श्रीः अध्यायः 091

वैशम्पायनेन जनमेजयम् प्रति नकुलाख्यानकथनारम्भः ॥ 1 ॥ अश्वमेधावसाने बिलान्निस्सृतेन कनकपार्श्वेन केनचिन्नकुलेन सदस्यान्प्रति उञ्छवृत्तिब्राह्मणस्य सक्तुप्रस्थदानप्रशंसनपूर्वकं युधिष्ठिराश्वमेधगर्हणम् ॥ 2 ॥ । तथा सदस्यचोदनया तत्कथनोपक्रमः ॥ 3 ॥

जनमेजय उवाच KK-14-02-91-001
पितामहस्य मे यज्ञे धर्मराजस्य धीमतः । KK-14-02-91-001a
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ॥ KK-14-02-91-001c
वैशम्पायन उवाच KK-14-02-91-002
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् । KK-14-02-91-002a
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो ॥ KK-14-02-91-002c
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु । KK-14-02-91-003a
दीनान्धकृपणे वाऽपि तदा भरतसत्तम ॥ KK-14-02-91-003c
घुष्यमाणे महादाने दिक्षु सर्वासु भारत । KK-14-02-91-004a
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ KK-14-02-91-004c
बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघ । KK-14-02-91-005a
वज्राशनिसमं नादममुञ्चद्वसुधाधिप ॥ KK-14-02-91-005c
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान् । KK-14-02-91-006a
मानुषं वचनं प्राह पुष्पोपरिशयो महान् ॥ KK-14-02-91-006c
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः । KK-14-02-91-007a
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ KK-14-02-91-007c
तस्य तद्वचनं श्रुत्वा नकुलस्य विशाम्पते । KK-14-02-91-008a
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥ KK-14-02-91-008c
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः ॥ KK-14-02-91-009a
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥ KK-14-02-91-009c
किं बलं परमं तुभ्यं श्रुतं किं परायणम् । KK-14-02-91-010a
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥ KK-14-02-91-010c
अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम् । KK-14-02-91-011a
यथागमं यथान्यायं कर्तव्यं च तथा कृतम् ॥ KK-14-02-91-011c
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शनात् । KK-14-02-91-012a
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम् ॥ KK-14-02-91-012c
तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि । KK-14-02-91-013a
क्षत्रियाश्च सुयुद्धेन श्राद्धैश्चापि पितामहाः ॥ KK-14-02-91-013c
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः । KK-14-02-91-014a
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ॥ KK-14-02-91-014c
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः । KK-14-02-91-015a
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ॥ KK-14-02-91-015c
यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु । KK-14-02-91-016a
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥ KK-14-02-91-016c
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च । KK-14-02-91-017a
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति ॥ KK-14-02-91-017c
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत् । KK-14-02-91-018a
नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥ KK-14-02-91-018c
यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम् । KK-14-02-91-019a
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः ॥ KK-14-02-91-019c
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः । KK-14-02-91-020a
शृणुताव्यग्रमनसः शंसतो मे यथातथम् ॥ KK-14-02-91-020c
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम् । KK-14-02-91-021a
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ KK-14-02-91-021c
स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः । KK-14-02-91-022a
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥ KK-14-02-91-022c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥

14-91-5 नीलाक्षस्तत्र नकुल इति झ. पाठः ॥ 14-91-6 धृष्टो बिलशयो महान् इति झ. पाठः ॥ 14-91-22 ममेदं यत्रेति शेषः ॥