-14-02-93-023a
प्रजापतिमपाहाय स्वयम्भुवमृते प्रभुम् ॥ KK-14-02-93-023c
तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना । KK-14-02-93-024a
तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि ॥ KK-14-02-93-024c
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः । KK-14-02-93-025a
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः ॥ KK-14-02-93-025c
अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः । KK-14-02-93-026a
धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत् ॥ KK-14-02-93-026c
धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः । KK-14-02-93-027a
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ॥ KK-14-02-93-027c
पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः । KK-14-02-93-028a
रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते ॥ KK-14-02-93-028c
अपि सञ्चयबुद्धिर्हि लोभमोहवशं गतः । KK-14-02-93-029a
यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना ॥ KK-14-02-93-029c
एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा । KK-14-02-93-030a
न तस्य स फलं प्रेत्य भुङ्क्ते पापधनागमात् ॥ KK-14-02-93-030c
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः । KK-14-02-93-031a
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः ॥ KK-14-02-93-031c
एष धर्मो महायोगो दानं भूतदया तथा । KK-14-02-93-032a
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ॥ KK-14-02-93-032c
सनातनस्य धर्मस्य फलमेतत्सनातनम् । KK-14-02-93-033a
श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः ॥ KK-14-02-93-033c
विश्वामित्रोसितश्चैवं जनकश्च महीपतिः । KK-14-02-93-034a
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः ॥ KK-14-02-93-034c
एते चान्ये च बहवः सिद्धिं परमिकां गताः । KK-14-02-93-035a
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ॥ KK-14-02-93-035c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः । KK-14-02-93-036a
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥ KK-14-02-93-036c

इती श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

14-93-13 नहि यज्ञे पशुगणाः इति झ. पाठः ॥ 14-93-16 त्रिवर्षपरमोषितैः पुराणैः ॥ 14-93-20 बीजै रसैरिति झ. पाठः ॥