श्रीः अध्यायः 092

नकुलेन युधिष्ठिरादीन्प्रति सकुटुम्बस्योञ्छवृत्तेर्ब्राह्मणस्य धर्मपुरुषाय सक्तुप्रस्थदानमहिमवर्णनपूर्वकम् पुनस्तत्रैवान्तर्धानम् ॥ 1 ॥

नकुल उवाच KK-14-02-92-001
हन्त वः कथयिष्यामि दानस्य फलमुत्तमम् । KK-14-02-92-001a
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥ KK-14-02-92-001c
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते । KK-14-02-92-002a
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥ KK-14-02-92-002c
सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः । KK-14-02-92-003a
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः ॥ KK-14-02-92-003c
षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः ॥ KK-14-02-92-004ac
षष्ठे काले कदाचित्तु तस्याहारो न विद्यते । KK-14-02-92-005a
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥ KK-14-02-92-005c
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे । KK-14-02-92-006a
नाविद्यत तदा विप्राः सञ्चयस्तन्निबोधत ॥ KK-14-02-92-006c
क्षीणौषधिसमावापो द्रव्यहीनोऽभवत्तदा । KK-14-02-92-007a
कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् ॥ KK-14-02-92-007c
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते । KK-14-02-92-008a
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे ॥ KK-14-02-92-008c
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः । KK-14-02-92-009a
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः ॥ KK-14-02-92-009c
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह । KK-14-02-92-010a
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥ KK-14-02-92-010c
अथ षष्ठे गते काले यवप्रस्थमुपार्जयन् । KK-14-02-92-011a
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः ॥ KK-14-02-92-011c
कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि । KK-14-02-92-012a
कुडवङ्कुडवं सर्वे व्यभजन्त तपस्विनः ॥ KK-14-02-92-012c
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा । KK-14-02-92-013a
ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन् ॥ KK-14-02-92-013c
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा । KK-14-02-92-014a
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥ KK-14-02-92-014c
अनसूया गतक्रोधाः साधवो वीतमत्सराः । KK-14-02-92-015a
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः ॥ KK-14-02-92-015c
सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम् । KK-14-02-92-016a
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥ KK-14-02-92-016c
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ । KK-14-02-92-017a
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो । KK-14-02-92-017c
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ ॥ KK-14-02-92-017e
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः । KK-14-02-92-018a
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥ KK-14-02-92-018c
स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम् । KK-14-02-92-019a
आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥ KK-14-02-92-019c
तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति । KK-14-02-92-020a
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः ॥ KK-14-02-92-020c
इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः । KK-14-02-92-021a
क्षुधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत ॥ KK-14-02-92-021c
आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा । KK-14-02-92-022a
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् । KK-14-02-92-022c
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ह ॥ KK-14-02-92-022e
अपि कीटपतङ्गानां मृगाणां चैव शोभने । KK-14-02-92-023a
स्त्रियो रक्ष्याश्च पोष्याश्च न त्वेवं वक्तुमर्हसि ॥ KK-14-02-92-023c
अनुकम्प्यो नरः पत्न्या पुष्टो रक्षित एव च । KK-14-02-92-024a
प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात् ॥ KK-14-02-92-024c
धर्मकामार्थकार्याणि शुश्रूषाकुलसन्ततिः । KK-14-02-92-025a
दारेष्वधीनो धर्मश्च पितॄणामात्मनस्तथा ॥ KK-14-02-92-025c
न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान् । KK-14-02-92-026a
अयशो महदाप्नोति नारकांश्चैव गच्छति ॥ KK-14-02-92-026c
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज । KK-14-02-92-027a
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥ KK-14-02-92-027c
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः । KK-14-02-92-028a
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ ॥ KK-14-02-92-028c
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः । KK-14-02-92-029a
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा ॥ KK-14-02-92-029c
पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे । KK-14-02-92-030a
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे ॥ KK-14-02-92-030c
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् । KK-14-02-92-031a
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥ KK-14-02-92-031c
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् । KK-14-02-92-032a
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥ KK-14-02-92-032c
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः । KK-14-02-92-033a
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥ KK-14-02-92-033c
पुत्र उवाच KK-14-02-92-034
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम । KK-14-02-92-034a
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥ KK-14-02-92-034c
भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः । KK-14-02-92-035a
साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम् ॥ KK-14-02-92-035c
पुत्रार्थो विहितो ह्येष वार्धके परिपालनम् | KK-14-02-92-036a
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती ॥ KK-14-02-92-036c
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया । KK-14-02-92-037a
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥ KK-14-02-92-037c
पितोवाच KK-14-02-92-038
अपि वर्षसहस्री त्वं बाल एव मतो मम । KK-14-02-92-038a
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात् ॥ KK-14-02-92-038c
बालानां क्षुद्बलवती जानाम्येतदहं प्रभो । KK-14-02-92-039a
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥ KK-14-02-92-039c
जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च । KK-14-02-92-040a
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥ KK-14-02-92-040c
पुत्र उवाच KK-14-02-92-041
अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः । KK-14-02-92-041a
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥ KK-14-02-92-041c
पितोवाच KK-14-02-92-042
रूपेण सदृशस्त्वं मे शीलेन च दमेन च । KK-14-02-92-042a
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत ॥ KK-14-02-92-042c
इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः । KK-14-02-92-043a
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥ KK-14-02-92-043c
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह । KK-14-02-92-044a
उञ्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह ॥ KK-14-02-92-044c
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया । KK-14-02-92-045a
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत् ॥ KK-14-02-92-045c
सन्तानात्तव सन्तानं मम विप्र भविष्यति । KK-14-02-92-046a
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे ॥ KK-14-02-92-046c
तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः । KK-14-02-92-047a
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥ KK-14-02-92-047c
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च । KK-14-02-92-048a
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः ॥ KK-14-02-92-048c
पितॄनृणात्तारयति पुत्र इत्यनुशुश्रुम । KK-14-02-92-049a
पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते ॥ KK-14-02-92-049c
श्वशुर उवाच KK-14-02-92-050
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै । KK-14-02-92-050a
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥ KK-14-02-92-050c
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः । KK-14-02-92-051a
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि ॥ KK-14-02-92-051c
षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम् । KK-14-02-92-052a
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे ॥ KK-14-02-92-052c
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया । KK-14-02-92-053a
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥ KK-14-02-92-053c
स्नुषोवाच KK-14-02-92-054
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् । KK-14-02-92-054a
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो ॥ KK-14-02-92-054c
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः । KK-14-02-92-055a
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान् ॥ KK-14-02-92-055c
अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज । KK-14-02-92-056a
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥ KK-14-02-92-056c
श्वशुर उवाच KK-14-02-92-057
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे । KK-14-02-92-057a
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥ KK-14-02-92-057c
तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम् । KK-14-02-92-058a
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे ॥ KK-14-02-92-058c
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये । KK-14-02-92-059a
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥ KK-14-02-92-059c
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् । KK-14-02-92-060a
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः ॥ KK-14-02-92-060c
शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः । KK-14-02-92-061a
यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम ॥ KK-14-02-92-061c
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः । KK-14-02-92-062a
गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि ॥ KK-14-02-92-062c
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः । KK-14-02-92-063a
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥ KK-14-02-92-063c
ब्रह्मर्षयो विमानस्था ब्रह्मलोकचराश्च ये । KK-14-02-92-064a
काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ ॥ KK-14-02-92-064c
पितृलोकगताः सर्वे तारिताः पितरस्त्वया । KK-14-02-92-065a
अनागताश्च बहवः सुबहूनि युगान्युत ॥ KK-14-02-92-065c
ब्रह्मचर्येण दानेन यज्ञेन तपसा तथा । KK-14-02-92-066a
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥ KK-14-02-92-066c
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत । KK-14-02-92-067a
तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम ॥ KK-14-02-92-067c
सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा । KK-14-02-92-068a
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया ॥ KK-14-02-92-068c
क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति । KK-14-02-92-069a
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥ KK-14-02-92-069c
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् । KK-14-02-92-070a
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति ॥ KK-14-02-92-070c
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च । KK-14-02-92-071a
धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया ॥ KK-14-02-92-071c
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् । KK-14-02-92-072a
कालः परतरो दानाच्छ्रद्धा चैव ततः परा ॥ KK-14-02-92-072c
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्न दृश्यते । KK-14-02-92-073a
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम् ॥ KK-14-02-92-073c
तं तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः । KK-14-02-92-074a
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः ॥ KK-14-02-92-074c
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च । KK-14-02-92-075a
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥ KK-14-02-92-075c
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः । KK-14-02-92-076a
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥ KK-14-02-92-076c
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः । KK-14-02-92-077a
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥ KK-14-02-92-077c
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः । KK-14-02-92-078a
एकां दत्त्वा स पारक्यां नरकं समपद्यत ॥ KK-14-02-92-078c
आत्ममांसप्रदानेन शिबोरौशीनरो नृपः । KK-14-02-92-079a
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥ KK-14-02-92-079c
विभवेन नृणां पुण्यं यच्छक्त्या स्वार्जितं न तत् । KK-14-02-92-080a
न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः ॥ KK-14-02-92-080c
क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति । KK-14-02-92-081a
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥ KK-14-02-92-081c
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः ॥ KK-14-02-92-082a
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥ KK-14-02-92-082c
सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः । KK-14-02-92-083a
विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम् ॥ KK-14-02-92-083c
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् । KK-14-02-92-084a
आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम् ॥ KK-14-02-92-084c
बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते । KK-14-02-92-085a
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥ KK-14-02-92-085c
इत्युक्तवाक्ये धर्मे तु यानमारुह्य स द्विजः । KK-14-02-92-086a
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः ॥ KK-14-02-92-086c
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा । KK-14-02-92-087a
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥ KK-14-02-92-087c
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च । KK-14-02-92-088a
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः ॥ KK-14-02-92-088c
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् । KK-14-02-92-089a
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह ॥ KK-14-02-92-089c
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् । KK-14-02-92-090a
पश्यतेमं सुविपुलं तपसा तस्य धीमतः ॥ KK-14-02-92-090c
कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः । KK-14-02-92-091a
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः || KK-14-02-92-091c
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः । KK-14-02-92-092a
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥ KK-14-02-92-092c
ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः । KK-14-02-92-093a
सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा ॥ KK-14-02-92-093c
सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः । KK-14-02-92-094a
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥ KK-14-02-92-094c
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा । KK-14-02-92-095a
जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान् ॥ KK-14-02-92-095c
एतत्ते सर्वमाख्यातं मया परपुरञ्जय । KK-14-02-92-096a
यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ ॥ KK-14-02-92-096c
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन । KK-14-02-92-097a
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥ KK-14-02-92-097c
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् । KK-14-02-92-098a
तपो दमश्च सत्यं च प्रदानं चेति सम्मितम् ॥ KK-14-02-92-098c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

14-92-2 कपोतवदेकैकं कणमादत्ते स कापोतिः ॥ 14-92-8 उञ्छं कणश आदानं कर्तुमिति शेषः । शुक्लस्य ज्येष्ठस्य पक्षे ॥ 14-92-56 अवेक्ष्या पालनीया । चिन्त्या परीक्षणीया ॥ 14-92-58 हे वरे श्रेष्ठे महाभागे त्वां धर्मभृतां मध्ये गणयित्वा सक्तून् ग्रहीष्यामीत्यन्वयः ॥ 14-92-84 तारितो हि त्वयेति झ. पाठः ॥